For solution

0 views
Skip to first unread message

SwaminarayanSanskritVidyaPratishthanam

unread,
Sep 29, 2025, 6:14:42 AMSep 29
to samskrte-...@googlegroups.com
नमस्ते विद्वासः ।
प्रश्नो मे वर्तते व्याकरणस्य । यः कोऽपि जानाति प्रत्युत्तरं देहि कृपया । अधोलिखिता रूपसिद्धिः समीचीना न वा? इति समाधेयम् ।

तेभ्यो दर्श्यम् - ‘ तेभ्यस् + दर्श्यम् ’ इति स्थिते “ झलां जशोऽन्ते ” इति सूत्रेण सकारस्य दकारे प्राप्ते, तं बाधित्वा “ ससजुषो रुः ” इति सूत्रेण सकारस्य रुकारे “ भोभगोअघोअपूर्वस्य योऽशि ” इति सूत्रेण रुकारस्य यकारे प्राप्ते, तं प्रबाध्य “ हशि च ” इति सूत्रेण रुकारस्य  उत्वे “ आद्गुणः ” इति सूत्रेण गुणे प्राप्ते, तं संबाध्य “ प्रथमयोः पूर्वसवर्णः ” इति सूत्रेण पूर्वसवर्णदीर्घरूपैकादेशे प्राप्ते “ नादिचि ” इति सूत्रेण तन्निषेधे सति ‘ अपवादे निषिद्धे उत्सर्गस्य स्थितिः ’ इति न्यायात् “ आद्गुणः ” इति सूत्रेण गुणरूपैकादेशे कृते ‘ तेभ्यो दर्श्यम् ’ इति सिद्धम् ।

Amarendra Nath

unread,
Sep 29, 2025, 6:53:04 AMSep 29
to samskrte-...@googlegroups.com
नमस्ते

तेभ्यो दर्श्यम् 
‘तेभ्यस् + दर्श्यम् ’ इति स्थिते “ झलां जशोऽन्ते ” इति सूत्रेण सकारस्य दकारे प्राप्ते
तं (प्रतिपदविधानाद्) बाधित्वा “ ससजुषो रुः ” इति सूत्रेण सकारस्य रुकारे (रुँत्वे)
“भोभगोअघोअपूर्वस्य योऽशि ” इति सूत्रेण रुकारस्य यकारे प्राप्ते,
तं प्रबाध्य  तस्य असिद्धत्वाद् “हशि च ” इति सूत्रेण रुकारस्य  उत्वे“
 “आद्गुणः ” इति सूत्रेण गुणे प्राप्ते, तं संबाध्य “ प्रथमयोः पूर्वसवर्णः ” इति सूत्रेण पूर्वसवर्णदीर्घरूपैकादेशे प्राप्ते “ नादिचि ” इति सूत्रेण तन्निषेधे सति ‘ अपवादे निषिद्धे उत्सर्गस्य स्थितिः ’ इति न्यायात् “ आद्गुणः ” इति सूत्रेण (प्रथमे विभक्ती न स्तः अतः "प्रथमयोः..." इत्यस्य, तस्यापवादस्य "नादिचि" इत्यस्य च प्राप्तिरेव नास्ति) गुणरूपैकादेशे कृते ‘ तेभ्यो दर्श्यम् ’ इति सिद्धम् ।

--
You received this message because you are subscribed to the Google Groups "संस्कृते संवदेम" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrte-samvad...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/samskrte-samvadema/CANrD85KY6eH_-62P5-ZDiE1BkM2C9hhtJRX5A-7Qn%3DfYiW1e_Q%40mail.gmail.com.


