नमस्ते सर्वेभ्यो,
कृत्रिमबुद्धिं प्रयुज्य उपकरणानि रचितानि सन्ति। तेषाम् अवलोकनं क्रियताम्।
२)
https://games.sanskrit.dev/varnavinyasa.html -
वर्णविन्यासः। वर्णाः इतस्ततः मिश्रिताः भवन्ति। तेषाम् आनुपूर्व्या स्थापनेन उचितं पदं निर्णेतव्यम्। प्रतिदिनं नूतनानि पदानि क्रीडनार्थम् उपलभ्यन्ते। पदे वर्णानां सङ्खाम् अधिकृत्य स्तरत्रयं कल्पितम् अस्ति।
३)
https://divyavaani.sanskrit.dev/ - तद्यथा Scrabble इति काचित् प्रसिद्धा क्रीडा तथैव
संस्कृतपदविन्यासः इति क्रीडा रचिता अस्ति। एषा तावत् साध्यावस्थ्यायाम् अस्ति। न सिद्धा एतावता। तथापि क्रीडितुं योग्या एव। भवतां क्रीडनेन तत्पश्चात् गुणदोषज्ञानेन परिष्कारं कर्तुकामः अस्मि। अतः क्रीडन्तु उत्सुकाः।
४)
https://newwords.sanskrit.dev/navashabdakosha_wireframes.html - सर्वदा संस्कृतेन व्यवहरद्भ्यः नूतनपदार्थानां कृते संस्कृतपदानाम् आवश्यकता भवति। बहवः यद्यपि अस्मिन् शब्दनिर्माणकार्ये निरताः तथापि नास्ति किमपि तादृशं जालस्थानं यत्र नूतनशब्दानां विषये चर्चादिकं शक्यते। एतत् मनसि निधाय निर्मीयमाणं जालस्थानम् अत्र दर्श्यते। दृष्ट्वा स्वाभिप्रायं वदन्तु लोकोपकारिणः पण्डिताः च।
सम्पर्कसमयः - 8 AM to 8 PM only