A. PASSI
PERVERTED DHARMA? ETHICS OF THIEVERY IN THE
DHARMACAURYARASAYANA*
INTRODUCTION
The Elixir of Dharmic Thievery' is a brief (275 or 276 lines mainly in sloka meter divertissement in which the wiles of a Brahmin thief - a truthful Brahmin thief, as he himself likes to point out - prevail against all odds of fate, landing the hero in the enviable position of Prime Minister in a fictional Indian kingdom. Composed probably either in Andhra Pradesh or Tamil Nadu, perhaps not more than 300 or 200 years ago, and preserved in a single palm-leaf manuscript owned by the Adyar Library, this work, edited from a Devanāgarī copy by N.G. Nara hari in 1946," was largely ignored until 1996, when Ashok Aklujkar devoted a wide-ranging paper to it." An edition of the original Grantha MS with translation into Italian by the present writer appeared in 2001.
[I have reproduced the above para from a PDF document by an Italian scholar, A. PASSI, who made an exhaustive study on the above book. The entire material was in non-editable PDF format which I painstakingly converted into editable word format. I am reproducing the first of the 3- chapter-aashwaasa- fictional work for the use of who-so-ever is concerned. I will shortly publish the other two parts as well in due course.
-Mohan Chettoor]
धर्मचौर्यरसायनम्
प्रथमाश्वास:
आश्वासत्रितयोपेतं धर्मचौर्यरसायनम् ।
इदं तावत्प्रतिदिनं रसिकैः परिपीयताम् ॥ १ ॥
श्रीमद्गोपालयोगीन्द्रमुखराकेन्दुनिःसृतम् ।
तातकुलस्य वाग्जालमहाभाजनपूरितम् ॥ २ ॥
बुद्धिजाड्यहरं चापि विस्मयानन्ददायकम् ।
पिवध्वं पण्डिताः सर्वे धर्मचौर्यरसायनम् ॥ ३ ॥
धर्मसेतुरिति ख्याता काचित्पुर्यवसत्पुरा ।
यस्यामासीद्धर्मकेतू राजा धर्मपरायणः ॥ ४ ॥
तत्तद्वर्णाश्रमोपेततत्तज्जनसमाकुले ।
प्राकारपरिघाट्टालवीथीगोपुरमण्डिते ॥ ५ ॥
शुककोकिलभृङ्गादिध्वनिसंपूरितान्तरैः ।
उद्यानाम्रवणैश्छन्ने सर्वसंपत्समुन्नते ॥ ६ ॥