--
M V R Amarendra Nath
SRT650, Sanathnagar, Hyderabad-500018, Telangana, India
Mobile: 9440655491
alt. email : rama4...@yahoo.com

SwaminarayanSanskritVidyaPratishthanam

unread,
Sep 30, 2025, 1:22:14 AMSep 30
to samskrte-...@googlegroups.com
एषा सिद्धिः सिद्धान्तकौमुद्याः स्वादिसन्धिप्रकरणे शिवोऽर्च्यः इति रूपसिद्धौ दत्ता वर्तते । तर्हि समीचीनं न वा? इति कृपया कथयतु । अहं सिद्धान्तकौमुद्याः चित्रमपि प्रेषयामि ।


IMG_7320.jpeg
IMG_7319.jpeg

Amarendra Nath

unread,
Sep 30, 2025, 2:32:24 AMSep 30
to samskrte-...@googlegroups.com
शिवस् अर्च्यः - इत्यत्र शिवस् - इति प्रथमा। अतः प्रथमयोः...,
तेभ्यस् - इति प्रथमा वा द्वितीया वा नास्ति। अतः तस्य प्रसक्तिर्नास्ति।

SwaminarayanSanskritVidyaPratishthanam

unread,
Sep 30, 2025, 4:09:25 AMSep 30
to samskrte-...@googlegroups.com
Thank you for your answer and to solve my problem.
Very much appreciated.

SwaminarayanSanskritVidyaPratishthanam

unread,
Sep 30, 2025, 11:02:57 PMSep 30
to samskrte-...@googlegroups.com
नमस्ते महोदय 
मया उक्तम् - “भोभगोअघोअपूर्वस्य योऽशि ” इति सूत्रेण रुकारस्य यकारे प्राप्ते, तं प्रबाध्य "हशि च" इति सूत्रेण उत्वे इति । किन्तु भवद्भिः उक्तम् यत् तं प्रबाध्य इति न किन्तु तस्य असिद्धत्वात् इति । तदा सिद्धान्तकौमुद्याम् स्वादिसन्धिप्रकरणे "अतो रोरप्लुतादप्लुते" इति सूत्रे उक्तं यत् - भोभगोअधओ- इति प्राप्तस्य यत्वस्यापवादः इति । अतो रोरप्लुतादप्लुते तथा हशि च इति द्वयोः सूत्रयोः क्रमाङ्कस्तु साकमेव वर्तते तर्हि यथा अतो रोर- इति भोभगो- इति सूत्रापवादः तथैव हशि च- इत्यपि भोभगो- इति सूत्रापवादः । अहं चित्रमपि प्रेषयामि । कृपया समादधातु ।

IMG_7330.heic

Amarendra Nath

unread,
Sep 30, 2025, 11:53:04 PMSep 30
to samskrte-...@googlegroups.com
नमस्ते महोदय
असिद्धत्वादेव तत् प्रबाध्य (न तु परत्वाद् वा, अन्येन निमित्तेन वा) इत्यभिप्रायः।

M V R Amarendra Nath
SRT650, Sanathnagar, Hyderabad-500018, Telangana, India
Mobile: 9440655491
alt. email : rama4...@yahoo.com

SwaminarayanSanskritVidyaPratishthanam

unread,
Sep 30, 2025, 11:55:15 PMSep 30
to samskrte-...@googlegroups.com
तर्हि 'असिद्धत्वात् तं प्रबाध्य' इति लिखितुं शक्नोमि न वा?

Amarendra Nath

unread,
Oct 1, 2025, 1:41:05 AMOct 1
to samskrte-...@googlegroups.com
सामान्यरूपेण शक्यते महोदय।
अत्र विशेषस्तु - असिद्धमित्यस्यार्थः 'अविद्यमानः' इत्येव। विद्यमानयोरेव बाध्यबाधकभावः इति अवगन्तव्यम्।


Ksg Ksg

unread,
Oct 1, 2025, 10:31:42 PMOct 1
to samskrte-...@googlegroups.com
mama whatsapp sankhya 9444021572. krupaya aahooyataam. vyakarana patane sulabha margam panini sutra paata dvara katham karaneeyam iti soochayami.

Reply all
Reply to author
Forward
0 new messages