चार्वाकसंग्रहः

16 views
Skip to first unread message

लोकेश

unread,
May 18, 2024, 1:33:00 AM5/18/24
to Hindu-vidyA हिन्दुविद्या
नमोनमः

चार्वाकाः धूर्ताः नास्तिकाः असुराः राक्षसाः मायाविनः इत्यादिना उपाधिना सर्वदा तिरस्कृताः प्रायः संपूर्णे एव आर्यवर्तवाङ्मये । 

प्रायः तेषाम् एतावत् विद्वेषः आसीद् अन्यैः सह यत् तेषां मतस्य एकोऽपि ग्रन्थो न प्राप्तः अद्य ।

तेषां वाक्चारु परन्तु मिथ्या इति आरोपेण सर्वे क्षिपन्ति तान् । तथापि निष्पक्षेण निरीक्षणस्य अवश्यकता प्रतीयते अस्य आरोपस्य । चिन्तनीयम् यत् ते मिथ्यावादिनः अथवा तेषां विरोधिनः मिथ्यावादिनः आसन् । 

रामायणे (जाबालिप्रकरणे), नैषधीयचरिते (सप्तदशप्रकरणे), विष्णुपुराणे इत्यादौ चार्वाकाणां समता राक्षसैः सह स्थापिता । अस्य समीक्षता करणीया । अस्मै तेषां वाङ्मयम् आवश्यकं यत् न उपलभ्यते सरलतया एकस्मिन् स्थाने कुत्रापि ।

अत अत्र चार्वकानां यत् किमपि शेषं वाङ्मयम् उपलभ्यते इतस्ततः तस्य संग्रहणं संशोधनं च करोमि । भवन्तः अपि सहायतां कुर्वन्तु ।

धन्योऽस्मि

-----------

तदेतत् सर्व्वं बृहस्पतिनाप्युक्तम् । 

“न स्वर्गो नापवर्गो वा नैवात्मा पारलौकिकः । 
नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः । 

अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविका धातृनिर्म्मिता ।

पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति । 
स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते । 

मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । 
गच्छतामिह जन्तूनां व्यर्थं पाथेयकल्पनम् । 

स्वर्गस्थिता यदा तृप्तिं गच्छेयुस्तत्र दानतः । प्रासादस्योपरिस्थानामत्र कस्मान्न दीयते? ।

यावज्जीवेत् मुखं जीवेदृणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः । 

यदि गच्छेत् परं लोकं देहादेष विनिर्गतः । 
कस्माद्भूयो न चायाति? बन्धुस्नेहसमाकुलः । 

ततश्च जीवनोपायो ब्राह्मणैर्निहितस्त्विह ।
मृतानां प्रेतकार्य्याणि न त्वन्यद्विद्यते क्वचित् । 

त्रयो वेदस्य कर्त्तारो भण्डधूर्त्तनिशाचराः । जर्फरीतुर्फरीत्यादि पण्डितानां वचः स्मृतम् । 

अश्वस्यात्र हि शिश्नन्तु पत्नीग्राह्यं प्रकीर्त्तितम् । भण्डैस्तद्वत् परञ्चैव ग्राह्य जातं प्रकीर्त्तितम् । 

मांसानां खादनं तद्वन्निशाचरसमीरितमिति” ।

--------------------

इदं सर्वदर्शनसंग्रहतः ।


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 18, 2024, 4:38:08 AM5/18/24
to लोकेश, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Sat, 18 May 2024 at 11:03, लोकेश <lokeshh...@gmail.com> wrote:
नमोनमः

चार्वाकाः धूर्ताः नास्तिकाः असुराः राक्षसाः मायाविनः इत्यादिना उपाधिना सर्वदा तिरस्कृताः प्रायः संपूर्णे एव आर्यवर्तवाङ्मये । 

मायावादिन इत्य् अपि? असुरा राक्षसा इति च? सत्यम् एतद् उतात्युक्तिः?