तत्रासीद्ब्राह्मणश्रेष्ठः कश्चिदाचारतत्परः ।
ब्रह्मज्ञो नीतिविख्यातो वेदवेदाङ्गपारगः ॥ ७ ॥
तपस्यतस्तस्य पुत्राश्चत्वार अभवन्पुरा।
चत्वारो बाहव इव साक्षाच्छ्रीचक्रपाणिनः ॥ ८ ॥
तत्राद्यो धर्ममूलाख्यो द्वितीयो धर्मवम॑ग: ।
तृतीयो धर्ममित्राख्यश्चतुर्थो धर्मसंग्रही ॥ ९ ॥
कृतोपनीतयोऽधीत्य वेदादीन्स्वपितुर्मुखात् ।
गार्हस्थ्याश्रममासाद्य चक्रुस्ते धर्ममुत्तमम् ॥ १० ॥
नित्यं प्रातःस्नानसंध्यागायत्रीजपपूर्वकम् ।
अग्निहोत्रादिकं कृत्वा न्यवसन्पितृपूजकाः ॥ ११ ॥
धार्मिकस्तत्पिता पुत्रपौत्राद्यखिलसंपदः ।।
व्यवहारतया पश्यन्नपि गायत्र्यभिन्नया ॥ १२ ॥
जगज्जनन्यैव दत्तचित्तशुद्धिप्रसादतः ।
निरीषणोऽध्यात्मविद्यानिरतोऽभूत्सदा हदि ॥ १३ ॥
एवं गते चिरं काले कदाचिदथ स द्विजः ।
ज्ञानदृष्ट्या स्वान्त्यकालद्योतकत्वेन भासुरम् ॥ १४ ॥
कैलासादागतं श्रीमद्विमानं सूर्यकोटिभम् ।
विलोक्य मुदितः पुत्रानाहूयेदं वचो ऽब्रवीत् ॥ १५ ॥
हे पुत्रका गमिष्ये ऽहं श्रीमत्कैलासभूधरम् ।
न्यायार्जितं स्वल्पधनमस्तीदानीं मदन्तिके ॥ १६ ॥
ममौर्ध्वदेहिकं कर्तुमलमेतद्धनादिकम् ।
अनन्तरं काचमेकमपि नैवावशिष्यते ॥ १७ ॥
जीविष्यथ कथं वोर्ध्वं यूयं दुर्वृत्तिवर्जिताः ।
सर्वात्मना मा करुध्वं मन्नाम्नस्त्वयशस्करम् ॥ १८ ॥
पत्राणामनुरूपाणां जीविकावृत्तिकल्पने ।
अशक्तस्य पितुर्मे ऽद्य धिग्धिग्जन्म निरर्थकम् ॥ १९ ॥
इति सांसारिकी चिन्तां अणमेत्याश्रुमोचके ।
तस्मिन्द्विजे ऽथ तत्पुत्रास्तमवोचन्पृथक्पृथक् ॥ २० ॥
तत्राद्यस्तनयः प्राह पितरं भयविह्वलः ।
साञ्जलि: प्रणतो भूत्वा सगद्गदमिदं वचः ॥ २१ ॥
किमर्थं तप्यसे तात सर्वं जानासि लौकिकम ।
किमस्मच्चिन्तया तेऽद्य परलोकं यियासतः ॥ २२ ॥
कथं त्वया न दत्तं स्यादस्माकं शाश्वतं धनम् ।
यदस्मासु निधीयन्ते वेदशास्त्रादिसंपदः ॥ २३ ॥
यया तु संपदा जीव: स्वात्मानन्दमवाप्नुयात् ।
कथं तया समानत्वमीयूर्नश्वरसंपदः ॥ २४ ॥
विद्यासंपदमासाद्य दरिद्रोऽपि प्रमोदते ।
विद्यालेशांशरहितः संपन्नोऽपि विषीदति ॥ २५ ॥
विद्यानामपि सर्वासां गायत्री ब्रह्मरूपिणी ।।
विद्या वरिष्ठा यद्यस्मात्सैवास्माकं हि कामधुक् ॥ २६ ॥
किं किं वा न प्रदद्यात्सा गायत्री परदेवता।
