वैराग्यस्य हेतुः कथं विवेकः

29 views
Skip to first unread message

ललितालालितः

unread,
Mar 19, 2017, 9:54:19 PM3/19/17
to shaa...@googlegroups.com

ससंन्यासं ज्ञानं मोक्षसाधनम् इतिवदतां भगवत्पादशङ्कराचार्य्याणां शिष्यतत्या विवेकाद्वैराग्यं जायत इत्यौत्सर्ग्गिकतयाङ्गीकृतं वर्त्तते । परमस्य कार्य्यकारणभावस्य विवेकवैराग्यादिनिरूपणपुरस्सरनिरूपणे क्रियमाणे व्यभिचारस्य बहुशो दर्शनात्कैश्चित्परीक्षकैरत्र विप्रतिपद्यते । तथा हि -
विवेको नाम नित्यमिदमनित्यञ्चेदम् इति नीरक्षीरवत्पृथग्ज्ञानम् ।
वैराग्यञ्च भोगेषु जिहासा । 
अनित्यमिदम् इतिज्ञाते च तेषु जिहासा भवत्येव इति तयोः कार्य्यकारणभावः ।
अत्र च भोगानाम् अनित्यत्वं न जिहासाहेतुः , सुखहेतुत्वात् । भवन्ति हि जनाः अयमनित्योपि सुखहेतुः इति ज्ञात्वा तत्साधने प्रवृत्ताः ।
किञ्च यथा देहस्य शुद्धिर्न नित्या इति प्रतिदिनं स्नानादिना सा सम्पाद्यते , न तु अस्थिरत्वदोषेण त्यज्यते ; तद्वदेव अनित्या अपि स्त्रीपुत्रवित्तादयो दोषा न त्याज्याः किन्तु तदर्थं मुहर्मुहुर्यत्नो विधेयः ।
इति ।

एतेनेदं निश्चितं यत् नित्यानित्यविवेको न दृढवैराग्यस्य साधनं भवितुमर्हति । तथा च भगवत्पादोक्तिः कथं समर्थयितुं शक्यते ।

अत्र केचन वेदान्तिनो जगन्मिथ्यात्वनिश्चयं वैराग्यहेतुं मन्यन्ते । तदपि न समीचीनम् । मिथ्यात्वं नाम बाद्ध्यत्वं वा सदसद्भ्यामनिर्व्वचनीयत्वं वा भवतु , तेन भोगानां व्यावहारिकत्वं न बाद्ध्यते । तथा च भोगौपयिकतत्स्वरूपस्य व्यवहारकालेऽबाधितत्वेन सुखहेतुत्वस्यानपायात् न तत्र जिहासोपपत्तिः । तथैव सदसद्भ्यां तेषां निर्व्वचनानर्हत्वेपि भोगौपयिकनिरूपणस्य सम्भवात् , उक्तानिरूपणस्य च व्यवहारकालीनसुखहेतुत्वाविरोधित्वात् कथं तत्र जिहासा । जिहासा हि तदा स्त्र्यादिषु भवेत् यदा तेषां मिथ्यात्वनिर्णयेन सुखहेतुता नश्येत् । न च तथा भवति । अतः कथं तत्र वैराग्यसम्भवो मिथ्यात्वनिश्चयमात्रेण ।
किञ्च यथा कामिनां देहनाशाद्भीतानां स्वल्पे कालेधिकभोगसाधनसम्पादनप्रयासः स्वस्य भोगानाञ्च नाशित्वभयात् तथैव मिथ्यात्वनिश्चयेपि मोक्षात्प्रागधिकाधिकभोगसम्पादनायासे को नाम प्रतिबन्धः ।

तन्नामाकामित्वं न उक्तविवेकेन सम्पादयितुं शक्यते इति निश्चितम् ।

अत्र अन्येपि विकल्पाः सन्ति येग्रे प्रकाशयिष्यन्ते । तावतात्रोल्लिखितदोषपरिहारे एव विदुषां प्रवृत्तिं कामे ।
इदमवधेयं यत् एते दोषा न केवलम् अद्वैतसम्प्रदाये किन्तु सर्व्वेष्वपि भोगविमुखत्वसापेक्षज्ञानभक्त्यादिसमर्थकेषु दर्शनेषु इति । अत एव शाङ्करैरिवान्यैरपि सदृशदोषा उद्भाव्य वारणीया इति ।