प्रायः तेषाम् एतावत् विद्वेषः आसीद् अन्यैः सह यत् तेषां मतस्य एकोऽपि ग्रन्थो न प्राप्तः अद्य ।
चार्वाकशास्त्रनाशकारणं तु न परतो द्वेशः, अपि तु तेषाम् एव बलहीनतेति मन्ये।  
कथम्?
कर्माणि पुण्यपापादिकल्पनानि तिरस्कुर्वतां तेषां  
पितृपुत्रादिक्रमेण गुरुशिष्यरूपेण वा पारम्पराघटनम् एव् दुष्करम् - 
दूरं तद्रक्षणं शतमानेषु गच्छत्सु। 

पुनस् तत्र "नास्ति नास्ती"ति वचने रतैस् तैः   
"सन्तोषः कथं लभनीयः? कुतो दुःखम्?" इति विचार एव नालं कृतो भाति,  
येन न तावद् आकृष्टास् तेषु जनाः,  
यतो ऽन्यत्र पुष्कलतरस् तत्त्वविचारः, तोषविचारश् चापि। 
 

अत अत्र चार्वकानां यत् किमपि शेषं वाङ्मयम् उपलभ्यते इतस्ततः तस्य संग्रहणं संशोधनं च करोमि । भवन्तः अपि सहायतां कुर्वन्तु ।

प्रशंसनीय उद्यमः। प्रसिद्धं किञ्चित् -

यावज्जीवेत्सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् ।
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ।।
त्रयोवेदस्य कर्तारौ भण्डधूर्तनिशाचराः । 


 

धन्योऽस्मि

-----------

तदेतत् सर्व्वं बृहस्पतिनाप्युक्तम् । 

“न स्वर्गो नापवर्गो वा नैवात्मा पारलौकिकः । 
नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः । 

अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविका धातृनिर्म्मिता ।

पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति । 
स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते । 

मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । 
गच्छतामिह जन्तूनां व्यर्थं पाथेयकल्पनम् । 

स्वर्गस्थिता यदा तृप्तिं गच्छेयुस्तत्र दानतः । प्रासादस्योपरिस्थानामत्र कस्मान्न दीयते? ।

यावज्जीवेत् मुखं जीवेदृणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः । 

यदि गच्छेत् परं लोकं देहादेष विनिर्गतः । 
कस्माद्भूयो न चायाति? बन्धुस्नेहसमाकुलः । 

ततश्च जीवनोपायो ब्राह्मणैर्निहितस्त्विह ।
मृतानां प्रेतकार्य्याणि न त्वन्यद्विद्यते क्वचित् । 

त्रयो वेदस्य कर्त्तारो भण्डधूर्त्तनिशाचराः । जर्फरीतुर्फरीत्यादि पण्डितानां वचः स्मृतम् । 

अश्वस्यात्र हि शिश्नन्तु पत्नीग्राह्यं प्रकीर्त्तितम् । भण्डैस्तद्वत् परञ्चैव ग्राह्य जातं प्रकीर्त्तितम् । 

मांसानां खादनं तद्वन्निशाचरसमीरितमिति” ।

--------------------

इदं सर्वदर्शनसंग्रहतः ।


--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CA%2BksRZcfdSnckmBPuzBJx3PCs1UMQHsnrOvV1CiPb4MzYxy5gA%40mail.gmail.com.


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 18, 2024, 4:53:58 AM5/18/24
to लोकेश, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
https://vishvasa.github.io/AgamaH/AryaH/chArvAkaH/meta/saMskRta-vANmaya-bRhad-itihAsa/ 

इत्यत्रापि किञ्चित् सङ्गृह्यमाणम् - तत् कश्चित् परिष्करोति चेद् उपकृतो भवितास्मि। 



लोकेश

unread,
May 18, 2024, 6:45:55 AM5/18/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
नमस्ते विश्वास आचार्य


मायावादिन इत्य् अपि? असुरा राक्षसा इति च? सत्यम् एतद् उतात्युक्तिः?

सत्यमिदम् । यथा विष्णुपुराणे अत्र दृष्टव्यं -

श्रीपराशर उवाच
एवम्प्रकारैर्बहुभिर्युक्तिदर्शनचर्चितैः ।
मायामोहेन ते दैत्या वेदमार्गादपाकृताः ॥ ८ ॥

निहतस्य पशोर्जज्ञे स्वर्गप्राप्तिर्यदीष्यते ।
स्वपिता यजमानेन किन्नु तस्मान्न हन्यते ॥ २८ ॥
तृप्तये जायते पुंसो भुक्तमन्येन चेत्ततः ।
कुर्याच्छ्राद्धं श्रमायान्नं न वहेयुः प्रवासिनः ॥ २९ ॥

श्रीपराशर उवाच
मयामोहेन ते दैत्याः प्रकारैर्बहुभिस्तथा ।

- https://satsangdhara.net/vp/adhyaya-03-18.htm

अत्र चार्वाकाणां मतं महामोहस्य वचनमिति उक्तम् । तेषामनुयायिनः च दैत्या इति उक्तम् ।