स्वाराधकानां भक्तानां या ब्रह्मैव प्रयच्छति ॥ २७ ॥
त्वयाध्यापितपूर्वा या श्रौतविद्या मयि स्थिता ।
तयैव विद्यया तात करिष्ये साधु जीवनम् ॥ २८ ॥
इत्येवं शपथं कृत्वा ज्येष्ठे तूपरते सति ।
पितरं प्रणिपत्याशु तत्कनिष्ठोऽप्यभाषत ॥ २९ ॥
शब्दशास्त्रस्य हे तात पाठप्रवचनादिभिः ।
जीविष्ये ऽहं चिरं कालं बहुलं धनमर्जयन ॥ ३० ॥
मीमांसाद्वितयस्यैव पाठप्रवचनार्जितैः ।
धनैर्जीविष्य इत्येवं तृतीयोऽप्यब्रवीद्वचः ॥ ३१
अनन्तरं चतुर्थस्तु धीरो वाचालकाग्रणीः ।
पितरं प्राह विनयात्कृताञ्जलिरिदं वचः ॥ ३२ ॥
न क्वापि तुच्छफलदवेदशास्त्रादिविद्यया ।
जीवेयं किंतु तास्कर्यविद्याकामदुहा गुरो ॥ ३३ ॥
इति तद्गिरमाकर्ण्य कर्णनाराचिकायिताम् ।।
ब्रह्मज्ञानी सुदुःखार्तस्तमुद्दीक्ष्याब्रवीद्वचः ॥ ३४ ॥
हा कष्टमभवद्बुद्धिस्तवेत्थंरूपिणी कथम् ।
शिशो त्वय्येव काणादविद्यायां स्थितिमीयुषि ॥ ३५ ॥
विश्वसेत्कृष्णसर्प वा व्याघ्र वापि च योषितम् ।
न विश्वसेन्चौर्यविद्यां प्राणमानापहारिणीम् ॥ ३६ ॥
कुपुत्रवत्त्वदोषेण मदीयतपसार्जिताः ।
मत्पुण्यलोका निखिला नाशमेष्यन्त्यसंशयः ॥ ३७ ॥
इत्युक्त्वा शोकसंतप्तहृदयं साश्रुलोचनम् ।
पितरं प्रेक्ष्य स प्राह धर्मसंग्रहिसंज्ञकः ॥ ३८ ॥
तात मा वह शोकं त्वं क्वापि मद्विषये यतः ।
तास्कर्यविद्यानैपुण्यसर्वस्वं मद्धृदि स्थितम् ॥ ३९ ॥
नैव निन्द्या क्वापि सा हि चौर्यविद्या महीयसी।
चतुःषष्टिकलासंख्या यया संपूर्तिमागता ॥ ४० ॥
तथापि तस्या निन्द्यत्वमतद्धर्मविदां धिया ।
भाति कौशिकदृष्ट्यार्कप्रभाया निन्द्यता यथा ॥ ४१ ॥
चौर्यस्थलास्थलज्ञानं देशकालविनिर्णयः ।
अदृश्याञ्जनसिद्ध्याद्या धर्मास्तास्करिका मता: ॥ ४२ ॥
चौर्येऽपि वर्तते धर्माधर्मचिन्ता गरीयसी।
यया विहीनस्तास्कर्याद्बध्यवध्यत्वमाप्नुयात् ॥ ४३ ॥
चौर्यवेषं मोहमूर्छाचूर्णसंग्रहणादिकम् ।
अलब्ध्वा चौर्यकृद्भूयाद् बध्यो वध्यश्च राजभिः ॥ ४४ ॥
अमूल्यवस्तुहृच्चौर्यधर्ममार्गाविरोधतः ।
यः कुत्राप्यगृहीतश्च स चोरो भूपतेः समः ॥ ४५ ॥
व्यवहारे चौर्यकर्म कृत्वा तच्छादनाक्षमः ।
परमार्थे ज्ञानचौर्यं कृत्वा तच्छादकः कथम् ॥ ४६ ॥
सामर्थ्यमस्ति मम मोहनचूर्णमन्त्र
तन्त्रादिभिर्निखिलमानुषचित्तवृत्तिम् ।
