*मनुष्याः शान्तिम् इच्छन्ति उत अशान्तिम्?*
एकदा भगवान् बुद्धः भक्तेभ्यः उपदेशं ददाति स्म। तदानीं कश्चन भक्तः तस्य समीपम् आगत्य अवदत् भगवन्! मनुष्याः शान्तिम् इच्छन्ति, परन्तु शान्तिः तु कुत्रापि न दृश्यते! किं कारणम्?
भगवान् बुद्धः तदा हसन् अब्रवीत् वत्स! एवं तु त्वमेव चिन्तयसि! अयं हि तव भ्रमः स्यात्। वस्तुतः मनुष्याः शान्तिं नेच्छन्ति।
भगवतः बुद्धस्य उत्तरं श्रुत्वा सः अत्यन्तं निराशः सन् पुनः अपृच्छत् भगवन्! एतत् किं वदति भवान्? प्रत्येकं मनुष्यः शान्तेः पिपासुः भवति। सः प्रतिक्षणं शान्तेः अन्वेषणे निरतः भवति।
तदानीम् आश्रमे जनसम्मर्दः आसीत्। ते सर्वे तयोः वार्तालापं शृण्वन्तः आसन्।
तत्समये भगवान् बुद्धः आश्रमे स्थितानां भक्तानां मध्ये अन्यं कञ्चन आहूय अपृच्छत् वत्स! त्वं किम् इच्छसि?
तदा सः विनम्रपूर्वकं प्रत्यवदत् भगवन्! अस्माकं कुटुम्बः महान् विद्यते। सदस्याः अधिकाः सन्ति। सर्वदापि अस्माकं कुटुम्बे धनस्य अभावः भवति।
इतोपि किञ्चिद् धनं प्राप्येत चेद् उत्तमं भवेत् अस्माकं जीवनं च सुखकरं स्यात्।
तदा बुद्धः पुनः प्रथमं भक्तम् अवदत् वत्स! इदानीं पश्य! वस्तुतः शान्तिः केनापि न इष्यते।
सर्वेषामपि स्वकीया स्वकीया इच्छा आवश्यकता च स्तः।
सर्वेपि मनुष्याः स्वस्य आवश्यकतायाः पूर्त्यर्थं सर्वदा निरताः भवन्ति।
भगवतः बुद्धस्य वचनं श्रुत्वा तस्य ज्ञानोदयः अभवत् बुद्धं प्रणम्य च ततः अगच्छत्।
*-प्रदीपनाथः, असमराज्यम्।*