 > मायावादिन

मायाविनः न तु मायावादिनः । मायावादिनः तु अस्माकं प्रिया अद्वैतवादिनः ।

अपि तु तेषाम् एव बलहीनतेति मन्ये।

अहं न मन्ये ते बलहीना इति । तेषां मतम् अर्वाचीनविज्ञाने तुल्यम् ।

पुनः तेषां संपूर्णमतं नोपलब्धम् अतः न वक्तुं शक्नुमः यत् ते संपूर्णतया पापपुण्यानां तिरस्कारं कृतवन्तः । मम मतेन ते केवलं व्यर्थक्रियाकलापानां तिरस्कारं कृतवन्तः यथा अग्रिहोत्रादि ।

प्रशंसनीय उद्यमः।

धन्यवादः । भवतः अनुग्रहः यत् एतस्मै कार्याय भवान् स्थानं दत्तवान् । अन्ये समूहाः तु स्थानमेव न यच्छन्ति तादृशवार्तायै ।

इत्यत्रापि किञ्चित् सङ्गृह्यमाणम् - तत् कश्चित् परिष्करोति चेद् उपकृतो भवितास्मि। 

शोभनम्।



----------------------

पूर्वश्लोकेन सिद्धान्तम् उक्त्वा ब्रह्मणि गतं सर्वशक्तित्वम् आश्रित्य मतान्तराणाम् अपि सत्यवादित्वम् एव साधयति

भ्रमस्यैवातिदृश्यत्वाद् अदृश्यत्वान् महाचितेः ।
मदशक्तिवद् आत्मेति सत्याया अपि युज्यते ॥२॥

भ्रमस्यैव लक्षणया भ्रमकार्यस्य भूतपञ्चकस्य एव । अतिदृश्यत्वात् स्थूलतया अतिशयेन लक्ष्यत्वेन । सत्यायाः महाचितेः । अदृश्यत्वात् बाह्यान्तःकरणागोचरत्वेनालक्ष्यत्वात् । इति अपि एतद् अपि । युज्यते युक्तं भवति । इति । किम् इति । आत्मा मदशक्तिवत् भवति । एतेन चार्वाकमतस्यायुक्तत्वे विश्रान्तिमती युक्तता साधिता । ते एव हि यथा भूमितले स्थापितस्य द्राक्षादिरसस्य मदशक्तिर् उत्पद्यते तथा भूतपञ्चकस्य परस्य रसं गत्या चैतन्यम् उत्पद्यते इति ब्रुवन्ति । चैतन्ये आत्मशब्दप्रयोगः स्वमतम् आश्रित्य कृतः । चार्वाकास् तु देहस्यैवात्मत्वं कथयन्ति ॥२॥

.....

बाह्यम् एवास्ति नास्त्य् अन्यद् इत्य् अन्ये सत्यवादिनः ।
स्वात्मन्य् अक्षगणातीतं प्राप्नुवन्ति न ते यतः ॥८॥

यतःशब्दः उत्तरार्धस्य पूर्वार्धं प्रति हेतुत्वं द्योतयति । अयं निश्चयः स्थूलदृष्टीनां चार्वाकाणां प्राकृतानां च ज्ञेयः ॥८॥

.....

श्रीरामः पृच्छति

युक्तिः स्यात् कीदृशी ब्रह्मन् संसारे दुःखशान्तये ।
तेषां येषाम् अयं पक्षः श्रूयताम् उच्यतां ततः ॥१॥
यावज्जीवं सुखं जीवेन् नास्ति मृत्योर् अगोचरः ।
भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः ॥२॥

हे ब्रह्मन् । तेषां संसारे । दुःखशान्तये दुःखशान्त्यर्थं । कीदृशी युक्तिः उपायः । स्यात् । तेषां केषां । येषाम् अयं पक्षः भवति । अयं कः । श्रूयताम् इत्यादि । हे जना इति शेषः । हे जनाः । युष्माभिः प्रथमं श्रूयताम् । ततः अन्येभ्यः उच्यताम् । किं शृणुमः किं च वच्म इत्य् । अत्र वाक्यं कर्मत्वेन कथयति । यावज्जीवम् इति । पुरुषः । यावज्जीवं जीवितं तावत् । सुखं जीवेत् । वञ्चकप्रणीतवेदकृतं नियमं विहाय यथेष्टाचरणेन सुखेन जीविकां कुर्यात् । यतः । किंचिद् ॥