संमोह्य तस्करितुमार्य गुरो तदर्थं
दातुं त्वमर्हसि जवादधुनाभ्यनुज्ञाम् ॥ ४७ ॥
इत्याकर्ण्य वचस्तस्य धर्मसंग्रहिण: पिता ।
क्षणमालोच्य निश्चित्य दैवतन्त्रं वचो ऽब्रवीत् ॥ ४८ ॥
विधिर्बलीयसी पुत्र प्राणिनां दुस्त्यजा हि सा ।
यथेष्टवृत्त्या जीवस्व मानृतं वद किंचन ॥ ४९ ॥
धर्मचौर्येण ते सत्यवचनेन च मङ्गलम् ।
भूयादेव न संदेहः कीर्त्यायुर्वंशवृद्धिदम् ॥ ५० ॥
इत्युक्त्वा सहसा योगी दृढयोगसमाधिना।
भित्त्वा स्वकीयमूर्धानं निश्चक्राम बहिर्जवात् ॥ ५१ ॥
साक्षाच्छङ्कररूपिभिः शिवगणैरानीतमन्यादृशं
भास्वत्कोटिसमं विमानमधिरुह्यातुल्यदिव्याकृतिः ।
वीणावेणुमृदङ्गवाद्यनिनदर्भिन्दन्नभोमण्डलं ।
श्रीकैलासमवाप सोऽयममरीगाढस्तनालिङ्गितः ॥ ५२ ॥
पातिव्रत्यप्रभावेण तत्पत्न्यनुमृतिं गता।
कमनीयाकृतिर्भूत्वा कमित्रन्तिकमाप सा ॥ ५३ ॥
ततस्ते तनयाः सर्वे तयोः पित्रोर्यथाक्रमम् ।
कृत्वौर्ध्वदेहिकं कर्म स्वां स्वां वृत्तिं समाश्रयन् ॥ ५४ ॥
इति श्रीधर्मचौर्यरसायनग्रन्थे प्रथमाश्वासः ।
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/samskrita/CAAdWWbfCVBH%2B-8Z7zoh1iKK8Ro-eBodShX%3D9sXzuMTQgv6gZRw%40mail.gmail.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/samskrita/CAKE_k5fxJWWL1qFPtpfJmzWtftk%2BFcHv1mHbZiSbTQ%3DiHc6hSQ%40mail.gmail.com.
Last week I had posted first part of this fiction work. Now this is the secondof the three-part DCR -as it is affectionately called by it's 'foster-parents'.
-Mohan Chettoor
द्वितीयाश्वासः
अथाविभक्ताश्चत्वारो भ्रातरोऽन्योन्यसौहृदाः ।
सुतरामभवंश्चैकगृहकृत्यास्ततः परम् ॥ १ ॥
शुभे दिवसनक्षत्रे ततश्चौर्यचिकीर्षया ।
निशि स्वभार्यामुत्थाप्य चतुर्थस्तनयो ऽब्रवीत् ॥ २ ॥
अयि कल्याणि सुभगे भाग्यकालस्तवागतः ।
यदस्मदीयचौर्येण भूयास्त्वं भाग्यशालिनी ॥ ३ ॥
एकाकिन्येव तिष्ठात्र बुद्धिजाड्यसमुद्भवम् ।
क्लेशं दुरीकुरु क्षिप्रं प्रहर्षं हृदि धारय ॥ ४ ॥
प्रयाणकाले रुदतीं भार्यां वीक्ष्य प्रयाति यः ।
पुनर्नावर्तते सोऽसौ तस्मात्त्वं मुदिता भव ॥ ५ ॥
पत्युर्निशम्य वचनं शोकमन्तर्निगृह्य सा।
