Want to know about the word 'Shiksha'

50 views
Skip to first unread message

Manish Agarwal

unread,
Aug 16, 2022, 11:36:44 AM8/16/22
to bvpar...@googlegroups.com
Namaste,
Can someone please help me to know how the word 'Shiksha' was formed?
Which words and/or syllables used to form it and what meaning can be derived from it?

Regards
Manish

Subrahmanyam Korada

unread,
Sep 2, 2022, 5:00:38 AM9/2/22
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

शिक्षा --

शिक्ष विद्योपादाने (भ्वादिः - शिक्षते ) ’ गुरोश्च हलः ’ पा 3-3-103  इति  अ-प्रत्ययः । ’ स्त्रियाम् ’ पा  4-1-3 ’ अजाद्यतष्टाप् ’ 4-1-4 - सुबादि --- शिक्षा ।

 शिक्ष्यते स्थानादिकम् अनया । ’ कृत्यल्युटो बहुलम् ’ पा 3-3-113  इति बाहुलकात् करणे  प्रत्ययः । To train someone in स्थान - प्रयत्न - स्वर of वर्णs  and also offer विद्या ।

वेदे तु -- शीक्षा -- ’ व्यत्ययो बहुलम् ’ पा 3-1-85 इति दीर्घः ।

शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्ययः । -- शीक्षावल्ली , तैत्तिरीयोपनिषत्

धन्यो’स्मि


Dr.Korada Subrahmanyam
Professor of Sanskrit (Retd)
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741
Skype Id: Subrahmanyam Korada


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAPcDo6NPRqiFASC1u8Gmn4O-GkB4D4cU28i7WiTLoZv8w3EpSA%40mail.gmail.com.

Ramanujachar P

unread,
Sep 2, 2022, 5:36:58 AM9/2/22
to bvpar...@googlegroups.com
शक्नोत्येव यच्छिक्षति (तै.सं. 2.6.2.6)
शक्तुमिच्छा शिक्षा ?

रामानुजः



--
Dr. P. Ramanujan
Parankushachar Institute of Vedic Studies (Regd.)
Bengaluru

Subrahmanyam Korada

unread,
Sep 2, 2022, 7:13:48 AM9/2/22
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

शक्नोत्येव यच्छिक्षति (तै.सं. 2.6.2.6)
शक्तुमिच्छा शिक्षा ?                                          ---- विद् रामानुजः

वार्तिकम् --


शिक्षेर्जिज्ञासायाम् ( पा सू  क्रीडो’नुसंपरिभ्यश्च 1-3-21 - आत्मनेपदप्रकरणम्)

भाष्यम् -

शिक्षेः जिज्ञासायाम् उपसंख्यानं कर्तव्यम् । विद्यासु शिक्षते । धनुषि  शिक्षते ।

विद्यासु  शिक्षते = विद्याविषयकज्ञानफलकशक्तीच्छा ।

वार्तिके शिक्षा ( ’इक्श्तिपौ धातुनिर्देशे’ ) इति -- शक्लृ शक्तौ (स्वादिः) इत्यस्य सन्नन्तः ( शक् + सन् - ’ सनि मीमा...’ इस्भावः - अभ्यासलोपः - स्कोः इति लोपे षत्वे  इक्प्रत्यये  शिक्षेः इति निर्देशः) ।

विध्यर्थमिदम् । केचन ’ शिक्ष विद्योपादाने ’ इत्यस्य ग्रहणं नियमार्थं वर्णयन्ति । विधिपक्षः ज्यायान् । ( विधिनियमसंभवे --- इति परिभाषा न अनुस्रियते ) ।

कैयटः -- क्रियाविषयकश्च शकिः प्रयुज्यते - भोक्तुं शक्नोति , शयितुं  शक्नोति  इति प्रयोगदर्शनात् । इह तु जिज्ञासाविषयः शकिः गृह्यते विद्यां जिज्ञासितुं घटते इत्यर्त्थः । आत्मनेपदेनैव जिज्ञासायाः अवगमात्
जिज्ञासितुम् इति न प्रयुज्यते ।
नागेशः -- ज्ञानविशिष्टायाः शक्तेः इच्छाविषयतया ज्ञानस्यापि तत्त्वानपायात् । इयांस्तु विशेषः - इच्छा सनर्थः , शक्तिः प्रकृत्यर्थः , तस्य ज्ञानविशयत्वम् आत्मनेपदद्योत्यम् इति ।

शक्नोत्येव यच्छिक्षति (तै.सं. 2.6.2.6) -- मन्त्रे  शिक्षति इति परस्मैपदप्रयोगः छान्दसः - ’ व्यत्ययो बहुलम् ’ पा । रूपं तु ’शक्लृ  शक्तौ’ इत्यस्मादेव । न तु ’ शिक्ष विद्योपादाने ’ इत्यस्मात् ।

So the term शिक्षते has got two different  roots and meanings .

धन्यो,स्मि

Ramanujachar P

unread,
Sep 2, 2022, 10:36:44 AM9/2/22
to bvpar...@googlegroups.com
धन्योऽस्मि ।

रामामुजः

Reply all
Reply to author
Forward
0 new messages