{भारतीयविद्वत्परिषत्} Reporting from the United Nations in Sanskrit

45 views
Skip to first unread message

Kushagra Aniket

unread,
Sep 26, 2021, 10:53:16 PM9/26/21
to BHARATIYA VIDVAT
सर्वेभ्यो नमः।

Living very close to the UN headquarters, I had the opportunity of observing various diplomatic cavalcades over the last few days. As a result, I composed the following poem with the idea that international affairs and contemporary global politics should also be reflected in Sanskrit:

नव्यार्के संयुक्तराष्ट्रसम्मेलनम्-

सर्वे चलन्तु विबुधा मम काननेऽस्मिन्
क्रीडन्ति यत्र हरयो मृगशावकैः सह।
शान्तिस्सुधा प्रतिदिशं प्रसरत्यजस्रं
दिष्ट्या प्रसन्नवदना विलसन्ति विज्ञाः॥१ 

देवा यथा त्रिदशराजसभासनेषु
स्थित्वा सदा द्विपदलोकहितं मनन्ति।
तत्पादचिह्नमनुसृत्य जना इदानीं
संयुक्तराष्ट्रसदने भुवि मन्त्रयन्ते॥२ 

आयान्तु भव्यभवने नगरे मदीये
स्वस्वार्थसाधनरता वचनेऽदरिद्राः।
निर्धारणाय जगतो हितमेव पथ्यं
वाण्या समुत्सवतले जनतोषणाय॥३ 

आङ्ग्लाः प्रबुद्धयवनाः खसपारसीकाश्च
चीनास्तुरुष्ककुलजा मरुदेशजाताः।
वैदेशिकाश्च विविधाः सहभारतीयाः
कोलाहले विवदितुं परितस्तु सज्जाः॥४ 

सर्वं व्रणं हरतु तन्मृदुसूक्तिलेपो
रुग्णालयेषु सकलव्यथितान्तराणाम्।
द्रोहानलं शमयितुं निजशीतलेन
वाक्यामृतेन सदने भिषजः समर्थाः॥५ 

कल्याणमार्गमवरुध्य हि मानवानां
तिष्ठन्ति रोगभयहिंसनविप्लवा ये।
तेषां निवारणकलापटवो नयज्ञाः
सर्वोच्चशिष्टसदसि त्वधुना समेताः॥६ 

शेषः स्थिरोऽस्तु करिणश्च भवन्त्वतन्द्रा
मोक्तुं धरासुचिरसञ्चितकष्टभारम्।
तल्पं विहाय सुखदं पुनरेकवारं
प्रासादमण्डपतले सुजनाः प्रविष्टाः॥७ 

जानासि नैव जनते नवकूटनीतिं 
क्वापेक्षसे सुपरिणाममहो तया त्वम्।
चर्चा सदा प्रचलतीह यतो विदग्धाः 
कुर्वन्ति कर्म वचसैव न हस्तपादैः॥८ 

कौरव्यराजभवनेऽपि सुशान्तिदूतः
कृष्णोऽभवन्न शमितो रणभेरिनादः।
एकाकिसौबलकुमन्त्रबलाभिभूता
युद्धे हता नृपतयः सगजाश्वसेनाः॥९ 

किं नाम सन्तु शतशोऽपि समागताश्चेद्
गन्धारराजसदृशाः कुटिला मनुष्याः।
नव्यार्कराज्यनगरे कलहार्थिनो ये
तद्भारमेव वहतु क्षितिरत्र यत्नात्॥१० 

को वा नियन्त्रयति कं खलु केन बद्ध्वा
सर्वस्वतन्त्रपुरुषाः प्रतिभान्ति मञ्चे।
अध्यक्षकर्म विनिधाय जडप्रधाने 
स्वेच्छां चरन्ति तदनन्तरमत्र देशाः॥११ 