साध्वी भर्तारमालोक्य प्राह प्रहसितानना ॥ ६ ॥
शीघ्रं त्वं गच्छ मन्नाथ मदीया कुलदेवता।
काली करालवदना सहायं ते करिष्यति ॥ ७ ॥
तथापि स्नेहभावेन यद्ब्रवीमि शृणुष्व तत् ।
पतिव्रतानां नारीणां पतिरेव गतिर्यतः ॥ ८ ॥
मानृतं वद हे पुत्रेत्येवंरूपं पितुर्वचः ।
पालयस्व ततोऽवश्यं तव श्रेयो भविष्यति ॥ ९ ॥
इति पत्न्या वचः श्रुत्वा स्नेहयुक्तं सयुक्तिकम् ।
प्रतिनन्द्याब्रवीद्धृष्टस्तथास्त्विति शुभानने ॥ १० ॥
चौर्यवेषादिकं धृत्वा काङ्कालैरङ्गुलीयकैः ।
करांगुलीरलंकृत्य नीलवस्त्रावृताङ्गवान् ॥ ११ ॥
अदृश्याञ्जनसंजाततिलकधीललाटवान् ।
मोहचूर्णाढ्यनीवीभिः कटिशोभां विधाय च ॥ १२ ॥
चौर्ययष्टिकरश्चार्धरात्रे तूर्णं विनिर्गतः ।
गाढान्धकारसमये निःशब्देऽतिभयंकरे ॥ १३ ॥
महायोगीव धीरः सन्नानावीथिषु संचरन् ।
कुत्र गन्तव्यमित्यन्तर्विचार्यैकत्र तस्थिवान् ॥ १४ ॥
एतस्मिन्नेव समये तत्पुरीनायको नृपः ।
धर्मकेतुर्महाधीरो महाविद्वान्महामतिः ॥ १५ ॥
राजयोगी नागरिकशोधनं कर्तुमिच्छया।
राजचिह्नादिकं त्यक्त्वा वेषान्तरनिगूहितः ॥ १६ ॥
अदृश्यप्राणिदृश्यत्वकरदिव्याञ्जनेक्षणः ।
एकाकी विचरन् रात्र्यां वेत्रपाणिः सुनिर्भयः ॥ १७ ॥
निःशब्दे निर्जने गाढतमसा परिवेष्टिते ।
तिष्ठन्तं स्वपुरोभागे धर्मसंग्रहिसंज्ञकम् ॥ १८ ॥
द्विजं वेषान्तरच्छन्नं विलोक्याश्चर्यसंयुतः ।
को भवानिति धैर्येण पप्रच्छ धृतिमान् यतः ॥ १९ ॥
स विप्रस्तद्वचः श्रुत्वा तं च वेषान्तरावृतम् ।।
नृपमालोक्य चोरोऽयं मादृशः कश्चनेति च ॥ २० ॥
सम्यङ् निश्चित्य तदनु सत्यवाग्ब्राह्मणोऽस्म्यहम् ।
चौर्यार्थमागतो नूनमित्युक्त्वा निर्भयः स्थितः ॥ २१ ॥
तदीयसत्यवाक्येन तोषितो विस्मितो नृपः ।
तत्समीपमुपागम्य पुनः पप्रच्छ साञ्जलिः ॥ २२ ॥
ब्रह्मन्नस्तु नमस्तुभ्यमहं क्षत्रकुलोद्भवः ।
दारिद्र्यहेतोश्चौर्येण जीवनं करवाणि भोः ॥ २३ ॥
ज्ञातित्वान्मयि विश्वासः क्वापि वा नैव जायते ।
एतद्देशाधिराजस्य धर्मकेत्वभिधानिनः ॥ २४ ॥
हीनवृत्तिरपि श्लाघ्या ज्ञातीनामाश्रयादपि ।
तथाप्यन्तर्मनस्ताप एव मे चौर्यजीवनात् ॥ २५ ॥
एवंस्थिते ऽग्रजन्मा त्वं कथं चौर्यप्रहर्षवान् ।।
न पापं विद्यते वा ते चौर्यवृत्त्यैव जीवतः ॥ २६ ॥
इति तस्य वचः श्रुत्वा सावमानं स भूसुरः ।
