Islam is based on AtharvaVeda

13 views
Skip to first unread message

संस्कृत संवादः

unread,
Feb 7, 2025, 3:02:24 AM2/7/25
to BVpar...@googlegroups.com, Samv...@googlegroups.com
शब्दकल्पद्रुमः
अल्ला 
  
अल्ला¦, स्त्री, (अल + क, स्त्रियां टाप् ।) परमेश्वरः । एतन्नाम्ना यवना उपासन्ते । यथा । “ओँ अस्मल्लां इल्ले मित्रावरुणो दिव्यानि धत्ते । इलल्ले वरुणो राजा पुनर्ददुः । हयामि मित्रो इल्लां इल्लल्लेति इल्लाल्लां वरुणो मित्रो तेजकामाः । होवारमिन्द्रो होतारमिन्द्रो माहासुरिन्द्राः । अल्लो ज्येष्ठं श्रेष्ठं परमं पूर्णं ब्रह्माणमल्लां अल्लोरसुर महमदरकं वरस्य अल्लो अल्लां आदल्लावुकमेककं । अल्लां वुकं । निखातकं । अल्लो यज्ञेन हुतहुत्वः अल्ला सूर्य्यचन्द्रसर्व्वनक्षत्राः अल्लो ऋषीणां सदिव्या इन्द्राय पूर्व्वं मायापरमन्त अन्तरिक्षाः । अल्लो पृथिव्या अन्तरिक्षं विश्वरूपं दिव्यानि धत्ते इल्लल्ले वरुणो राजा पुनर्ददुः । इल्लाकवर इल्लाकवर इल्लल्लेति इल्लाल्लाः इल्ला इल्लल्ला अनादिस्वरूपा अथर्व्वणी शाखां ह्रूँ ह्रीँ जनान् पशून् सिद्धान् जलचरान् अदृष्टं कुरु कुरु फट् । असुरसंहारिणीं हुँ अल्लो रसुरमहमदरकं वरस्य अल्लो अल्लां इल्लल्लेति इल्लल्लः” । इत्याथर्व्वणसूक्तं
अल्ला 
  
अल्ला¦, स्त्री, (अल्यते इत्यल्, क्विप्, अलें भूषायै लाति गृह्णाति, ला + क ।) नाट्योक्तौ माता । इति वोपदेवः ॥ (अथर्व्ववेदे अल्लाल्लेत्यादिख्यातो यवनोपास्यः परमेश्वरः ।)

वाचस्पत्यम्
अल्ला 
  
अल्ला¦ स्त्री अल्यते इत्यल् क्विप् अले भूषायै लाति गृह्णाति ला--क ४ त० । १ मातरि । अलतीति अल् पर्य्याप्तः सन् लाति सर्व्वानत्ति गृह्णाति जानाति वा ला--क । २ सर्व्वज्ञायां सर्व्वभक्षिकायां परमात्मदेवतायाम् सा च अथर्व्ववेदे अल्लाल्लेत्यादिसूक्ते प्रसिद्धा ।

Best Regards,
डोकानियोपनामको मोहितः
संस्कृत संवादः
https://linktr.ee/samvadah
Reply all
Reply to author
Forward
0 new messages