येऽरण्यरोदनविधिं विफलं वदन्ति
मन्त्रो न तैश्च विदितो हि यशोभिवृद्धेः।
व्यर्थप्रलापनिरताः सुजनौघमध्ये
पूज्या भवन्ति भुवनाखिलराष्ट्रसङ्घैः॥१२ 

आतङ्कवादविषपादपमूलमेव
येनार्चितं हि सततं रुधिरप्रदानैः।
पाकः स शान्तिविषये हि विशिष्टमञ्चात्
सर्वान् प्रशासितुमिह प्रथमः प्रवृत्तः॥१३ 

काश्मीरधामभुवि येन कृतं श्मशानं
पाकः स सन्दिशति शान्तिमहोपदेशम्।
तं चीनभृत्यमवलोक्य कुवृत्त्यधीनं 
मौनं समाद्रियत एव कथं सुसभ्यैः॥१४ 

चीनस्य यः प्रतिनिधित्वमलङ्करोति
प्राज्ञो विरौति स नृणामधिकाररागम्।
निक्षिप्य बन्धनगृहे प्रतियोगिपक्षं
सम्प्रेष्य चानघजनान् यमयातनासु॥१५ 

आवेदनं नवसदस्यपदाय चास्मिन्
विज्ञापयन्त्यधमजा नरभक्षिणो ये।
अर्धाफ़गानजनतां विनिवेश्य पूर्वं
दासत्ववृत्तिषु कथं खलतालिबानाः॥१६ 

विद्याविवेकनिपुणेषु मदोद्धतेषु
न्यायप्रियेषु कितवेषु च दुर्जनेषु।
पश्यन्ति भेदमतिसूक्ष्ममपि प्रवीणाः
संयुक्तराष्ट्रसदने समदर्शिनो न॥१७ 

चाणक्यनीतिमभिनन्दयति क्व कश्चिद्
या मोदिना निगदिताऽभ्युदयाय तत्र। 
कालप्रमादवशगस्य मनोरथान् हि
कालो निहन्ति कुपितस्त्वरितं समक्षे॥१८

के सन्ति तत्र सुहृदो रिपवश्च के के
मध्यस्थवैरिविमुखा धनमानपण्याः।
सेव्याः पृथग्वचनदानविभेददण्डैर्
यैः सानुकूलचरितं हि चरन्तु ते नः॥१९ 

साप्ताहिकी नृपसभा यदुनाथहीना
सम्बोधिताऽस्ति पिशुनैः शिशुपालवृन्दैः।
कार्यं समाप्य च महीपमहोत्सवस्य
सर्वे-ऽवकाशसमये विचरन्ति कामम्॥२० 

इत्थं विलोक्य कुदशामधिराष्ट्रसङ्घे
न्यासस्य घोरपतनं जगतः समीपात्।
काव्ये निबध्य नृपनीतिविचित्रलीलां
लोकान् प्रबोधयति कश्चन हास्यरीत्या॥२१ 

Best,
Kushagra

Kushagra Aniket
Economist and Management Consultant
Columbia University'21
Cornell University'15
New York, NY, U.S.A.

Srineet Sridharan

unread,
Sep 27, 2021, 10:18:00 AM9/27/21
to bvpar...@googlegroups.com
बहुशोभनं महोदय। अस्मिन्विषये कविता कर्तव्या इति विचारः एव सुन्दरः तथैव कवितापि सुन्दरी। धन्यवादः।

- श्रीनीतः।

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CADrasQrgmLYJBBCU-JaxBSsdX68XKWFX%3DrkC%3D_mthHbqOvLx0Q%40mail.gmail.com.

Kushagra Aniket

unread,
Sep 27, 2021, 2:18:19 PM9/27/21
to BHARATIYA VIDVAT
धन्यवादाः, मान्याः। 

टङ्कणदोषो जातः। चतुर्थे *खसपारसीकाश्" इति पठनीयः।   


Reply all
Reply to author
Forward
0 new messages