प्रहस्य किंचित्प्रोवाच वाक्यं वाक्यविदां वरः ॥ २७ ॥
क्षत्रवर्य न जानासि धर्माधर्मविनिर्णयम् ।
चौर्यात्परतरो धर्मो न कश्चिदपि विद्यते ॥ २८ ॥
चौर्यं न स्याद्यदि तदा धनाधिक्यवतां नृणाम् ।
धनान्धकारजो गर्वो धिक्कुर्यादीश्वरानपि ॥ २९ ॥
धनान्धकारगर्वेण दुर्वृत्तजनता भुवि ।
किं किं वा न चरेत्पापं न यत्र पितृपुत्रता ॥ ३० ॥
चौर्यप्राबल्यमेवं स्याद्यदि सर्वत्र भूतले ।
तदा न कस्यापि सौख्यलेशांशोऽप्यपजायते ॥ ३१ ॥
पापार्जितधनं त्यक्त्वा तथा परिमितं धनम् ।
असंख्येयधने चौर्यमहंतादोषनाशकम् ॥ ३२ ॥
ज्येष्ठपुत्रावमानेन त्रयः कुप्यन्ति सोदराः ।
इत्युक्तवचनस्याभिप्रायगोचरता भवेत् ॥ ३३ ॥
अग्निबाधे राजदण्डे धर्मचौर्ये च बाहुज ।
धनान्धकारगर्विष्ठदुर्नराणां गृहादिषु ॥ ३४ ॥
अग्निचोरमहीपालैः सर्वस्वहरणे सति ।
निर्धनत्वाद्वीतगर्वो नरः पूतो भविष्यति ॥ ३५ ॥
धनाधिक्येऽपि सद्विद्वान्न गर्वं याति कर्हिचित् ।
तद्धनेष्वणुमात्रं वा यो हरेत्स पतेदधः ॥ ३६ ॥
तस्मात्ते धर्मचौर्ये ऽस्मिन्दोषशङ्कावकाशता ।
न विद्यते सत्पुरुषैः सेव्यतामेतदन्वहम् ॥ ३७ ॥
चौर्यं किं नाम लोकेऽस्मिन्निति चेद्यत्र बध्यते ।
वध्यते च जनस्तद्धि चौर्यं निन्दनकारणम् ॥ ३८ ॥
वधबन्धादिरहितं यच्चौर्यं धर्ममार्गगम् ।
न तस्य चौर्यदोषोऽस्ति किं त्वदोषः प्रभुत्ववत् ॥ ३९ ॥
अथ वा यत्र कुत्रापि दृष्टं चेद्धर्मचोरणम् ।
फलाधिक्यप्राप्तिहेतोर्धनस्वामी न कुप्यति ॥ ४० ॥
किं त्वागत्य प्रतिदिनमीदृशं चोरणं कुरु ।
इति संतोषवचसा संमान्याशु प्रसीदति ॥ ४१ ॥
चौर्यं प्रकारभेदेन बहुधा विद्यते भुवि ।
तदेकदेश: संप्रोक्तः कृत्स्नश: केन वर्ण्यते ॥ ४२ ॥
ചൌര്യം പ്രകാരഭേദേന ബഹുധാ വിദ്യതേ ഭുവി ।
തദേകദേശ: സംപ്രോക്തഃ കൃത്സ്നശ: കേന വര്ണ്യതേ ॥ ൪൨ ॥
इन्द्रस्तु गौतमसती चोरयित्वाप संकटम् ।
गोपस्त्रीचोरणं कृत्वा कृष्णो नैवाप संकटम् ॥ ४३ ॥
रामभार्यां चोरयित्वा पौलस्त्यः प्राणमत्यजत् ।
गुरुस्त्रीचौर्यकृच्चन्द्रो बभूव शिवभूषणम् ॥ ४४ ॥
तमश्चोरोंऽशुमाँल्लोके पापचोरो हरिः स्मृतः ।
अज्ञानचोरो हि गुरुर्ब्रह्मचोरास्तु योगिनः ॥ ४५ ॥
एवं विचार्यमाणे तु सर्वे चोराः प्रकीर्तिताः ।
