एवं बहवः अन्ये च बहु साहित्यं दोषभूयिष्ठं निर्मान्ति। यदि वयं तत् तथैव त्यजामः, किं गच्छता कालेन संस्कृतस्य हानिरेव न जायेत?
एतत्तु कालिदासस्य वा वाल्मीकेः विष्णुशर्मणो वा न करणीयमिति वयं सर्वे जानीमः।
मित्रस्य विश्वासस्य मार्गदर्शनेन मम ’जे.एन्.यू.’-कार्यदर्शनं जातं किञ्चित्। अमरकोषस्य अन्वेषणं ’विपश्चित्’ इति पदस्य समानपदानि बहूनि आनयत्। बाढम्। तेषां सन्धितन्त्रं मया किञ्चिदिव उपयुक्तम्। तत्र ’योत्स्य इति’, ’चित्तलयस्सदा’ इति उट्टङ्कनं यन्मया कृतं तस्य द्वयस्य उत्तरं तृप्तिकरं न आसीत्।
एतत् करणीयं मया इति चिन्तयन्तु भवन्तः। दर्शकः स्वस्य स्तरम् अल्पम् इति सूचितवान् इत्यपि चिन्तयत। ’सः एनं जगाद’ इति पुस्तके अस्ति कुत्रचित् मूलवाक्यम्। तत्र वाक्यविश्लेषणं कृत्वा क्रियापदं (तत्सम्बद्धं वा) -
१) ’जगाद’ इति पदं प्राप्य - ’गद’ धातोः तत् लिड्रूपम् इति ज्ञातव्यं प्रथमम्।
२) अनन्तरं धातु-डाटाबेसं दृष्ट्वा, ’गद’ धातुः तथा प्रसिद्धः न, यथा समानार्थक-’वच’-धातुः इति जानीयात् मम तन्त्रांशः (साफ्ट्वेर्)।
३) तथैव लिटः अपेक्षया क्तवतु-रूपं आरम्भे सुलभतरम् इति जानाति एव। एतज्ज्ञानं तत्र पूर्वमेव ’प्रोग्राम्’-मध्ये निविष्टं स्यात्।
४) ’वच’-धातोः ’उक्तवान्’ इति तद्रूपम् इति तन्त्रांशः पुनः जानीयात् तमेव ’डाटाबेसं’ वा अपरं वा सम्पृच्य।
’सः’ इति पदस्य अन्वेषणं कृत्वा - अन्यानि सर्वाणि पदानि एतस्य अपेक्षया विरलानि इति सञ्ज्ञाय, परिवर्तनं नावश्यकं इति जानीयात्।
’एनं’ इति पदस्य मूलरूपम् ’एनम्’ इति, तत्परं प्रातिपदिक-डाटाबेसं सम्पृच्य, तस्य प्रातिपदिकम् ’एतद्’ इति विज्ञाय, तत्र द्वितीयायां एतत् पदं द्वितीय-स्थाने अस्ति इति ज्ञात्वा, तस्य ’एतम्’ इति प्रचुरतरं प्रथमपदम् आनीय
’सः एनं जगाद’ इति वाक्यस्य ’सः एतम् उक्तवान्’ इति दर्शयेत् खलु?
प्रायशः एतत् सर्वं इदानीन्तनस्थित्यनुगुणं कष्टकरं किम्?
विचार्यताम् सहकारिभिः!
All this would require effective API calls to existing tools. (These tools don't seem to be robust due to various reasons.) Which means we require cooperation with the original authors. Most of the original authors seem to be MPhil or PhD scholars in Samskritam.
Also, all these tools might be developed on several platforms, integrating which could be a stupendous task.
Most of the software that is available seems to assume that the user is knowledgeable. For example, one tool by JNU asked me to give 'prAtipadikam' and 'lingam'. (Samskrita Bharati's learner doesn't even know what these terms are.) Then it would show the 'Sabdah'.
Our approach is to help learners. Our tools should answer the users, in place of asking them questions. While reading a book, a learner comes across a word say 'mahyam', A tool which tells him that it is 4th case of 'aham' and shows a few popular usages of this word can possibly quicken the pace of his/her learning. (It is another matter that we are catering to computer-savvy at the moment. But soon, such an app can be on mobiles opening the doors to effective Samskrit learning to one and all.)I am hoping to receive some feedback from other learned friends. Let us wait, while I use you all as a sounding board for our ideas.भवदीयः,
कृपालुः
एतत् करणीयं मया इति चिन्तयन्तु भवन्तः। दर्शकः स्वस्य स्तरम् अल्पम् इति सूचितवान् इत्यपि चिन्तयत। ’सः एनं जगाद’ इति पुस्तके अस्ति कुत्रचित् मूलवाक्यम्। तत्र वाक्यविश्लेषणं कृत्वा क्रियापदं (तत्सम्बद्धं वा) -