"Dvaita Vs Advaita"-Byஆகமக்கடல்

6 views
Skip to first unread message

ஆகமக்கடல்

unread,
Jul 7, 2010, 12:29:03 PM7/7/10
to aadhi...@googlegroups.com
अस्ति एका "अद्वैतवादिनी" लता नाम । एकदा सा चिन्तितवती, मया
अद्वैतसिद्धान्तस्य प्रचारः करणीयः इति । तस्याः गृहस्य भित्त्यां सा
लिखितवती - "सोऽहम्" । परन्तु तस्याः सहोदरी, सीता, द्वैतवादिनी आसीत् ।
भित्त्यां लिखितं सन्देशं दृष्ट्वा सा चिन्तितवती, मया अपि
द्वैतसिद्धान्तस्य प्रचारः करणीयः इति । सा तत्र गत्वा "दा" इति अक्षरं
योजितवती । अतः तत् वचनं "दासोऽहम्" इति अभवत् ।

अग्रिमदिने लता स्वलिखितं सन्देशं द्रष्टुम् आगतवती । परन्तु पदस्य
परिवर्तनं दृष्ट्वा सा विस्मिता अभवत् । "एतत् तु मम सहोदर्या लिखितं
निश्चयेन । मया किमपि करणीयम्" । सा पदात् पूर्वम् अन्यम् एकं "स"
अक्षरम् योजितवती । "सदासोऽहम्" इति । तद्दिने सायङ्काले, सीता पुनः
पदस्य परिवर्तनं कृतवती - "दासदासोऽहम्" । एवमेव प्रतिदिनं, पदस्य
परिवर्तनं जातम् । अन्ते किम् अभवत् इति भवन्तः एव पूरयन्तु :)

{இது படித்ததில் ருசித்தது}

Reply all
Reply to author
Forward
0 new messages