पुरोहितगोत्रप्रवरयोराचार्यगोत्रप्रवरयोश्चाज्ञाने तु स्मृत्यन्तरे--
"आचार्यगोत्रप्रवरानभिज्ञस्तु द्विजः स्वयम् । |
दत्त्वाऽऽत्मानं तु कस्मैचित्तद्गोत्रप्रवरो भवेत्' इति । |
अत्राऽऽचार्यग्रहणं पुरोहितोपलक्षणम् । आचार्यशब्देन निषेकादिक्रियाकर्ता द्विज इतिश्रवणाद्ब्राह्मणक्षत्त्रियवैश्यानां विधिः ।
यत्तु--'गोत्रस्य त्वपरिज्ञाने काश्यपं गोत्रमुच्यते' ।
~संस्काररत्नमाला (भागः १) ग्रन्थकर्ता भट्टगोपीनाथदीक्षितः द्वादशं प्रकरणम्