श्रीरामोदन्तं
[Explanatory notes prepared by Mohan Chettoor]
बालकाण्ड:
श्रीपतिं प्रणिपत्याहं श्रीवत्साङ्कितवक्षसं।
श्रीरामोदन्तमाख्यास्ये श्रीवाल्मीकिप्रकीर्तितं ।। १
पदविभाग:
1. श्रीपतिं, 2. प्रणिपत्य, 3. अहं 4. श्रीवत्साङ्कितवक्षसं, 5. श्रीरामोदन्तं 6.आख्यास्ये, 7. श्रीवाल्मीकिप्रकीर्तितं ।
अन्वय:
अहं श्रीवत्साङ्कितवक्षसं श्रीपतिं प्रणिपत्य श्रीवाल्मीकिप्रकीर्तितं श्रीरामोदन्तं आख्यास्ये।
तात्पर्यम् :
अहं श्रीवत्साङ्कितवक्षसं विष्णुं नमस्कृत्या श्रीवाल्मीकिना पूर्वं उक्तं श्रीरामोदन्तं नाम कथाम् वदिष्यामि ।
अन्वयरचना:
आख्यास्ये =वदिष्ये- क्रियापदम्
क: आख्यास्ये ? - अहम्
किं आख्यास्ये ? - श्रीरामोदन्तं
कीदृशं श्रीरमोदन्तं? - श्रीवाल्मीकिप्रकीर्तितं
किं कृत्वा आख्यास्ये ? -प्रणिपत्य
कं प्रणिपत्य ? - श्रीपतिं
कीदृशं श्रीपतिं? - श्रीवत्साङ्कितवक्षसं
विशेष:
अ. पदविवरणं :
1. अ) श्री- 'इ'- 'श्री' शब्द: स्त्री.प्र.ए.व.
आ) श्रीपतिं - इ. 'श्रीपति:' शब्द:, पु, द्वि.वि., ए. व
2. प्रणिपत्य - अव्ययम् -प्र+ नि + पतित्वा - प्र+ नि उपसर्गपूर्वक:' पत्लृ' धातु:, ल्यप् प्रत्यय:
3. अहम् - द. 'अस्मद्' शब्द: त्रिलिङ्गेषु समान रूप: प्र. वि, ए.व
4. श्रीवत्साङ्कितवक्षसं- स. 'श्रीवत्साङ्कितवक्षस्' शब्द: पु. द्वि. वि, ए.व
5. श्रीरामोदन्तं - अ. 'श्रीरमोदन्त' शब्द: पु. द्वि.वि, ए.व.
6.आख्यास्ये- 'चक्ष्' धातु,आत्म. प. लृट् - उ.पु, ए.व. [आख्यास्ये आख्यास्यावहे आख्यास्यामहे]
7. श्रीवाल्मीकिप्रकीर्तितं- अ. 'श्रीवाल्मीकिप्रकीर्तित:' शब्द:, पु, द्वि.वि. ए.व.
8. च- अव्ययम्


सन्धि:
१. श्रीवत्स +अङ्कित=श्रीवत्साङ्कित -सवर्णदीर्घसन्धि:
२. प्रणिपत्य + अहं =प्रणिपत्याहं - सवर्णदीर्घसन्धि:
३. श्रीराम + उदन्तं =श्रीरामोदन्तं - गुणसन्धि:
४. श्रीरामोदन्तं + आख्यास्ये = श्रीरामोदन्तमाख्यास्ये- आदेश:
समास:
१. श्रिय: पति: - श्रीपति: - षष्ठी तत्पुरुष:
२. श्रीवत्सेन अङ्कित -श्रीवत्साङ्कित - तृतीया तत्पुरुष: ; तं श्रीवत्साङ्कितं
३. श्रीरामस्य उदन्तं - श्रीरामोदन्तं-षष्ठी तत्पुरुष:
४. श्रीवाल्मीकिना प्रकीर्तितं - श्रीवाल्मीकिप्रकीर्तितं - तृतीया तत्पुरुष:
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/samskrita/CAOSP8JddwNBBobm5WgNkCC1xGZ17V%3DBmcDBuZcoZoHBPooXh%3DQ%40mail.gmail.com.