इति
ललितालालितः ॥

चन्द्रशेखरः

unread,
Mar 21, 2017, 8:17:46 AM3/21/17
to ललितालालितः, शास्त्रम्

महाभागाः नमो नमः

सम्यक् उक्तं भवद्भिः ।

यद्यपि अल्पज्ञोऽस्मि तथापि चर्चार्थं किञ्चित् वक्तुम् इच्छामि । परिष्क्रियतां यदि मम वचनेषु दोषाः चेत् ।

गुरवः हि भवन्तः ।

~~~~~~~~~~~~~~~~~~~~~~~~

विवेकाद्वैराग्यं जायत इत्यौत्सर्ग्गिकतयाङ्गीकृतं वर्त्तते ।

वाक्यमेतत् साधु अङ्गीक्रियते ।

विवेकाद्वैराग्यं जायते किन्तु वैराग्यात् विवेकः जायते वा ? इति प्रश्नः उदेति । अतः “वैराग्यस्य हेतुः कथं विवेकः” इत्यस्मिन् प्रश्श्ने चिन्तनशीलाः वक्तुं प्रेरिताः स्युः ॥

यतो हि वैराग्य विवेकश्च एताभ्यां समुच्चिताभ्यां सिद्धिः न तु एकेन  ।   अस्य वाक्यस्य किं प्रमाणं चेत् ।

 

उक्तं हि भगवत्पादशङ्कराचार्य्यैः यत्

 

वैराग्यबोधौ = वैराग्यं च बोधश्च । बोधः नाम आत्मनात्मविवेकजन्यः आत्मस्वरूप-याथात्म्यानुभवः । विमुक्तिरूपं सौधाग्रतलं नाम रम्यरम्यमुच्चस्थानं तस्य स्थानस्य प्राप्तिः । ताभ्यां समुच्चिताभ्यां विना अन्यतरेण वैराग्येन वा बोधेन वा एकेन न सिध्यति । न हि पक्षी एकेन पक्षेण अम्बरतलं गाहितुमीष्टे ॥

वैराग्यबोधौ पुरुषस्य पक्षिवत्‌

    पक्षौ विजानीहि विचक्षण त्वम्‌

विमुक्‍तिसौधाग्रतलाधिरोहणं

    ताभ्यां विना नान्यतरेण सिध्यति॥ ३७४॥ विवेकचूडामणिः ॥

 

व्यवहारे लोके तु विपश्चितः एव जानन्ति “विषयेन्द्रियसंयोगात् यत् तद् अग्रे अमृतोपमं परिणामे विषमिव तत् सुखं” भगवद्गीता १८-३८ ॥

अविपश्चितः कथं जानीयुः सुखं यत् दृश्यते तस्य परिणामं किमिति । अतः न जिहासा यावत् बोधः जन्यते ॥ विवेकाद्वैराग्यं जायते ॥

 ~~~~~~~~~~~~~~~~~~~~~~~~

प्रणम्य

भवदीयः

चन्द्रशेखरः


इदमवधेयं यत् एते दोषा न केवलम् अद्वैतसम्प्रदाये किन्तु सर्व्वेष्वपि भोगविमुखत्वसापेक्षज्ञानभकत्यादिसमर्थकेषु दर्शनेषु इति । अत एव शाङ्करैरिवान्यैरपि सदृशदोषा उद्भाव्य वारणीया इति ।

इति
ललितालालितः ॥

--
You received this message because you are subscribed to the Google Groups "शास्त्रम्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to shaastram+unsubscribe@googlegroups.com.
To post to this group, send email to shaa...@googlegroups.com.
Visit this group at https://groups.google.com/group/shaastram.
To view this discussion on the web visit https://groups.google.com/d/msgid/shaastram/dba0646b-7d17-4411-8002-c9535455d311%40googlegroups.com.
For more options, visit https://groups.google.com/d/optout.



