नमो विद्वद्भ्यः
What is the problem ?
confusing - in the first instance (a) there is marking for a हल् also whereas in the second (b) there is marking only for the first letter -- marking is for अनुदात्त ।
Why such an error occured ? The person arranging the स्वरsigns (in the case of 'a') does not have the knowledge of 'स्वर’ ।
Wht does it mean ?
स्वर is applicable only to अच् - not हल् ।
परिभाषा (80) -- स्वरविधौ व्यञ्जनम् अविद्यमानवत् ।
Is this परिभाषा - ज्ञापकसिद्धा or वाचनिकी ? both --
ज्ञापकसिद्धा -
स्वरोद्देश्यकविधौ इत्यर्थः । ’ नोत्तरपदे’नुदात्तादावपृथिवीरुद्रपूषमन्थिषु पा 6-2-142 इतिसूत्रे पृथिव्यादिपर्युदासः अस्याः ज्ञापकः ।
अन्यथा पृथिव्यादीनाम् अनुदात्ताभावात् प्रकृतिस्वरस्य अप्राप्तौ तद्वैयर्थ्यं स्पष्टमेव ।
पृथिवी etc have व्यञ्जनम् at the beginning - स्वर is अज्धर्म - so in cases like द्यावापृथिवी जनयन् etc thte प्रकृतिस्वर
will not come - so this निषेध becomes व्यर्थ and is ज्ञापक of this परिभाषा ।
वाचनिकी -
महाभाष्यम् - समासस्य (6-1-223 , समासस्य अन्त उदात्तः) - वार्तिकम् -- हल्स्वरप्राप्तौ वा व्यञ्जनमविद्यमानवत् । भा - अथवा हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवत् इत्येषा परिभाषा कर्तव्या ।..... आचार्यप्रवृत्तिर्ज्ञापयति - तत्र सिद्धं तद्भवति व्यञ्जनादेर्व्यञ्जनान्ताच्चेति,
यदयं नोत्तरपदे’नुदत्तादावित्युक्त्वा’ अपृथिवीरुद्रपूषमन्थिषु’ इति प्रतिषेधं शास्ति ।
उच्चैरुदात्तः , नीचैरनुदात्तः (1-2-29,30) - भा - यद्यनुवर्तते (अचः) ’हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवति’ इत्येषा परिभाषा न प्रकल्पते।
कथं हलो नाम स्वरप्रप्तिः स्यात् ? एवं तर्हि निवृत्तम् । बहून्येतस्याः परिभाषायाः प्रयोजनानि ।
.... नैते व्यञ्जनस्य गुणाः , किन्त्वच एव । तत्सामीप्यात्तु व्यञ्जनमपि तद्गुणमुपलभ्यते । तद्यथा - द्वयो रक्तयोर्वस्त्रयोर्मध्ये शुक्लं वस्त्रं तद्गुणमुपलभ्यते । बदरपिटके रिक्तको लोहकंसः तद्गुण उपलभ्यते ।
शुक्लयजुःप्रातिशाख्ये - स्वरो’क्षरम् , सहाद्यैर्व्यञ्जनैः ।
तैत्तिरीयप्रातिशाख्ये - व्यञ्जनं स्वराङ्गम् ।
धन्यो’स्मि
Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741