In the Brihadaranyaka.Up. 1.4.6. Bhashyam there is a discussion on the status of Hiranyagarbha, also known as Brahma, Prajapati, etc:
अत्र विप्रतिपद्यन्ते — पर एव हिरण्यगर्भ इत्येके ; संसारीत्यपरे । पर एव तु मन्त्रवर्णात् — ‘इन्द्रं मित्रं वरुणमग्निमाहुः’ (ऋ. १ । १९४ । ४६) इति श्रुतेः ; ‘एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवाः’ (ऐ. उ. ३ । १ । ३) इति च श्रुतेः ; स्मृतेश्च — ‘एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्’ (मनु. १२ । १२३) इति, ‘योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ’ (मनु १ । ७) इति च । संसार्येव वा स्यात् — ‘सर्वान्पाप्मन औषत्’ (बृ. उ. १ । ४ । १) इति श्रुतेः ; न ह्यसंसारिणः पाप्मदाहप्रसङ्गोऽस्ति ; भयारतिसंयोगश्रवणाच्च ; ‘अथ यन्मर्त्यः सन्नमृतानसृजत’ (बृ. उ. १ । ४ । ६) इति च, ‘हिरण्यगर्भं पश्यत जायमानम्’ (श्वे. ४ । १२) इति च मन्त्रवर्णात् ; स्मृतेश्च कर्मविपाकप्रक्रियायाम् — ‘ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः’ (मनु. १२ । ५०) इति । अथैवं विरुद्धार्थानुपपत्तेः प्रामाण्यव्याघात इति चेत् —
न, कल्पनान्तरोपपत्तेरविरोधात् । उपाधिविशेषसम्बन्धाद्विशेषकल्पनान्तरमुपपद्यते । ‘आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’ (क. उ. १ । २ । २१)इत्येवमादिश्रुतिभ्यः उपाधिवशात्संसारित्वम् , न परमार्थतः । स्वतोऽसंसार्येव । एवमेकत्वं नानात्वं च हिरण्यगर्भस्य । तथा सर्वजीवानाम् , ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति श्रुतेः । हिरण्यगर्भस्तूपाधिशुद्ध्यतिशयापेक्षया प्रायशः पर एवेति श्रुतिस्मृतिवादाः प्रवृत्ताः । संसारित्वं तु क्वचिदेव दर्शयन्ति । जीवानां तूपाधिगताशुद्धिबाहुल्यात्संसारित्वमेव प्रायशोऽभिलप्यते । व्यावृत्तकृत्स्नोपाधिभेदापेक्षया तु सर्वः परत्वेनाभिधीयते श्रुतिस्मृतिवादैः ॥
Here is a translation of the Bhashya in English:
Anandagiri says for the highlighted line: कस्तर्हि हिरण्यगर्भे विशेषो येनासावस्मदादिभिरुपास्यते तत्राह – हिरण्यगर्भस्त्विति | ननु श्रुतिस्मृतिवादेषु क्वचित्तस्य संसारित्वमपि प्रदर्श्यते, सत्यं तत्तु कल्पितमित्यभिप्रायेणाह – संसारित्वं त्विति |
Translation/gist: What excellence is there in Hiranyagarbha that makes him worthy of worship* by beings such as we? The reply is as stated by Shankara:हिरण्यगर्भस्तूपाधिशुद्ध्यतिशयापेक्षया प्रायशः पर एवेति श्रुतिस्मृतिवादाः प्रवृत्ताः । [Hiraṇyagarbha, possessing limiting adjuncts of extraordinary purity, is described by the Śrutis and Śmṛtis mostly as the Supreme Self]. Objection: In the scriptures sometimes he is spoken of as samsarin? Reply: That is true, but that is a concoction.
I had discussed this some years ago here:
https://adbhutam.wordpress.com/2018/03/10/the-status-of-hiranyagarbha-as-per-shankara-and-others/
--
You received this message because you are subscribed to the Google Groups "advaitin" group.
To unsubscribe from this group and stop receiving emails from it, send an email to advaitin+u...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/advaitin/CAKk0Te3tc5MSD4jLAkULbsyfh%3D_zRQrtg6CRp-nNxBDCrgROmg%40mail.gmail.com.