--
______________
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् | अर्चनं वन्दनं दास्यं सख्यम् आत्मनिवेदनम् || 7-5-23 भागवतं 
इति पुंसार्पिता विष्णौ भक्तिः चेत् नवलक्षणा | क्रियते भगवति अद्धा तत् मन्ये अधीतम् उत्तमम् || 7-5-24 

Pradyumna Achar

unread,
Mar 21, 2017, 12:02:34 PM3/21/17
to शास्त्रम्, lalitaa...@lalitaalaalitah.com
चन्द्रशेखरमहोदय, सादरं प्रणामम् |
वैराग्यम् नाम सुखेषु अनासक्तिः | विवेकात् तादृश वैराग्यम् यदि जायते, तर्हि अविवेकिनः एव सुखिनः भवेयुः | यः विवेकः वैराग्यम् उत्पाद्य पुरुषं जडवत् सुखानुभवविहीनं करोति, सः कथं स्वीकरणीयः ? तद्व्यावर्ततया स्त्रीपुत्रवित्तादयोः असक्तिः, तेषामर्थे मुहुर्मुहुर्यत्नमेव श्रेष्ठं किल ? 

(एतत् प्रश्नं प्रसङ्गवशात् पृच्छामि | द्वैतमते मुक्तः जीवः स्वरूपभूतं संपूर्णं सुखं दु:खलेशं विना चिरकालं अनुभवति | तस्मात्,    विवेकः ; तज्जन्य वैराग्यं ज्ञानं भक्तिः च;  तेषां फलस्वरूपेण प्राप्तं भगवदपरोक्षम्, ततः पुनः ज्ञानवृद्धिः, भक्तिवृद्धिश्च, ततः भगवदनुग्रहेण प्राप्तं मोक्षम्, एतानि सर्वाणि खद्योतिकासु द्योतमानः अल्पास्थिर-लौकिक सुखात् अतीव श्रेष्ठं सुखं प्रति जीवं नयन्ति | तस्मिन् मार्गे बाधकप्रायं क्षुद्रलौकिकसुखं त्याज्यं | अद्वैतमते न सम्यक् जानामि वैराग्यादेः प्रयोजनं किमिति )

To unsubscribe from this group and stop receiving emails from it, send an email to shaastram+...@googlegroups.com.

ललितालालितः

unread,
Apr 21, 2017, 3:56:02 PM4/21/17
to शास्त्रम्, lalitaa...@lalitaalaalitah.com


On Tuesday, 21 March 2017 21:32:34 UTC+5:30, Pradyumna Achar wrote:
अद्वैतमते न सम्यक् जानामि वैराग्यादेः प्रयोजनं किमिति )

शान्तो दान्त उपरतस्तितिक्षुः , ब्रह्मसंस्थोमृतत्वमेति इत्यादिश्रुतिभ्यो ज्ञानार्थं शमदमादयोपेक्षिताः , ज्ञाननिष्ठा च इतरव्यापारत्यागपूर्व्वकज्ञानसाधनाभ्यासात्मिकामृतत्वहेतुरुक्ता इति ज्ञानतत्परिपाकमोक्षेभ्यो वैराग्यमपेक्षितम् । किञ्च अभ्यासवैराग्याभ्यां तन्निरोध इतिपातञ्जलसूत्रेण लोकानुभवानुसारिणा विक्षेपहेतुषु मनोनिवेशस्य जीवन्मुक्त्यात्मकमनोनिरोधविरोधित्वकथनाज्जीवन्मुक्तिरपि वैराग्यसापेक्षैव ।
किञ्च विचारे क्रियमाणे अकर्त्त्रभोक्त्रात्मत्वे श्रुतिप्रमिते मनःस्थितिमीहमानानां कथं तद्विरोधिकर्त्तृत्वादिसापेक्षे भोगे प्रवृत्तिः स्यात् इत्यप्यतिरोहितमेव ईशोपनिषद्भाष्यस्यादिमपङ्क्तिद्रष्टॄणाम् ।
Reply all
Reply to author
Forward
0 new messages