रामैव इति शक्यं वा

26 views
Skip to first unread message

mukesh patel

unread,
Jun 13, 2016, 7:17:53 AM6/13/16
to samskrita
राम: एव 

राम एव


अत्र पुनः रामैव इति भवितुं अर्हति वा ?

Sivakumari Katuri

unread,
Jun 13, 2016, 8:11:22 AM6/13/16
to sams...@googlegroups.com

न भवति, पूर्वत्रासिद्धमिति सूत्रेण लुप्तस्यासिद्धत्वात् अकारस्य एच्परत्वं न सम्भवति, तस्मात् वृद्धिः न.

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

mukesh patel

unread,
Jun 13, 2016, 8:38:58 AM6/13/16
to samskrita
प्राप्ते समये अयम् सूत्र: निवेद्याताम् |

Hnbhat B.R.

unread,
Jun 13, 2016, 9:47:07 AM6/13/16
to sams...@googlegroups.com

On Mon, Jun 13, 2016 at 6:08 PM, mukesh patel <thehal...@gmail.com> wrote:
प्राप्ते समये अयम् सूत्र: निवेद्याताम् |

स्वादिसन्धौ, राम+सु - १.३.२ उपदेशेऽजनुनासिक इत् ।
इत्युकारस्येत्संज्ञायाम्. १.३.९ तस्य लोपः । इति तस्य लोपः
 रामस् + एव - इति स्थिते,  ससजुषो रुः।८।२।६६। इति सकारस्य रुत्वे, 
राम-रु + एव - १.३.२ उपदेशेऽजनुनासिक इत् ।
इत्युकारस्येत्संज्ञायाम्. १.३.९ तस्य लोपः । इति तस्य लोपः
रामर् + एव > ८.३.१७ भोभगोऽघोऽपूर्वस्य योऽशि । इति यकारः।
रामय - एव > १.३.२ उपदेशेऽजनुनासिक इत् ।
                         इत्यकारस्येत्संज्ञायाम्. १.३.९ तस्य लोपः । इति तस्य लोपः।
रामय् + एव > ८.३.१९ लोपः शाकल्यस्य । इति यकारस्य पक्षे लोपे.
राम एव > इति सिद्धम्।  इदानीम्,
               ६.१.८८ वृद्धिरेचि । इति वृद्धौ कर्तव्ये. ८.३.१९ लोपः शाकल्यस्य इति यलोपस्य 
               ८.२.१ पूर्वत्रासिद्धम् । इति असिद्धत्वात्, वृद्धिर्न भवति, अतश्च रामैव इति न भवति।

सर्वाणि सूत्राणि अत्र सन्धावपेक्षितानि दत्तानि। 

रामय् + एव इति स्थिते, ८.३.१९ लोपः शाकल्यस्य । इति यकारस्य पक्षे लोपाभावे.
रामयेव इति रूपमपि सिद्धम्।

Dr.Mukesh Patel

unread,
Jun 13, 2016, 12:21:21 PM6/13/16
to sams...@googlegroups.com

धन्यवाद आर्य्य।
भूरिशो धन्यवादा:।

--
You received this message because you are subscribed to a topic in the Google Groups "samskrita" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/samskrita/mPXse5B-Too/unsubscribe.
To unsubscribe from this group and all its topics, send an email to samskrita+...@googlegroups.com.
Reply all
Reply to author
Forward
0 new messages