ॐ अस्य श्री अभिषेक सूक्त महामन्त्रस्य दक्षिणामूर्तिः ऋषिः अनुष्टुप
छन्दः श्रीपराशक्तिर्देवता सर्वसङ्कल्पसिद्धये विनियोगः |
ॐ राजराजेश्वरी शक्तिर्भैरवी रुद्रभैरवी |
श्मशानभैरवी देवी त्रिमूर्त्यानन्दभैरवी ||
त्रिजटा त्रिपुटादेवी तथा त्रिपुरसुन्दरी |
त्रिपुरेशी महादेवी तथा त्रिपुरमालिनी ||
त्रिपुरानन्दिनी देवी तथैव त्रिपुराम्बिका |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ छिन्नमस्ता महाविद्या तथैव च जटेश्वरी |
परा तारा जया दुर्गा शूलिनी भुवनेश्वरी ||
त्वरिताख्या महादेवी तथैव च त्रिखण्डिका |
नित्यानित्यस्वरूपा च वज्रप्रस्तारिणी तथा |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ अश्वारूढा महादेवी तथा महिषमर्दिनी |
दुर्गा च नवदुर्गा च श्रीदुर्गा भगमालिनी ||
तथा भगोदरी देवी नित्यक्लिन्ना तथाऽपरा |
सर्वचक्रेश्वरी देवी तथा नीलसरस्वती ||
सर्वसिद्धिकरी देवी सिद्धगन्धर्वसेविता |
उग्रतारा महादेवी साक्षाच्छ्रीभद्रकालिका |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ क्षेमङ्करी महामाया चानिरुद्धसरस्वती |
मातङ्गी चान्नपूर्णा च राजराजेश्वरी तथा |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका |
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ उग्रदंष्ट्रा सुदंष्ट्रा च महादंष्ट्रकपालिनी |
भीमनेत्रा विशालाक्षी मङ्गला विजया जया |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
मङ्गला नन्दिनी भद्रा लक्ष्मीः कान्तिर्यशस्विनी |
पुष्टिर्मेधा शिवा धात्री यशः शोभा जया धृतिः ||
श्रीनन्दा च सुनन्दा च नन्दिनी नन्दपूजिता |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ विजया मङ्गला भद्रा धृतिः शान्तिः शिवा क्षमा |
सिद्धिस्तुष्टिरुमा पुष्टिः श्रद्धा चैव रतिस्तथा ||
दीप्तिः कान्तिर्घना लक्ष्मीरीश्वरी बुद्धिरेव च |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ चक्री जयावती ब्राह्मी जयन्ती चापराजिता |
अजिता मानवी श्वेता अदितिश्चादिरेव च ||
माया चैव महामाया क्षोभिणी लोभिनी तथा |
कमला विमला गौरी शरण्या बुधसुन्दरी ||
दुर्गा क्रिया अरुन्धती च घण्टाहस्ता कपालिनी |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ रौद्री काली च मायूरी त्रिनेत्रा चापराजिता |
सुरूपा च कुरूपा च तथैव विग्रहात्मिका ||
चर्चिका चापराज्ञेया तथैव सुरपूजिता |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ वैवस्वती च कौमारी तथा माहेश्वरी परा |
वैष्णवी च महालक्ष्मीः कार्तिकी कौलिकी तथा ||
शिवदूती च चामुण्डा मुण्डमालाविभूषिता |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ इन्द्रो अग्निश्च यमश्चैव निरृतिर्वरुणस्तथा |
पवनो धनदेशानौ ब्रह्मा अनन्तो दिगीश्वराः |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ रविः सोमः कुजो सौम्यः गुरुः शुक्रः शनैश्चरः |
राहुः केतुश्च सततं अभिषिञ्चन्तु ते ग्रहाः ||
ॐ अस्तिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः |
कपाली भीषणाख्यश्च संहारश्चाष्टभैरवाः |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ डाकिनीपुत्रकाश्चैव राकिणीपुत्रकास्तथा |
लाकिनीपुत्रकाश्चान्ये काकिनीपुत्रकाऽपरे ||
शाकिनीपुत्रका भूयो हाकिनीपुत्रकास्तथा |
ततश्च यक्षिणीपुत्राः देवीपुत्रास्ततः परम् ||
मातॄणां च तथा पुत्राः ऊर्ध्वमुख्याः सुताश्च ते |
अधोमुख्याः सुताश्चैव कालमुख्याः सुताः परे |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ पुरुषः प्रकृतिश्चैव विकाराश्चैव षोडश |
आत्माऽन्तरात्मा परमज्ञानात्मानः प्रकीर्तिताः ||
आत्मनश्च गुणाश्चैव स्थूला सूक्ष्माश्च ये परे |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ वेदादिबीजं श्रीबीजं तथा तन्नीलकेतनं |
शक्तिबीजं रमाबीजं मायाबीजं गुणाष्टकम ् ||
चिन्तामणिर्महबीजं नारसिंहं च शाङ्करं |
मार्ताण्डभैरवं दौर्गं बीजं श्रीपुरुषोत्तमम् ||
गाणपत्यं च वाराहं कालबीजं भयापहं
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ गङ्गा गोदावरी रेवा यमुना च सरस्वती |
आत्रेयी भारती चैव सरयूर्गण्डकी तथा ||
करतोया चन्द्रभागा श्वेतगङ्गा च कौशिकी |
पाताले भोगवती चैव स्वर्गे मन्दाकिनी तथा |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ भैरवो भीमरूपश्च शोणो घर्घर एव च |
सिन्धुश्चैव ह्रदश्चैव तथा पातालसम्भवाः |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ यानि कानि च तीर्थानि पुण्यान्यायतनानि च |
तानि त्वामभिषिञ्चन्तु मन्त्रतन्त्रौषधानि च ||
ॐ जम्बूद्वीपादयो द्वीपाः सागरा लवणादयः |
अनन्ताद्यास्तथा नागाः सर्पाद्या तक्षकादयः |
एतस्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ||
ॐ रतिश्च वल्लभावह्नेः वषट् कूर्चमतः परं
वौषट्कारस्तु फट्कारः अभिषिञ्चन्तु सर्वदा ||
ॐ नश्यन्तु प्रेतकूष्माण्डाः दानवा राक्षसाश्च ये |
पिशाचा गुह्यका भूता अभिषेकेन ताडिताः ||
अलक्ष्मीः कालरात्रिश्च पापानि च महान्ति च |
नश्यन्तु चाभिषेकेन ताराबीजेन ताडिताः ||
रोगाः शोकाश्च दारिद्र्यं दौर्बल्यं दारुणं महत् |
नश्यन्तु चाभिषेकेन वाग्बीजेनैव ताडिताः ||