चौर्यस्य विषयस्तावत्पृथक्पृथगवस्थितः ॥ ४६ ॥
कर्मचोरा ज्ञानचोरा भक्तिचोरादयोऽपि च ।
कदापि न्यायचोरस्य कलां नार्हन्ति षोडशीम् ॥ ४७ ॥
न्यायचोरेषु दुष्टेषु राज्यभारादिपूर्वकम् ।
प्रभुत्वं स्याद्यदि पृथक्प्रलयेन फलं किमु ॥ ४८ ॥
न्यायचोरमहीपालाः प्राणिनां प्राणहारिणः ।
प्राणा वै वसव इति श्रुतिवाक्यप्रमाणतः ॥ ४९ ॥
धर्ममार्गाविरोधेन यच्चौर्यं शास्त्रसंमतम् ।।
तदेव धर्मचौर्यं स्याद्धर्महिंसादिवत्कृतम् ॥ ५० ॥
धर्मचौर्ये पापलेशप्रसक्तेरप्यभावतः ।
वृत्तिरेषा सुसंसेव्या भूसुरैरितरैश्च वा ॥ ५१ ॥
एतस्मिन्विषये दोषशङ्कामपि च मा कुरु ।
मत्तो यत्प्रार्थनीयं ते तत्सर्वं साध्यते मया ॥ ५२ ॥
इति तगिरमाकर्ण्य भूपो विस्मयसंयुतः ।
तत्सामर्थ्यमशेषेण द्रष्टुमौत्सुक्यवत्तया ॥ ५३ ॥
स्वरूपमप्रकाश्यैव शिष्यभावमुपेत्य च ।
इदं प्रोवाच वचनं कृताञ्जलिरवस्थितः ॥ ५४ ॥
भो भो विप्र महाभाग प्रभावस्ते महत्तरः ।
एतादृशी धर्मनीतिः क्वापि वा न श्रुता मया ॥ ५५ ॥
मदीयः संशयः सर्वो विनष्टो यत्ततोऽद्य माम् ।
शिष्यबुद्द्यानुगृह्णीष्व भृत्यबुद्ध्यानुपालय ॥ ५६ ॥
इत्युक्त्वोपरते राज्ञि तमादाय करेण सः ।
बभ्राम सर्ववीथीषु चोरणार्थं यदृच्छया ॥ ५७ ॥
अथ तत्तद्गृहस्थस्य नामोक्त्वा वृत्तिपूर्वकम् ।
सम्यक्प्रदर्शितं तेन पुरं राज्ञा द्विजातये ॥ ५८ ॥
यद्यद्गृहं चोरणार्थं धनिनामवनीभुजा।
पुरो निर्दिश्यते तत्तत्तेन विप्रेण दूषितम् ॥ ५९॥
अश्रोत्रियधनं त्याज्यं श्रोत्रियस्य धनं तथा ।
सखे वार्र्धुषिकस्यापि धनं त्याज्यमसंशयः ॥ ६० ॥
स्त्रीशूद्रवैश्यविप्राणां धनं त्याज्यं हि चोरणे ।
यद्भगोपार्जितधनमामश्राद्धधनं तु यत् ॥ ६१ ॥
देवदास्या धनं त्याज्यं तथा देवलकस्य च ।
ऋणग्रस्तदरिद्रस्य यद्धनं त्याज्यमेव तत् ॥ ६२ ॥
तिलस्य वा तण्डुलस्य लवणस्य च वाससाम् ।
विक्रेतृणां यद्धनं स्यात्तत्सर्वं त्याज्यमेव हि ॥ ६३ ॥
कोटीश्वरो दरिद्रो हि लक्षेशोऽत्यन्तनिर्धनः ।
अयुतेशो महारिक्तः सहस्रशो हि भिक्षुकः ॥ ६४ ॥
यत: कोटीश्वरादीनां प्रागुक्तधनशालिनाम् ।
अण्वायव्यययोः स्यातां संतोषव्यसने क्रमात् ॥ ६५ ॥
पृथुकघ्न्या वितन्तोश्च तथा कोटीश्वरस्य च ।
धनागमापायसुखदुःखयोः का भिदा भवेत् ॥ ६६ ॥
