अयि! भो भारतीय-विद्वत्-परिषदः समे समादरणीयाः सदस्याः!
तत्रभवद्भ्यो भवद्भ्यः मदीयाः शार्वरी-वत्सरस्य मङ्ग्लकामनाः विनिवेदयामि।
मदीयानि पद्यानि एतदवसरे -
सुखयित्री शार्वरी
परम-शिव-सुफालस्थेन्दु-शीता मनोज्ञा
मणि-गण-सम-तारा-तोरणालङ्कृता या ।
दिवस-कर-सुतीक्ष्णाताप-पाप-प्रमुक्ता
विजयतु सुखयित्री शोभना शार्वरीयम् ॥१॥
निखिल-जन-निजात्माबोध-रूपा दृढा या
यमि-मति-गत-भेदाभाव-रूपापि धन्या।
इति खलु महिता सा गीतया ज्ञान-योगे
विजयतु सुखयित्री शोभना शार्वरीयम् ॥२॥
रजसि विविध-रोगा आधयश्चापि तीव्राः
अनुपरति-निदानं तद्रजो-रागहेतुः।
रुगुपशम-विधात्री तामसी स्वाप-दात्री
विजयतु सुखयित्री शोभना शार्वरीयम्॥३॥
जननमिह दिवा चेत् मृत्यु-रूपा तु रात्रिः
सुखमहरुपमं चेत् दुःख-रूपा निशा स्यात्।
इति युगलमनेकं जीवने स्मारयन्ती
विजयतु सुखयित्री शोभना शार्वरीयम् ॥४॥
मनुज-विकृति-हेतो रुक्प्रधानो विकारी
निजमिदमभिधानं सार्थयन्निर्जगाम।
तदुपशमन-कालं लिङ्गयन्त्याययौ या
विजयतु सुखयित्री शोभना शार्वरीयम् ॥५॥
regards