नमस्करोमि हर्षमहाभाग,
एतादृशं कार्यमस्माभिः क्रियमाणम् अस्ति, प्रारम्भावस्थायामेवास्ते -
अत्र वीक्षताम्। भवता database + web-server + web UI इति त्रैभागिकी व्यवस्थेष्टा। भवद्वचनैश्चानुमामि यद् भवान् python-भाषाम् विशिष्येच्छति। अस्त्वेवम्। मम सूचनाः -
* database - couchdb (यतोऽस्त्यत्राभवोऽस्माकम्, प्रतिकृतिरचनाबलमत्र वृद्धम् …)। database-neutrality यदीष्यते, तर्हि
एतन्मुखेन प्रयुनक्तु।
* web-server - flask restplus
* web-UI - यत्किञ्चिदिष्टम् (मम polymer रोचते)।
तथा प्रयोक्तृ-प्रवेशः (login) इत्यादौ oauth2 इत्युत्तमम्, सरलञ्च।
(पदच्छेदादिकम् यान्त्रिकरीत्या लब्धुं शक्यम् प्रसिद्धकृतीनाम्।)