नमस्ते विद्वासः ।
प्रश्नो मे वर्तते व्याकरणस्य । यः कोऽपि जानाति प्रत्युत्तरं देहि कृपया । अधोलिखिता रूपसिद्धिः समीचीना न वा? इति समाधेयम् ।
तेभ्यो दर्श्यम् - ‘ तेभ्यस् + दर्श्यम् ’ इति स्थिते “ झलां जशोऽन्ते ” इति सूत्रेण सकारस्य दकारे प्राप्ते, तं बाधित्वा “ ससजुषो रुः ” इति सूत्रेण सकारस्य रुकारे “ भोभगोअघोअपूर्वस्य योऽशि ” इति सूत्रेण रुकारस्य यकारे प्राप्ते, तं प्रबाध्य “ हशि च ” इति सूत्रेण रुकारस्य उत्वे “ आद्गुणः ” इति सूत्रेण गुणे प्राप्ते, तं संबाध्य “ प्रथमयोः पूर्वसवर्णः ” इति सूत्रेण पूर्वसवर्णदीर्घरूपैकादेशे प्राप्ते “ नादिचि ” इति सूत्रेण तन्निषेधे सति ‘ अपवादे निषिद्धे उत्सर्गस्य स्थितिः ’ इति न्यायात् “ आद्गुणः ” इति सूत्रेण गुणरूपैकादेशे कृते ‘ तेभ्यो दर्श्यम् ’ इति सिद्धम् ।