तस्माद्दुर्वृत्तिदुर्न्यायदुष्प्रसङ्गदुराग्रहैः ।
कृच्छ्रात्संपादितं कोटिसंख्याया अप्यधोगतम् ॥ ६७ ॥
इत्यादिकं धनं मोहाद्यस्तस्करितुमिच्छति ।
आकल्पं कोटिनरकानवाप्नोति न संशयः ॥ ६८ ॥
त्यजन्परिमितद्रव्ये चौर्यापेक्षां नरोत्तमः ।
कुर्वन्नसंख्यातधने तास्कर्यं शिवमृच्छति ॥ ६९ ॥
राजसद्मन्येव तावदसंख्यातधनस्थितिः ।
न्यायार्जितत्वं न स्याञ्चेत्तदपि त्याज्यमेव हि ॥ ७० ॥
अस्मद्देशाधिपो राजा सुतरां धार्मिकोत्तमः ।
तस्मात्तत्रैव गन्तव्यमावाभ्यामधुना द्रुतम् ॥ ७१ ॥
इत्यन्योन्यं भाषमाणौ तौ विप्रक्षत्रपुंगवी।
आराद्ददृशतू राजभवनं श्रीमदाततम् ॥ ७२ ॥
धर्मसंग्रहिसंज्ञोऽथ ब्राह्मण: पार्श्ववर्तिनम् ।
महाराजं समुद्वीक्ष्य वचनं चेदमब्रवीत् ॥ ७३ ॥
अहो राजगृहं भाति कैलासमिव पाण्डरम् ।
चित्रध्वजपताकाद्यैरलंकृतमिदं महत् ॥ ७४ ॥
खरवल्गितखड्गाग्र्यैर्धनुष्पाणिभिरेव च ।
उत्तुङ्गतुरगारूढैर्यष्टिकुन्तगदाधरैः ॥ ७५ ॥
दीर्घश्मश्रुभिरव्यग्रैर्व्याघ्रैरिव दुरासदैः ।
शूरैर्भटवरैर्गुप्तं सिंहैरिव महद्वनम् ॥ ७६ ॥
अप्रवेश्यतमं मन्ये वायुनापीममालयम् ।
तस्माद्वद त्वं हे विद्वन्प्रवेशोपायमद्य मे ॥ ७७ ॥
इति तद्वाक्यमाकर्ण्य स महाराजशेखरः ।।
तत्सामर्थ्यपरीक्षार्थमिदं वचनमब्रवीत् ॥ ७८ ॥
ब्रह्मन्यदृच्छया सुप्ते परिवारे ऽथ कुङ्यके ।
कृच्छ्राद् द्वारं विधायैव गन्तव्यमिति भाति मे ॥ ७९ ॥
इत्युदीरितमाकर्ण्य राज्ञा भूसुरसत्तमः ।
शिरःकम्पं विधायैव प्रहसन्वाक्यमब्रवीत् ॥ ८० ॥
कदा वा परिवारस्य सुप्तिः संततजाग्रतः ।
कदा वा घटते कड्ये द्वारं कृत्वा प्रवेशनम् ॥ ८१ ॥
तव युक्तिस्तु सिद्धार्थः पूर्वगैव न संशयः ।
द्वारप्रवेशादि यत्तत्सर्वं त्वय्येव तिष्ठतु ॥ ८२ ॥
इति श्रीधर्मचौर्यरसायनग्रन्थे द्वितीयाश्वासः ।
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/samskrita/CAAdWWbfhkJ2pLFav9u0ak6vC7q1EvVzWjO9hibKRFMaRC8tobA%40mail.gmail.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/samskrita/CAKE_k5eEfTCJa%3DxFcL9DWkHrA7nz9suV8T0DLx%2BYTm5FR7rhRg%40mail.gmail.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/samskrita/EBD10D2B-F822-41FA-8316-B2AFEDC577AB%40gmail.com.