अष्टाक्षरस्य द्विजेतरप्रयोज्ये बीजम्

12 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 10, 2024, 6:42:20 AM3/10/24
to kalpa-prayoga
https://www.youtube.com/watch?v=DIBE21hxxVQ इत्यत्र वक्त्रा काचिद् व्याकृतिः प्रस्तुता यया अष्टाक्षरमन्त्रान्तर्गतस्य प्रणवस्य द्विजेतरैर् अपि प्रयोगो विहित उच्यते। किञ्च व्याख्यानम् एतद् विचारणीयम् भाति। यतस् तत्राधारो दर्श्यते - 

“न स्वरः प्रणवोऽङ्गानि नाप्यन्यविधयस्तथा । स्त्रीणान्तु शूद्राजातीनां मन्त्रमात्रोक्तिरिष्यते”(नारदीयकल्पम्)
“तत्रोत्तरायणस्यादिर्बिन्दुमान्विष्णुरन्ततः । बीजमष्टाक्षरस्य स्यात्तेनाष्टाक्षरता भवेत्”(नारदीयम् 1-57)

अत्र वेदान्तदेशिकः -

इप्पडि प्रणवविहीनमान मूलमन्त्रत्तिऱ्‌कु अष्टाक्षरत्वसंभवप्रकारत्तैच् चॊल्लुगिऱदु ‘‘तत्रोत्तरायणस्यादिः’’ ऎन्गिऱ श्लोकम्. इदऱ्‌कु अर्थम्ः- तत्र – मूलमन्त्रत्तिलुळ्ळ, उत्तरायणस्यादिः – ‘‘नारायणायेत्युपरिष्टात्’’ ऎण्ड्रु उत्तरत्तिल् सॊन्न नारायणशब्दसंबन्धियान अयनशब्दत्तिनुडैय आदियाय्, अन्ततः - मुडिविले, बिन्दुमान् - अनुस्वारत्तैयुडैयदाय्, विष्णुः – विष्णुवाचकमान अकारमानदु, अष्टाक्षरस्य बीजं स्यात् - अष्टाक्षरत्तिऱ्‌कु बीजमागक् कडवदु. अन्द बीजत्तै प्रणवस्थानत्तिल् सेर्त्ताल् प्रणवमॊऴिन्द मूलमन्त्रत्तिऱ्‌कुम् अष्टाक्षरत्वमुपपन्नमागुमॆण्ड्रु करुत्तु.

स्वटिप्पनी -
अत्र "विष्णोर् अन्तत" इति नोक्तम्, येन अ+उम् इति अरयर्-रामशर्मोक्तरीत्या सिध्येत । "विष्णुर् अन्ततः बीजम्" इत्य् उक्तम्, येन "अम्" इत्य् एव बीजम् भवेत् खलु?


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 10, 2024, 9:18:10 PM3/10/24
to kalpa-prayoga
श्रीवेङ्कटनाथार्यः - उत्तरस्य अयन-शब्दस्यादिस् विष्णुः (=अकारः) बिन्दुमान् अन्ततः = बीजम् अष्टाक्षरस्य।

श्रीरामशर्मादयः - अन्ततः, उत्तरायणस्यादिः (= उकारः) बिन्दुमान्, विष्णुः (=अकारः) (च) = बीजम् अष्टाक्षरस्य। 

इति व्याकृतिभेदः। तथा व्याकृते तु,
तद् इदं नारदीयं शास्त्रं
द्विजेतरपक्षे प्रणवं निषिध्य
पुनस् तम् एव प्रणवं विदधातीति
अहो विचित्रम्।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 17, 2024, 10:57:00 PM3/17/24
to desikan desikan, kalpa-prayoga


