Courtesy:Sri.Bryan Hill
=================
The following is a text named shrIlaxmInR^isiMhahR^idayastotra, purporting to be from the bhavishhyottara - purANa. I do not, as of now, declare it a late composition, but I cannot vouched as to the antiquity of this stotra, due to verses 21 - 22 (mention of the gopAlatApanIya) and verse 45 which is subject to interpretation. Later research may establish its status:
अस्य श्रीलक्ष्मीनृसिंह हृदय महामन्त्रस्य प्रह्लाद ऋषिः श्रीलक्ष्मीनृसिंहो देवता अनुष्टुप छन्दः ममेप्सितार्थे पारायणे विनियोगः ॥
करन्यासः
ॐ श्रीलक्ष्मीनरसिंहाय अंगुष्ठाभ्यां नमः ।
ॐ वज्रनखाय तर्जनीभ्यां नमः ॥
ॐमहारूपाय मध्यमाभ्यां नमः ।
ॐ सर्वतोमुखाय अनामिकाभ्यां नमः ॥
ॐ भीषणाय कनिष्ठिकाभ्यां नमः ।
ॐ वीराय करतलकरपृष्ठाभ्यां नमः ॥
हृदयन्यासः
ॐ श्रीलक्ष्मीनृसिंहाय हृदयाय नमः ।
ॐ वज्रनखाय शिरसे स्वाहाः ॥
ॐ महारूपाय शिखायै वषट् ।
ॐ सर्वतोमुखाय कवचाय हुम् ॥
ॐ भीषणाय नेत्रत्रयाय वौषट् ।
ॐ वीराय अस्त्राय फट् ॥
अथ ध्यानम्
ॐ सत्यं ज्ञानदिव्यं सुखं क्षीराम्भोनिधि मध्यगम् ।
योगरूढं प्रसन्नास्य नानाभूषणभूषितम् ॥
महाचक्रं महाविष्णुं त्रिनेत्रं च पिनाकिनम् ।
श्वेताहिवासं श्वेतांगं सूर्यचन्द्रादिपार्श्वगम् ॥
श्रीनृसिंहं सदा ध्यायेत् कोटिसूर्यसमप्रभम् ।
ॐ नमो भगवते नरसिंहाय देवाय नमः ॥
अथ स्तोत्रं
श्रीनृसिंहः परंब्रह्म श्री नृसिंहः परं शिवः । नृसिंहः परमोविष्णुः नृसिंहस्सर्वदेवताः ॥१॥
नृशब्देनोच्यते जीवः सिंहशब्देन च स्वरः । तयोरैक्यं श्रुतिप्रोक्त य पश्यति स पश्यति ॥२॥
नृसिंहदेव जायन्ते लोकाः स्थावरजंगमाः । नृसिंहेनैव जीवन्ति नृसिंहे प्रविशन्ति च ॥३॥
नृसिंहोविश्वमुत्पाद्य प्रविश्य तदनन्तरम् । राजभिक्षुकरूपेण नृसिंहस्य स्मरन्ति ये ॥४॥
नृसिंहात्परमं नास्ति नृसिंह कुलदैवतम् । नृसिंह भक्ता ये लोके ते ज्ञानिन इतीरिताः ॥५॥
विरक्ता दयया युक्तास्सर्वभूत समेक्षणाः । न्यस्तसंसारा नृसिंह प्राप्नुवन्ति ते ॥६॥
महात्म्यं यस्य सर्वेऽपि वदन्ति निगमागमाः । नृसिंहः सर्वजगतां कर्त्ता भोक्ता न चापरः ॥७॥
नृसिंहो जगतां हेतुः बहिर्यायाऽवलम्बनः । मायया वेदितात्मा च सुदर्शन समाक्षराः ॥८॥
वासुदेवो माययातीतो नारायण समप्रभः । निर्मलो निरहंकारो निर्मलेयः निरञ्जनः ॥९॥
सर्वेषां चापि भूतानां हृदयाम्भोज वासकः । अप्रेष्ठः सदानन्दो निर्विकारो महामतिः ॥१०॥
चराचर स्वरूपी च चराचरनियामकः । सर्वेश्वर सर्वकर्त्ता सर्वात्मा सर्वगोचरः ॥११॥
नृसिंह एव यः साक्षात् प्रत्यगात्मा न संशयः । केचिन्मूढा वदन्त्येवमवतारमनीश्वरम् ॥१२॥
नृसिंह परमात्मानं सर्वभूतनिवासिनम् । तेषां दर्शनमात्रेण सूर्यस्यावलोकन भवेत् ॥१३॥
सर्वं नृसिंह एवेति संग्रहात्मा सुदुर्लभः । नारसिंहः परं दैवं नारसिंहो जगद्गुरुः ॥१४॥
नृसिंहेति नृसिंहेति प्रभाते ये पठन्ति च । तेषां प्रसन्नो भगवान् मोक्षं सम्यक् प्रयच्छति ॥ १५॥
ओंकारेभ्यो नित्यात्मा ओंकारैक प्रबोधितः । ओंकारो मन्त्रराजश्च लोके मोक्षप्रदद्वयम् ॥१६॥
नृसिंहभक्ता ये लोके निर्भया निर्विकारकाः । तेषां दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥१७॥