- मोक्षोपायटीकातः
-------------------

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 18, 2024, 7:26:17 AM5/18/24
to लोकेश, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Sat, 18 May 2024 at 16:15, लोकेश <lokeshh...@gmail.com> wrote:
नमस्ते विश्वास आचार्य

छात्रेष्व् आचार्यशब्दो न युज्यते :-P
 
अत्र चार्वाकाणां मतं महामोहस्य वचनमिति उक्तम् । तेषामनुयायिनः च दैत्या इति उक्तम् ।

दैत्यास् तेषामनुयायिनः च इति उक्तम् ।
 इत्येव वाच्यम्। व्यत्यासः खलु विद्यते। 

"गुरूक्तेश् च विरोचनोपदेशवद् असुर-मोहनार्थत्वात् । "

इति चार्वाकेषु वेङ्कटनाथार्येणोक्तं स्मराम्य् अनेन। 


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 18, 2024, 7:43:33 AM5/18/24
to लोकेश, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Sat, 18 May 2024 at 16:15, लोकेश <lokeshh...@gmail.com> wrote:
अहं न मन्ये ते बलहीना इति । तेषां मतम् अर्वाचीनविज्ञाने तुल्यम् ।
 
अर्वाचीनविज्ञानसादृश्येन वैशेषिकाः खलु वराः। 
पुनः भूतविज्ञाने ऽग्रेसरा वैदिकास् तान्त्रिकाश्चाभवन्। (ज्योतिषे, रसशास्त्रे, आयुर्वेदे … )

पुनः तेषां संपूर्णमतं नोपलब्धम् अतः न वक्तुं शक्नुमः यत् ते संपूर्णतया पापपुण्यानां तिरस्कारं कृतवन्तः । मम मतेन ते केवलं व्यर्थक्रियाकलापानां तिरस्कारं कृतवन्तः यथा अग्रिहोत्रादि ।

यदि चाग्निहोत्रादि व्यर्थम् अमन्यन्त - तर्हि खलु ते ऽर्धमतयो मूढा एव। स्वयम् एवात्म-निग्रहं ततः समपादयन्, तद् एव मयापि विवक्षितम्। यथाहुर् अन्येऽपि -

The former sage kings realized that words alone were insufficient to edify people, and therefore created ritual and music. They realized that political institutions and laws alone were insufficient to bring peace and stability to the people, and therefore created ritual and music to exercise kwa, “an inducing influence” over them…. When one follows ritual, one comes under this “inducing influence” and unconsciously obeys the laws of the sovereign. How can any evil result? Could political institutions and laws ever be as good [i.e., efficacious] as this?


he strongly affirmed the value of li as he believed them to have been employed by the ancient kings. The ancient kings created li, Sorai argued, because they recognized that “words” (i.e., the kinds of rationalizing, didactic explanations favored by Confucians of later ages) were insufficient to teach people how to live together peacefully and harmoniously.(5) The virtue of li as opposed to words was their transforming effect. Carried along by the performative power of li, people were induced without realizing it to act within the normative structures established by the ruler.

लोकेश

unread,
May 18, 2024, 10:46:44 AM5/18/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः

छात्रेष्व् आचार्यशब्दो न युज्यते :-P

🙏

How can any evil result? Could political institutions and laws ever be as good [i.e., efficacious] as this?

अहमनेन सहमतो नास्मि महोदय । अन्यान् वञ्चयित्वा या शान्तिः वा सुखं प्राप्यते तद् अस्थायि एव कमलपत्रे जलबिन्दुरिव । ज्ञानमात्रेणैव उद्धारं वर्तते न तु वञ्चनेन । वञ्चनम् अज्ञानं प्रसारयति । अज्ञानं च दुःखम् स्वस्मै परस्मै च ।
 
-------------

ग्रावोन्मज्जनवद्यज्ञफलेपि श्रुतिसत्यता ।
का श्रद्धा तत्र धीवृद्धाः कामाध्वा यन खिलीकृतः ॥

