वि वा ए॒तम्प्र॒जया॑ प॒शुभि॑रर्धयति ।
व॒र्धय॑त्यस्य॒ भ्रातृ॑व्यम् ।
यस्य॑ ह॒विर्निरु॑प्तम्पु॒रस्ता᳚च्च॒न्द्रमा॑ अ॒भ्यु॑देति॑ ।
इति तैत्तिरीयसंहितायाम् २.५.५।
तत्र भाक्सरभाष्यं रुचिकरम् अवजिगमिषामि, किन्तु क्वचिद् एव स्पष्टता ऽस्ति।
भवत्सु कश्चित् कूलङ्कषतयाऽवगत्य मे वदेत्?
अधो लब्धो भाष्यभागः-
अत्र ब्रूमः - अस्य चन्द्रमसो द्वादश दृश्यादृश्य-कला **अंशाः**,
एतैर् अंशैर् अयं दृश्यश् चादृश्यश् च भवति ।
तत्र स्फुट-जिज्ञासायां वखा[शून्यखा]ग्निभिः शत-त्रयेण द्वादश-भागान् सङ्गणय्य
पूर्वस्यां दिशि उदये ऽस्तमये च विचार्यमाणे
कर्म-द्वय-संस्कृतेनोदय-राशिना विभज्य
लब्धेनांशादिना युक्तस् स्फुटोर्क उदयार्को भवति ।
तद्-युक्तो यावान् स्फुटो ऽर्कः
तावान् यदा गणितानीतो ऽर्को भवति
तदा चन्द्रमा उदेति
अथ तेनैवांशादिना रहितस् स्फुटोऽर्को वा अस्तमयार्को वा भवति ।
तावान् यदा स्फुटोर्को भवति
तदा चन्द्रमा अस्तमेति ।
यदा पुनः प्राच्यां दिश्य् उदयोस्तमयो वा विचार्यते
तदा पूर्ववत् संगुणितान् द्वादश-भागान्
चन्द्र-कर्म-द्वय-संस्कृते ऽस्तमय-राशिना विभज्य
लब्धेनांशादिना स्फुटोर्क उदययुक्त उदयार्को भवति ।
तद्-रहितोस्तमयार्कः ।
तत्र चन्द्रस्य उदयार्केणास्तमयार्केण वा सह यद् अन्तरं
तस्मिन्न् अन्तरे यावान् कालः,
तेन कालेन घटिकादिना उदितो ऽस्तं गतो वा भवति ।
तत्र द्वेधा चन्द्रस्योदयास्तमयौ यथा प्रतिदिनं च भवतः
गोलका-प्राप्ति-परित्यागाभ्यां सूर्यस्येव ।
तथाऽऽदित्यस्यैव सन्निकर्षाद् विप्रकर्षाच् च अस्योदयास्तमयौ भवतः ।
तदपि कथ्यते - अयं चन्द्रश् शीघ्र-गतित्वात् प्रत्यहम् अर्क-समीपम् आगच्छति
यावत् प्राच्याम् अस्तं व्रजति ।
अस्तं गतश् च ततश् शीघ्र-गतित्वात् आदित्यम् अनुदिनं परित्यजति
यावत् प्रतीच्याम् उदेति ।
एवम् अस्यादित्य-सन्निकर्षात् विप्रकर्षाच् च
प्राच्याम् अस्त-मयः, प्रतीच्याम् उदयः ।+++(5)+++
तच् चन्द्रार्कयोर् भुक्त्य्-अन्ताः द्वादश-महा-भागाः अंशाः ।
तेन गोलार्ध-भागानाम् अशीति-शत-सङ्ख्य-भागे हृते
लब्धं पञ्च-दश प्रतिपद्-आदयस् तिथयः ।
तिथि-भाग-घटिके द्वे,
दृश्य-गोलार्ध-भागस्य त्रिंशत्-घटिकात्वात् ।
तत्र चन्द्रार्कयोः परो विप्रकर्षः पौर्णमासी,
परस् सन्निकर्षो ऽमावास्या ।
तत्राभीष्ट-काले स्फुट-भुक्त्य्-अन्तरं स्फुट-कालांशाद् अधिकं वा भवेत् तद्-अन्यूनं वा ;
अधिकत्वे पञ्चदश्यामपि चन्द्रो दृश्यस्स्यात् ।
न्यूनत्वे तु चतुर्दश्यां अपि न दृश्येत ।
तस्मात् तादृशः सूक्ष्म-गणना-कौशल-शालिना कालो ऽन्वेष्यः ॥
अग्रे च -
…
6अथ शाखान्तरे ऋद्धिकाममधिकृत्योक्तम् -
> 'द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत यः कामयेत'
?? भवतः ।
> तत्र च यावद् एवम् उपपद्यते
तावान् प्रकर्षस् सोप्य(?)
इति चतुर्थोंशो दुष्टः । तत्र
> `यदीष्ट्या यदि पशुना यदि सोमेन यजेतामावास्यायां पौर्णमास्यां वा यजेत'
इत्य् उच्यते । तथा -
> 'पक्षान्तेऽन्वाधानं पक्षादौ यागः'
> 'पूर्वेद्युर् अन्वाधानम् उत्तरेद्युर्यागः'
इति च ।
अन्वाधानादि-यावद्-इष्ट्य्-अन्तं चन्द्रोदये ऽभ्युदयेष्ट्या भाव्यम् ।
तथा "पर्वसन्धेः पूर्वम् इष्टि-समाप्तौ पुनर् यष्टव्यम्" इत्य् आहुः ।
तत्र पर्वणः सूक्ष्मत्वात् प्रत्यासन्न-तिथि-द्वय-लक्षणायां
पञ्च-दशी--प्रतिपदौ पर्वणी उच्येते ।
तस्मात् स्फुटी-करणेन तिथि-दृश्यांश एवानीय कालोन्वेष्टव्यः ।
तत्र पञ्चदश्यां प्रथमेंऽशे तिथि-दृश्यांश-क्षये चन्द्रोदय-सम्भावना ।
तत्रोत्तरयोश् चन्द्रांशयोस् सन्धेः पूर्वं यागसमाप्तिस् स्यात् ।
चतुर्थे तु दोष-द्वयाप्रसङ्गः ।
प्रतिपदाद्य्-अंशे सर्व-दोषाभावः ।
चतुर्थे तु तिथि-दृश्यांशे भिभाय [श्व एव] चन्द्रोदय-सम्भावना ।
अथ यदि पूर्वेद्युश् च पञ्च-दश-घटिका चतुर्दशी
उत्तरेद्युरष्टौ घटिकाः पर्व,
यदा च पूर्वेद्युर् अष्टादश घटिकाः पर्व
उत्तरेद्युर्दश घटिकाः प्रतिपत् -
तत्र गत्य्-अभावात् यष्टव्यमित्येके ।
ननु 'यमद्येजानं' इत्यादिदर्शनात् द्वितीयायामपि तत् सम्भवाद् यागो ऽनुमीयते,
मैवं श्वो दृश्यां क्षये प्रतिपद्य् एवोदय-सम्भवाकाक्षासभवात् ।
एवं पश्वादिष्व् अपि निपुणं निरूपणीयम् इति ग्रन्थविस्तरभयादुपरम्यते ॥