सकारो जीववाची स्यात् इकारः परमेश्वरः । हकाराकारयोरैक्यं महावाक्यं ततो भवेत् ॥१८॥
ओंकारजा प्रेतमुक्तिः काश्यां मरणं तथा । नृसिंह स्मरणादेव मुक्तिर्भवति नान्यथा ॥१९॥
तस्मात्सर्व प्रयत्नेन मन्त्रराजमिति ध्रुवम् । सर्वेषां चापि वेदानां देवतानां तथैव च ॥२०॥
सर्वेषां चापि शस्त्राणां तात्पर्यं नृहरौ हरौ । श्रीरामतापनीयस्य च गोपालस्यापितापिनः ॥२१॥
नृसिंहतापनीयस्य कलां नार्हति षोडशीम् । श्रीमन्मन्त्रराजस्य नृसिंहस्य प्रसादतः ॥२२॥
श्रीनृसिंहो नमस्तुभ्यं श्रीनृसिंहः प्रसीद मे । नृसिंह भगवान् माता श्रीनृसिंहः पिता मम ॥२३॥
नृसिंहो मम पुत्रश्च नरकात् त्रायते यतः । सर्वदेवात्मकायश्चायं नृसिंहः परिकीर्त्तितः ॥२४।
अश्वमेधसहस्राणि वाजपेयशतानि च । काशीरामेश्वरादीनि फलान्यपि निशम्य च ॥२५॥
यावत् फलं समाप्नोति तावदाप्नोति मन्त्रतः । षण्णवत्यश्च करणीयावती तृप्तिरिष्यते ॥२६॥
पितृणां तावती प्रीतिः मन्त्रराजस्य जायते । अपुत्रस्य गतिर्नास्ति इति श्रुत्वा यदीरितम् ॥२७॥
तत्तु लक्ष्मीनृसिंहस्य भक्तिरिकतैक गोचरम् । सर्वाणि तर्कमीमांसाशास्त्राणि परिहाय वै ॥२८॥
नृसिंहस्मरणाल्लोके तारकं भवतारकम् । अपार भववाराब्धौ सततं पततां नृणाम् ॥२९॥
नृसिंहःमन्त्रराजोऽयं नाविकः भाष्यते बुधैः । यमपाशेन बद्धानां पङ्गु वै तिष्ठतां नृणाम् ॥३०॥
नृसिंहः मन्त्रराजोऽयं ऋषयः परिकीर्त्तितः । भवसर्पेण दंष्ट्रानां विवेकगत चेतसाम् ॥३१॥
नृसिंहः मन्त्रराजोऽयं गारुडोमन्त्रोच्यते । अज्ञान तमसां नृणामन्धवद् भ्रान्त चक्षुषाम् ॥३२॥
नृसिंहः मन्त्रराजोऽयं प्रयासं परिकीर्त्तितः । तापत्रयाग्निदग्धानां छायासंश्रयभिच्छताम् ॥३३॥
नृसिंहमन्त्रराजस्य भक्तमअनस पंजरम् । नृसिंहो भास्करो भूत्वा प्रकाशयति मन्दिरम् ॥३४॥
वेदान्तवनमध्यस्था हरिणी मृग इष्यते । नृसिंह नीलमेघस्य संदर्शन विशेषतः ॥३५॥
मयूर भक्त नअमानो नृत्यन्ति प्रीति पूर्वकम् । अन्यत्र निर्गता वाला मातरं परिलोकय ॥३६॥
यथा यथा हि तुष्यन्ते नृसिंहस्यावलोकनात् । श्रीमन्नृसिमह पादाब्ज महारङ्गप्रवेशितः ॥३७॥
मदीय बुद्धि वनिता नटी नृत्यति सुन्दरी । श्रीमन्नृसिंह पादाब्ज मधु पीत्वा मदोन्मदः ॥३८॥
मदीया बुद्धिमालोक्य मूढा निन्दन्ति माधवम् । श्रीमन्नृसिंह पादाब्जरेणुं विधिसुभक्षणम् ॥४०॥
मदीयचित्तहंसोऽयं मनोवश्यं न याति मे । श्रीनृसिंहः पिता मह्यं माता च नरकेशरी ॥४१॥
वर्त्तते तावुभौ नित्यं रौवहं परियामि वै । सत्यं सत्यं पुनः सत्यं नृसिंहः शरणम् मम ॥४२॥
अहोभाग्यं अहोभाग्यं नारसिंहो गतिर्मम । श्रीमन्नृसिंह पादाब्जद्वन्द्वं मे हृदये सदा ॥४३॥
वर्त्ततां वर्त्ततां नित्यं दृढभक्तिं प्रयच्छ मे । नृसिंह तुष्टो भक्तोऽयं भुक्तिं मुक्तिं प्रयच्छति ॥४४॥
नृसिंह हृदयं यस्तु पठेन्नित्यं समाहितः । नृसिंहत्वं समाप्नोति नृसिंहः सम्प्रसीदति ॥४५॥
त्रिसन्ध्यं यः पठेन्नित्यं मन्दवारे विशेषतः । राजद्वारे सभास्थाने सर्वत्र विजयी भवेत् ॥४६॥
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् । इह लोके शुभान् कामान् परत्र च पराङ्गतिम् ॥४७॥
॥ इति भविष्योत्तरपुराणे प्रह्लादकथितं श्रीश्रीलक्ष्मीनृसिंहहृदयस्तोत्रं सम्पूर्णम् ॥
knr