प्रावोन्मज्जनवत् 'ग्रावाणः प्लवन्ते' इति प्रतिपादितपाषाणतरणवज् ज्योतिष्टोमादियज्ञानां साध्ये स्वर्गादौ फलेपि 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादिश्रुतीनां सत्यता यथार्थता । ग्रावोन्मज्जनवाक्यस्य प्रत्यक्षबाधितत्वात्, यागानन्तरमेव स्वर्गादेरदृष्टत्वाज्ज्योतिष्टोमादियागप्रतिपादिका श्रुतिरपि प्रत्यक्षबाधिता । तथाच 'यागश्रुतिरप्रमाणम्, प्रत्यक्षविरुद्धत्वाद्ग्रावोन्मज्जनश्रुतिवत्' इति प्रयोगाद्यागश्रुतेरपि स्वर्गादावसत्यतेति च व्याख्येयम् । अत्र विरुद्धलक्षणया सत्यतेत्यस्याऽसत्यतेत्यर्थः । एवमन्येषामपि वेदवाक्यानां श्रुतित्वाविशेषादप्रमाणत्वे हे धीवृद्धाः बुद्धिमन्तो देवास्तत्र फले श्रुतौ वा युष्माकं का श्रद्धा कथमास्तिक्यम्। अपि त्वप्रामाणिकेर्थे श्रद्धा न कार्या । यद्येन कारणेन यद्वशाद्वेदोक्तविद्यातिक्रमभिया कामाध्वा यदृच्छाचारमार्गः खिलीकृतो बद्धः । त्यक्त इत्यर्थः । श्रुतिमात्रस्याप्रमाणत्वाद्यज्ञे यजमानर्त्विजां कतिचिदहानि यद्ब्रह्मचर्यं तदप्यप्रामाणिकत्वात्त्यजतेति भावः । 'धीवृद्धाः' इत्युपहासे । अतिमूर्खा भवन्त इत्यर्थः ॥


- नैषधीयचरितात्

-----------


अत्र सर्वेषां संग्रहणं स्थापयामि - https://lokeshh.github.io/carvaka_samgraha/

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 18, 2024, 11:23:56 AM5/18/24
to लोकेश, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Sat, 18 May 2024 at 20:16, लोकेश <lokeshh...@gmail.com> wrote:

How can any evil result? Could political institutions and laws ever be as good [i.e., efficacious] as this?

अहमनेन सहमतो नास्मि महोदय । अन्यान् वञ्चयित्वा या शान्तिः वा सुखं प्राप्यते तद् अस्थायि एव कमलपत्रे जलबिन्दुरिव । ज्ञानमात्रेणैव उद्धारं वर्तते न तु वञ्चनेन । वञ्चनम् अज्ञानं प्रसारयति । अज्ञानं च दुःखम् स्वस्मै परस्मै च ।

न हि general relativity इत्यस्य स्थाने classical mechanics बोधनं वञ्चनम् अभिधेयम्। पुनः, परोक्षप्रियत्वं वेदपुराणादेर् गुणायैवेत्य् अन्ये ऽप्य् ऊचुः - 

"since, just as the Gods have made the goods of sense common to all, but those of intellect only to the wise, so the myths state the existence of Gods to all, but who and what they are only to those who can understand. … Besides, to wish to teach the whole truth about the Gods to all produces contempt in the foolish, because they cannot understand, and lack of zeal in the good, whereas to conceal the truth by myths prevents the contempt of the foolish, and compels the good to practice philosophy."

अर्धमत्युद्भवो न कस्यचिद् उपकाराय। 

लोकेश

unread,
May 19, 2024, 12:07:02 AM5/19/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
न हि general relativity इत्यस्य स्थाने classical mechanics बोधनं वञ्चनम् अभिधेयम्।

प्रकरणे अस्य सादृश्यं कथम्? classical mechanics इति न परोक्षं फलं प्रतिपादयति । अस्माकं कारयानं प्रत्यक्षफलमस्य विज्ञानस्य । पुत्रपौत्राय आरोग्याय धनलाभाय इदं स्तोत्रं वेदमन्त्रं यज्ञं वा करोतु एवं रूपेण न अस्य विज्ञानस्य फलम् अप्रमाणिकम् ।

न च अध्यापकः बालकान् वञ्चयति एवमुक्त्वा यदेतद् classical mechanics अपौरुषेयमतः निर्वावादम् । अपि तु अध्यापकः भयेन विना साक्षाद् वदति यत् अग्रे गत्वा भवन्तः general relativity पठिष्यन्ति यत्र अस्य विज्ञानस्य बाधः भविष्यति ।

> because they cannot understand, and lack of zeal in the good, whereas to conceal the truth by myths prevents the contempt of the foolish, and compels the good to practice philosophy."