On Mon, 11 Mar 2024 at 12:30, desikan desikan <srith...@yahoo.com> wrote:
प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूय इत्यत्र  श्रीभाष्ये 
प्रमाणान्तरेणाप्राप्तं  स्वयमेव प्रदर्श्य  स्वयमेव  नेति नेति निषिध्यते इति  अनुन्मत्तः को ब्रवीतीति रीत्या वर्तते।   
अतः प्रकृतैतावत्वं हि प्रतिषेधति  एतावन्मात्रं न इतोपि  अस्तीति  तात्पर्यमिति। 
तद्रीत्या प्रकृते द्विजेतरपक्षे प्रणवं  निषिध्य तदेव विधीयते  इति वचनं न सङ्गच्छत इति भवताम् तात्पर्यम्?
पूर्वत्र विधेरनन्तरं निषेधः , प्रकृते  निषेधानन्तरं विधिरिति ?

भवत्-पत्रेण प्रेरितस् तद् अधिकरणं पठन् स्वहासं नियन्त्रयितुं नाशकम् !! 
साधूक्तम् भाष्यकारेण, साधु चात्र तत्-तुल्यत्वम् अत्र भवता प्रदर्शितम् :-D 
अहो स्खालित्यम् एकदेशिनां पदे पदे भाष्यकारम् पूजयताम् अपि  
तदीय-प्रामाणिकताम् अननुकुर्वताम् :-(

अन्येषाम् अप्य् आस्वादायास्त्व् इति मूलं निक्षिपामि सानुवादम्-

तस्य ह वा एतस्य पुरुषस्य
रूपं यथा माहा-रजनं(=कुङ्कुम-वर्णं) वासः (बृ.४.३.६)

इत्यादिना आकार-विशेषं चाभिधाय

अथात आदेशो -

नेति, नेति -
न ह्य् एतस्माद् इति नेत्य्
अन्यत् परम् अस्ति
(बृ.४.३.६)

इति सर्वं प्रकृतं
ब्रह्मणः प्रकारम् इति-शब्देन परामृश्य
तत्सर्वं प्रतिषिध्य 

सर्व-विशेषाधिष्ठानं

सन्-मात्रम् एव ब्रह्म;

विशेषास् त्व्
एवं-विधं स्व–स्व-रूपम्
अजानता ब्रह्मणा कल्पिता
इति दर्शयति;

नैतद् उपपद्यते –
यद् ब्रह्मणः प्रकृति-विशेषवत्त्वं नेति नेति (बृ.४.३.६) इति प्रतिषिध्यत – इति,
तथा सति भ्रान्ति-जल्पितायमानत्वात् । (5)
It is impossible to understand the text ’not so, not so’ as negativing those distinctions of Brahman which had been stated previously.
If the text meant that, it would be mere idle talk.

न हि
ब्रह्मणो विशेषणतया
प्रमाणान्तराप्रज्ञातं सर्वं तद्-विशेषणत्वेन +उपदिश्य
पुनस् तद् एवानुन्मत्तः प्रतिषेधति । (5)

For none but a person not in his right mind
would first teach that all the things mentioned in the earlier part of the section are distinctive attributes of Brahman–
as which they are not known by any other means of proof–
and thereupon deliberately negative negate his own teaching.


[IMG]http://i49.tinypic.com/14ttsu0.jpg[/IMG]

न दैवं देशिकात्परम् न परं देशिकार्चनात्।   
श्रीदेशिकप्रियः
 


--
आपको यह मैसेज इसलिए मिला है क्योंकि आपने Google Groups के "kalpa-prayoga" ग्रुप की सदस्यता ली है.
इस समूह की सदस्यता खत्म करने और इससे ईमेल पाना बंद करने के लिए, kalpa-prayog...@googlegroups.com को ईमेल भेजें.
वेब पर यह चर्चा देखने के लिए, https://groups.google.com/d/msgid/kalpa-prayoga/CAFY6qgF2GdULrfiWZvdDsoC_zVMbfRuwAL_f25doqqF-RLHKKg%40mail.gmail.com पर जाएं.

Reply all
Reply to author
Forward
0 new messages