Re: संस्कृतविकिस्रोतः

9 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 9, 2016, 11:46:50 AM3/9/16
to shubha zero, sanskr...@googlegroups.com, dhaval patel, sanskrit-programmers
+sanskrit-ocr इत्यस्माकीनस् समूहः सूचनार्थम्, यो भवत्यास् समावेशस्य योग्यः।
+ धवलो यमन्वेत्य् अत्र कश्चिदंशः।
+ sanskrit-programmers, येषाम् अत्र क्वचित् साहाय्यमपेक्षितम्।
​​
मान्ये शुभे,

सादरं नमामि! अत्र ममोत्सवः पठनेन भवत्याः पत्रस्य कार्योत्साहपूर्णस्य। sanskritnlpbot नामकं यन्त्रं ध्रुवं मयैव सृष्टम्। न केवलं ’गणरत्नमहोदधि’ग्रन्थस्य, अभ्यङ्करकोशस्याऽपि (
wikisource index) अङ्कीकृत(digitized)-पृष्ठानाम् उपारोपणं तेनैव यन्त्रेण मच्चालितेन कृतम्। अचिरादन्यान्यपि पुस्तकान्येवमेवोपारोपयिष्यन्ते (वीक्षतामत्र)। सर्वमिदम् https://sites.google.com/site/sanskritcode/ocr/0-introduction इति योजनान्तर्गतत्वेन क्रियमाणम्। 

युष्माकमपि यथेप्सितम् अङ्कीकरणे वा अङ्कीकृतपृष्ठानां यन्त्रैर् उपारोपणे वा साहाय्यं कर्तुं स्मो वयं कटिबद्धाः। केवलं भवद्भिः प्राक्सूचितजालपुटे निर्दिष्टया रीत्या ऽऽदेष्टव्या वयम्।

​​"
भवता wiki commons मध्ये ग्रन्थः यदा योज्यते कृपया देवनागर्या एव नाम लिख्यताम् । उदा - गणरत्नमहोदधि - इत्येव भवतु । तदा एव विकिस्रोतसि नाम समीचीनतया भवति ।"
​​ इति यदुक्तं तद्युक्तम्। किञ्चात्रोपारोपकोऽसौ मम मित्रं धवलो, नाहम्। शृणु मित्र धवल तदिदं भविष्यत्कर्मस्व् अनुसरणार्हम्। अधुना त्व् अन्ततो गत्वा 
https://github.com/sanskrit-coders/sanskrit-ocr-r0/issues/4#issuecomment-190304538​ इत्यत्रोक्तरीत्या transclusion इत्यान्तिमकर्म सुष्ठु कर्तुं शक्यम्। 
 ​

बेङ्गळूरुनगरे विद्यमाना तन्त्रिकास् सूचिता एवास्माभिः कर्मण आराम्भे ( 
https://groups.google.com/forum/#!topic/sb_it/jUv-chUc_wk इति दृष्यताम्)।
​ किञ्च
​​ न तत कश्चित् सहकारेणैतावदस्मान् अन्वग्रहीत्।

सन्त्यस्माकम् अन्या अपि योजना येषु स्याद् भवताम् आसक्तिः, यथा - यन्त्रेण केनचित् wiktionaryजालक्षेत्रे भिन्नकोशेभ्योऽस्माभिस् (
stardict-sanskrit project 
​इत्यत्र​
) सङ्गृहीतेभ्यो
​ शब्दार्थानां प्रकाशनम्।

अत्रेतादृशेषु विषयेषु भवतां साहाय्यम् अत्यन्तमपेक्षितम् -
  ​
  • ​wiktionary, wikisource इत्यादौ भवत्सु कश्चिद् अस्त्येव administrator पदवौ (यथा दृश्यते ऽत्रा ऽत्र च)। किन्तु नालं तेन। केनचित् beareaucrat पदव्य् अपि गृहीतव्या।
    ​ तेन किं प्रयोजनमित्युक्ते - अस्मादृशां तान्त्रिकाणां यन्त्राणि वेगतरगत्या कार्यरतानि भवितुम् परीक्ष्य युष्माभिर् अनुमन्तुं शक्यानि यन्त्रोपाधि(=bot flag)दानेन। सद्यस् तु https://meta.wikimedia.org/wiki/Steward_requests/Bot_status#sanskritnlpbot.40sawikisource इत्यत्र बहु प्रतीक्षणीयम्। भवद्भिरस्मिन् दिशि विशेषः प्रयत्नो विधेयः। यद्यपेक्षितः कश्चिदनयोः पात्रयोस् संवाहे, सोऽयं जनस् सिद्धः।
  • अत्र ध्रुवं सर्वैरप्य् अनुमोदः प्रकटनीयः - 
    ​। कथं नाम -  अत्र गत्वा  ​" : : {{दृढाङ्गीकारः}} ~~~~ " इति पङ्क्तिर् योजनीया। (+sanskrit-programmers)



2016-03-08 23:28 GMT-08:00 shubha zero <shubh...@gmail.com>:
विस्वासो वासुकिवर्य,
प्रणामाः ।

अहं शुभा - संस्कृतविकिस्रोतसि कार्यरता । (अक्षरम्, संस्कृतभारती)

’गणरत्नमहोदधि’ग्रन्थस्य विषययोजनकार्यं भवता sanskritnlpbot - नाम्ना क्रियमाणं दृष्टवती । अस्माभिः google OCR द्वारा किंचिदिव परिवर्तनकार्यम् आरब्धम् । किन्तु तथा कार्यस्य गतिः अधिका न भवति ।

अस्माभिः तु बहवः ग्रन्थाः स्रोतसि योज्यमानाः सन्ति । तस्य परिवर्तनकार्यं कथं वेगेन साधयितुं शक्येत इत्यत्र भवतः मार्गदर्शनमपेक्षितम् । कृपया सूच्यताम् ।

अन्यत् किंचित् निवेदनम् । भवता wiki commons मध्ये ग्रन्थः यदा योज्यते कृपया देवनागर्या एव नाम लिख्यताम् । उदा - गणरत्नमहोदधि - इत्येव भवतु । तदा एव विकिस्रोतसि नाम समीचीनतया भवति ।

बेङ्गलूरुनगरे विद्यमानाः तन्त्रज्ञाः केपि अस्माकं साहाय्यं कर्तुमर्हन्ति चेत् कृपया सूचयतु ।

धन्यवादः
शुभा



--
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
0 new messages