अकारुणिकस्य वचनमिदम् । मूढानां जडबुद्धौ अस्माकं गूढसिद्धान्तः न प्रविशति अतः वयं मिथ्यावदं प्रसारयामः येन अस्माकं विरोधो न भवेत् इति कोपि सद्बुद्धिः न वदिष्यति ।

> परोक्षप्रियत्वं वेदपुराणादेर् गुणायैवेत्य्

वेदपुराणादेः मिथ्यात्वं रक्षणाय जनाः भिन्नभिन्नाः कल्पनाः कुर्वन्ति । इयमेका कल्पना यद् भवता उदाहृतम् । पुनः अन्या कल्पना वर्तते यत् ऋषिभिः एताः वैदिकयज्ञादिक्रियाः चित्तशुद्धये प्रसारितः । इदमपि निराधारं यतः पशूनां बलिना अश्वमेधादिना क्रूरकर्मभिः कीदृशः चित्तशुद्धिः ? एवं चित्तशुद्धिः भवेच्चेत् जलेन अग्निर् वर्धेत । 

-------------

केनापि बोधिसत्वेन जातं सत्त्वेन हेतुना ।
यद्वेदमर्मभेदाय जगदे जगदस्थिरम् ॥३८॥

  केनाप्यज्ञातनाम्ना बोधिसत्त्वेनातिप्राज्ञेन जिनभट्टारकेण वेदस्य मर्मभेदाय रहस्यभङ्गाय जातमुत्पन्नम् । वेदमर्मभेदः कर्तुमारब्ध इति यावत् । कथमत आह-यद्यस्मात्सत्त्वेन हेतुना सत्त्वरूपेण लिङ्गेन यत्सत्तत्क्षणिकम् , यथा घट इत्यादिरूपेण जगदस्थिरं क्षणिकं जगदे प्रत्यपादि । सत्त्वलिङ्गेन विश्वस्य क्षणिकत्वसिद्धावुभयलोकगतं स्थिरमेकं कर्तारमधिकारिणमाश्रित्य वेदैर्विहितानां विधिनिषेधानां निराश्रयतया वेदस्याप्रामाण्यापादनाद्वेदमर्मभेदः कृत इत्यर्थः । बौद्धसिद्धान्तस्तु ग्रन्थान्तराद्बोद्धव्यः । विस्तरभयादत्र नोक्तः। अयं वक्ता पूर्वस्माद्भिन्नः। चार्वाक एव वा स्वमतं वेदाप्रामाण्यं बौद्धसंवादेन द्रढयति - केनेति । सत्त्वेन हेतुना यस्माज्जगदस्थिरं जगदे । तस्मात्केनापि लोकोत्तरप्रज्ञेन तेनैव चार्वाकेण वेदमर्मभेदाय बौद्धेन जातम् । तदीयमताङ्गीकरणात्तद्रपेणैव जातमित्यर्थः । 'जगाद' इति पाठे यद्बोधिसत्त्वं जगदस्थिरं जगादेति व्याख्येयम् ।

- नैषधचरितात्

-------

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 19, 2024, 12:46:43 AM5/19/24
to लोकेश, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Sun, 19 May 2024 at 09:37, लोकेश <lokeshh...@gmail.com> wrote:
प्रकरणे अस्य सादृश्यं कथम्? classical mechanics इति न परोक्षं फलं प्रतिपादयति । अस्माकं कारयानं प्रत्यक्षफलमस्य विज्ञानस्य । पुत्रपौत्राय आरोग्याय धनलाभाय इदं स्तोत्रं वेदमन्त्रं यज्ञं वा करोतु एवं रूपेण न अस्य विज्ञानस्य फलम् अप्रमाणिकम् ।
न च अध्यापकः बालकान् वञ्चयति एवमुक्त्वा यदेतद् classical mechanics अपौरुषेयमतः निर्वावादम् ।

फलविशेषसाधने भवतु नामाश्रद्धा। त्यजतु नामापौरुषेयवादम्। 
कर्मणां प्रतिष्ठितानां धर्म-जयाद्य्-उचित-संस्कारजननमात्रम् अपि तिरस्कुर्वतां चार्वाकाणां  
स्वतो नाश एव तद्-वाद-शून्यताम् उपपादयति। 
 
अपि तु अध्यापकः भयेन विना साक्षाद् वदति यत् अग्रे गत्वा भवन्तः general relativity पठिष्यन्ति यत्र अस्य विज्ञानस्य बाधः भविष्यति ।

अत्र तु वेदादाव् अपि समानम्। 


अकारुणिकस्य वचनमिदम् । मूढानां जडबुद्धौ अस्माकं गूढसिद्धान्तः न प्रविशति अतः वयं मिथ्यावदं प्रसारयामः येन अस्माकं विरोधो न भवेत् इति कोपि सद्बुद्धिः न वदिष्यति ।

