शक्तुमिच्छा शिक्षा ? ---- विद् रामानुजः
वार्तिकम् --
शिक्षेर्जिज्ञासायाम् ( पा सू क्रीडो’नुसंपरिभ्यश्च 1-3-21 - आत्मनेपदप्रकरणम्)
भाष्यम् -
शिक्षेः जिज्ञासायाम् उपसंख्यानं कर्तव्यम् । विद्यासु शिक्षते । धनुषि शिक्षते ।
विद्यासु शिक्षते = विद्याविषयकज्ञानफलकशक्तीच्छा ।
वार्तिके शिक्षा ( ’इक्श्तिपौ धातुनिर्देशे’ ) इति -- शक्लृ शक्तौ (स्वादिः) इत्यस्य सन्नन्तः ( शक् + सन् - ’ सनि मीमा...’ इस्भावः - अभ्यासलोपः - स्कोः इति लोपे षत्वे इक्प्रत्यये शिक्षेः इति निर्देशः) ।
विध्यर्थमिदम् । केचन ’ शिक्ष विद्योपादाने ’ इत्यस्य ग्रहणं नियमार्थं वर्णयन्ति । विधिपक्षः ज्यायान् । ( विधिनियमसंभवे --- इति परिभाषा न अनुस्रियते ) ।
कैयटः -- क्रियाविषयकश्च शकिः प्रयुज्यते - भोक्तुं शक्नोति , शयितुं शक्नोति इति प्रयोगदर्शनात् । इह तु जिज्ञासाविषयः शकिः गृह्यते विद्यां जिज्ञासितुं घटते इत्यर्त्थः । आत्मनेपदेनैव जिज्ञासायाः अवगमात्
जिज्ञासितुम् इति न प्रयुज्यते ।
नागेशः -- ज्ञानविशिष्टायाः शक्तेः इच्छाविषयतया ज्ञानस्यापि तत्त्वानपायात् । इयांस्तु विशेषः - इच्छा सनर्थः , शक्तिः प्रकृत्यर्थः , तस्य ज्ञानविशयत्वम् आत्मनेपदद्योत्यम् इति ।
शक्नोत्येव यच्छिक्षति (तै.सं. 2.6.2.6) -- मन्त्रे शिक्षति इति परस्मैपदप्रयोगः छान्दसः - ’ व्यत्ययो बहुलम् ’ पा । रूपं तु ’शक्लृ शक्तौ’ इत्यस्मादेव । न तु ’ शिक्ष विद्योपादाने ’ इत्यस्मात् ।
So the term शिक्षते has got two different roots and meanings .
धन्यो,स्मि