गीतायाः १-३६-तमे श्लोके क्त्वान्तल्यबन्तयोः कर्तृपदौ कौ ?

16 views
Skip to first unread message

अभ्यंकरकुलोत्पन्नः श्रीपादः

unread,
Jan 13, 2015, 4:58:06 AM1/13/15
to sams...@googlegroups.com
गीतायां श्लोकः १-३६

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।

पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ।।३६।।


पदच्छेदैः -

निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दन ।

पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः ।।३६।|


अन्वयौ -

  1. जनार्दन, धार्तराष्ट्रान् निहत्य नः का प्रीतिः स्यात् ?
  2. एतान् आततायिनः हत्वा अस्मान् पापम् एव आश्रयेत्
प्रथमे वाक्ये निहत्य-ल्यबन्तस्य कर्तृपदं किम् ?
तथैव हत्वा-क्त्वान्तस्य
कर्तृपदं किम् ?

Ramakrishnan D

unread,
Jan 13, 2015, 5:08:48 AM1/13/15
to sams...@googlegroups.com

(१) प्रीतिः 

(२) पापम् 


--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

अभ्यंकरकुलोत्पन्नः श्रीपादः

unread,
Jan 13, 2015, 6:34:56 AM1/13/15
to sams...@googlegroups.com
मम संशयः तु ल्यबन्तस्य वा क्त्वान्तस्य प्रयोजनविषये भवति |
ल्यबन्तयुक्ते वा क्त्वान्तयुक्ते वाक्ये द्वौ धातू भवतः | तयोः कर्तृपदे समाने एव भवितव्ये | अस्मिन् श्लोके तु कर्तृपदे समाने न दृश्यन्ते | एवं सति, ल्यबन्तस्य वा क्त्वान्तस्य प्रयोजनं समीचीनं वा ? इत्येव संशयः |
कर्तृपदे समाने न दृश्यन्ते इति ममावलोकनम् | तदवलोकनं समीचीनं वा न वा एतज्ज्ञातुं प्रथमं पृष्टं के कर्तृपदे इति |
सस्नेहम्
अभ्यंकरकुलोत्पन्नः श्रीपादः ।
"श्रीपतेः पदयुगं स्मरणीयम् ।"



2015-01-13 15:43 GMT+05:30 Himanshu Pota <himans...@gmail.com>:
हतः हिंसागत्योः - हतः हतवान् हत्वा निहत्य हन्तुम् हन्तव्यम्  

Is this what you were looking for?

2015-01-13 20:58 GMT+11:00 अभ्यंकरकुलोत्पन्नः श्रीपादः <sanskr...@gmail.com>:
गीतायां श्लोकः १-३६

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।

पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ।।३६।।


पदच्छेदैः -

निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दन ।

पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः ।।३६।|


अन्वयौ -

  1. जनार्दन, धार्तराष्ट्रान् निहत्य नः का प्रीतिः स्यात् ?
  2. एतान् आततायिनः हत्वा अस्मान् पापम् एव आश्रयेत्
प्रथमे वाक्ये निहत्य-ल्यबन्तस्य कर्तृपदं किम् ?
तथैव हत्वा-क्त्वान्तस्य
कर्तृपदं किम् ?





--
Himanshu Pota


अभ्यंकरकुलोत्पन्नः श्रीपादः

unread,
Jan 13, 2015, 6:59:37 AM1/13/15
to Madhav Deshpande
साधु स्पष्टीकृतं देशपाण्डे-महोदय ! धन्यवादाः खलु |
विचारयन्नस्मि ल्यबन्तस्य वा क्त्वान्तस्य प्रयोगादृते सति-सप्तमी-प्रयोगः समीचीनतरः वा ?
सस्नेहम्
अभ्यंकरकुलोत्पन्नः श्रीपादः ।
"श्रीपतेः पदयुगं स्मरणीयम् ।"

2015-01-13 17:11 GMT+05:30 Madhav Deshpande <mmd...@umich.edu>:
Dear Shri Abhyankar,

     These are interesting examples, which seem similar to Bhāsa's usage: smṛtvā smṛtvā yāti duḥkham navatvam.  These would superficially seem to violate the samānakartṛkatva rule of Panini.  On a deeper semantic level, one could argue that there is still a shared agent (kartā).  What form would the kartā take, if we have to mention this agent explicitly.  I would think it would be something like: vayam dhārtarāṣṭrān nihatya ... and vayam etān hatvā.  While such examples are very rare, there are a few examples.  For instance, the Śatapatha Brāhmaṇa says: te paśavaḥ oṣadhīḥ jagdhvā āpaḥ pītvā tataḥ eṣa rasaḥ sambhavati.  Here we have a nominative form paśavaḥ for the agent of jagdhvā and pītvā.  Best,

Madhav Deshpande

2015-01-13 15:28 GMT+05:30 अभ्यंकरकुलोत्पन्नः श्रीपादः <sanskr...@gmail.com>:
गीतायां श्लोकः १-३६

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।

पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ।।३६।।


पदच्छेदैः -

निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दन ।

पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः ।।३६।|


अन्वयौ -

  1. जनार्दन, धार्तराष्ट्रान् निहत्य नः का प्रीतिः स्यात् ?
  2. एतान् आततायिनः हत्वा अस्मान् पापम् एव आश्रयेत्
प्रथमे वाक्ये निहत्य-ल्यबन्तस्य कर्तृपदं किम् ?
तथैव हत्वा-क्त्वान्तस्य
कर्तृपदं किम् ?



--
Madhav M. Deshpande
Professor of Sanskrit and Linguistics
Department of Asian Languages and Cultures
202 South Thayer Street, Suite 6111
The University of Michigan
Ann Arbor, MI 48104-1608, USA

Reply all
Reply to author
Forward
0 new messages