बालेभ्यो भयमोहनादिभिस् सदाचारादि शिक्षन्तः कारयन्तश् च तर्हि वृद्धास् स्युर् दुर्बुद्धयः :-D

> परोक्षप्रियत्वं वेदपुराणादेर् गुणायैवेत्य्

वेदपुराणादेः मिथ्यात्वं रक्षणाय जनाः भिन्नभिन्नाः कल्पनाः कुर्वन्ति ।

सत्यत्वरक्षणायेति वाच्यम् प्रायेण। प्रमाणान्तरविरोधेऽर्थान्तरं विज्ञेयम् इति हि वैदिका वदन्ति। 

इदमपि निराधारं यतः पशूनां बलिना अश्वमेधादिना क्रूरकर्मभिः कीदृशः चित्तशुद्धिः ? एवं चित्तशुद्धिः भवेच्चेत् जलेन अग्निर् वर्धेत । 

चित्तशुद्धिर् नामाहिंसकतामात्रम् इति तु वैदिकाशयानवगतिं हि दर्शयति। 

 

लोकेशः

unread,
May 25, 2024, 2:25:58 AM5/25/24
to Hindu-vidyA हिन्दुविद्या
------------


अग्निहोत्रं त्रयीतन्त्रं त्रिदण्डं भस्मपुण्ड्र्कम् ।
प्रज्ञापौरुषनिःस्वानां जीवो जल्पति जीविका ॥ ३९ ॥

 अग्नीति ॥ नित्यं काम्यं च सायंप्रातर्होमरूपमग्निहोत्राख्यं कर्म, त्रयी च तन्त्रं मीमांसा, वेदत्रयसंबन्धि वा यत्तन्त्रं वेदविहितोऽन्योऽपि कर्मकलापः, तथा-त्रयो दण्डा यत्र तत्पाशुपतव्रतम् , तथा-भस्मनः पुण्ड्रकः तिलको यत्रैवंविधं शैवादिव्रतं एतत्सर्वं प्रज्ञाया बुद्धेः पौरुषेण सामर्थेन तीक्ष्णया प्रज्ञया निःस्वानां हीनानां, प्रज्ञया पौरुषेण च वा हीनानां, वञ्चनेन चौर्येण च बलाद्वाग्रहीतुमसमर्थानां, पुरुषाणां जीविका जीवनोपायः। तद्वेषधारणा धर्मेण द्रव्यमर्जयितुमेव। न तु तात्त्विको धर्मः परलोकसाधनम् । एवं वेदप्राण्यवादिनां भवति । जीवो बृहस्पतिर्जल्पति वदति । वाक्यार्थः कर्म । तदुक्तं तेनैव - 

'अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मपुण्ड्रकम् ।
बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥ इति ।

तस्मादग्निहोत्राद्यप्रमाणमेवेति भावः । 'जीविका' इति धात्वर्थनिर्देशे ण्वुल् ॥

 इदानी ब्राह्मण्यादिजातिधर्मानसहमानो जातिं दूषयति-


शुद्धिर्वंशद्वयीशुद्धौ पित्रोः पित्रोर्यदेकशः।
तदनन्तकुलादोषाददोषा जातिरस्ति का ॥ ४० ॥

 शुद्धिरिति ॥ विशुद्धमातापितृजन्यत्वं ब्राह्मण्यादेर्लक्षणम् । सा शुद्धिर्दुर्निरूपा । यद्यस्मात्पित्रोर्मातापित्रोर्यौ पितरौ मातामहपितामहौ, मातामहीपितामह्यौ च, तयोरेकशः प्रत्येकं वंशद्वयी शुद्धौ सत्याम् , एवं तयोरपि पितृपितामहीमातृपितामह्यादिमातामहमातुः, पितामहादिमातामहीमातुः, पितामह्यादिशुद्धौ सत्याम् । एवं ब्रह्माणं यावत्प्रत्येकं शुद्धौ सत्यां शुद्धिः परीक्षणीया। तत्तस्मादनन्तकुला एवमपरिमितवंशभेदा अत एव दोषाद्दुर्विज्ञेयशुद्धिसंतानस्त्रीपुंसपारम्पर्यतया शुद्धेः संदेहात् , इन्द्रचन्द्रादीनां च पुराणप्रामाण्येन व्यभिचारदर्शनादशुद्धेनिश्चयाच, जातिसंकररूपाद्दोषात्का जातिनिर्दोषास्ति । अपि तु न कापि । यदाहुः–

