घोषणा
नवमः संस्कृतसमावेशः
यूपेन्न्-विश्वविद्यालयस्य संस्कृतविभागेन आयोज्यमानं नवमं वार्षिकं संस्कृतसमावेशं सहर्षं निवेदयामः । सेप्टेम्बर्-मासस्य एकविंशे दिनाङ्के (Saturday, September 21, 2024) प्रात: सार्धनववादनात् अपराह्णे सार्धचतुर्वादनपर्यन्तं संस्कृतसमावेशोऽयम् अन्तरजालमाध्यमेन अभिमुखं च भविष्यति । सभाया: अस्या: उद्देशः शोधपरम्परायां वक्तारः संस्कृतेन स्वमतं प्रतिपाद्य प्रच्छकैः सह सम्भाषणकुशला: भवेयुः इति । संस्कृतानुरागिणः वक्तृत्वेन श्रोतृत्वेन वा भागं वहन्तु इति स्वागतं व्याहरामः |
भाषणानि परस्परसम्बद्धानि भवन्तु इति धिया "भासनाटकं रामायणं वा" इति अनुबन्धः पुरस्क्रियते अस्मिन् वर्षे । अतः वक्तृभिः भासनाटकानि रामायणं वा अधिकृत्य व्याख्यानवस्तूनि चीयन्ताम् इति निवेदयामः ।
भाषणानि द्विविधानि भवन्ति । लघुभाषणानि पञ्चदशनिमेषपरिमितानि । दीर्घभाषणानि त्रिंशन्निमेषात्मकानि । प्रदर्शनीमाध्यमेन (स्लैड्-पत्ररूपेण) भाषणानि प्रेषणीयानि । समावेशे वक्तारः कतिपयैः निमेषैः सारांशं वा विषयोद्देशं वा कथयितुम् अर्हन्ति । ततः प्रश्नोत्तररूपेण चर्चा संपत्स्यते |
दिनाङ्काः -
उद्घोषणम् - July 15, 2024
संक्षेपसमर्पणम् (Abstracts due) - August 10, 2024
पत्राह्वानम् (Invitation for presentation) - August 17, 2024
पत्रसमर्पणम् (Paper/slides due) - September 16, 2024
समावेशः (Hybrid - on zoom and in-person) - September 21, 2024
निःशुल्कं पञ्जीकरणम् । सर्वे भागिनः (श्रोतारश्च वक्तारश्च) पञ्जीकुर्वन्तु ।
When: Saturday, September 21, 2024, from 9:30am - 4:30pm Eastern Time
Where: Zoom (meeting link will be shared with attendees later) & in person (building & room - TBA)
Registration:
https://forms.gle/c2aPvTu933iMJeXQA NOTE : ALL ATTENDEES MUST REGISTER INDIVIDUALLYFor further questions, please contact Abhinav Seetharaman at
posti...@gmail.comPlease do not forget to email your topic abstract to
posti...@gmail.com by August 10, 2024 if not submitting at the time of registration