'अप्येकपङ्क्यां नाश्नीयात्संयतैः स्वजनैरपि ।
को हि जानाति किं कस्य प्रच्छन्नं पातकं भवेत्॥

'इति। तथा-

'अनादाविह संसारे दुर्वारे मकरध्वजे ।
कुले च कामिनीमूले का जातिपरिकल्पना॥'

इति । तस्मात्संकीर्णयोनित्वात्सर्वा अपि जातयो दुष्टा एवेति जातिधर्मान्विहाय स्वेच्छाचारं कुरुतेति भावः। यद्वा तस्मादा ब्रह्माणमनन्तानां कुलानामदोषाद् दोषाभावाद् व्यभिचारादिदोषरहिता जातिः स्यात् , सा काप्यस्ति, अपि तु न कापि । पूर्वपूर्वपित्रादिव्यभिचारादिदोषात्सर्वापि जातिर्दुष्टेति व्याख्या । 'यदा तदा' इति पाठः सम्यक् । तयोः पित्रोरनन्तकुलानां दोषाभावेन कृत्वाऽदोषा जातिरस्ति । अपितु महति कुले कस्यचिद्दोषसंभवात्सर्वापि जातिर्दुष्टवेत्यर्थ इति वा व्याख्या । यच्छब्दसामर्थ्यात्तच्छब्दाध्याहारः । एकशः, 'संख्यैकवचनात्' इति शस् ॥


--------------- नैषधियचरितात्


अन्यत्रापि उक्तं -


किं कुलेन विशालेन विद्याहीनेन देहिनाम् ।
दुष्कुलं चापि विदुषो देवैरपि सुपूज्यते ।।

रूपयौवनसंपन्ना विशालकुलसंभवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ।।

न जातिकारणं तात गुणाः कल्याणकारणम् ।
व्रतस्थमपि चाण्डालं तं देवा ब्राह्मणं विदुः ।।

न जातिर्न कुलं राजन् न स्वाध्यायः न श्रुतं न च ।
कारणानि द्विजत्वस्य व्रतमेव हि कारणम् ।।

किं कुलं व्रतहीनस्य करिष्यति दुरात्मनः ।
कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ।।

चतुर्वेदोपि दुर्वृत्तः शूद्रादल्पतरः स्मृतः ।
तस्माद्विद्धि महाराज व्रतं ब्राह्मणस्य लक्षणम् ।।

न यस्य जन्मकर्माभ्यां न वर्णाश्रमजातिभिः ।
सज्जते स्मिन्नहंभावो देहे वै स हरेः प्रियः ।।

वर्णाश्रमवयोवस्थाभिमानो यस्य विद्यते ।
तस्यैव च निषेधाश्च विधयः सकला अपि ।

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरता पार्थ नान्यदस्तीति वादिनः ।।
कामात्मनः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ।।
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ।।

विद्याविनयसंपन्ने बाह्मणे गवि हस्तिनि ।
श्वनि चैव श्वपाके च पण्डिताः समदर्शिनः ।।

न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः ।
असङ्गोसि निरोाको विश्वसाक्षी सुखी भव ।।

शास्त्रयत्नविचारेभ्यो मूर्खाणां प्रपलायताम् । 
कल्पिता वैष्णवी भक्तिः प्रवृत्त्यर्थं शुभस्थितौ ।।

अभ्यासयत्नौ प्रथमं मुख्यो विधिरुदाहृतः ।
तदभावे तु गौणास् स्यात् पूज्यपूजामयः क्रमः ।।

विचारोपशमाभ्यां हि विना नासाद्यते हरिः ।
विचारोपशमाभ्यां च युक्तस्याब्जकरेण किम् ।।

विचारोपशमोपेतं चित्तम् आराधयात्मनः ।
तस्मिन् सिद्धे भवान् सिद्धो नो चेत् त्वं वनगर्दभः ।।

क्रियते माधवादीनां प्रणयः प्रार्थनाय यत् ।
स चैव कस्मात् क्रियते न स्वकस्यैव चेतसः ।।

सर्वस्यैव जनस्यास्य विष्णुर् अभ्यन्तरे स्थितः ।
तं परित्यज्य ये यान्ति बहिर् विष्णुं न ते बुधाः ।।

ब्रह्मविष्ण्विन्द्ररुद्राद्याश् चिरं सम्पूजिता अपि ।
उपप्लुतमनोव्याधिं न त्रायन्ते पि वत्सलाः ।।


इति शम् ।
   



Reply all
Reply to author
Forward
0 new messages