प्रतिबन्धकाभाव नाम किम ?

73 views
Skip to first unread message

Mandar Mali

unread,
Jul 23, 2017, 1:24:23 AM7/23/17
to samskrita
प्रतिबन्धकाभाव नाम किम ? 
कृपया अर्थं वदतु |

Nityanand Misra

unread,
Jul 23, 2017, 11:40:35 PM7/23/17
to samskrita


On Sunday, 23 July 2017 13:24:23 UTC+8, Mandar Mali wrote:
प्रतिबन्धकाभाव नाम किम ? 
कृपया अर्थं वदतु |


It is a term used in Nyaya. The absence of a preventive force or agent. It is one of the nine karana-s. Perhaps Swami Lalitalalita Ji can throw more light on this. 

Nagaraj Paturi

unread,
Jul 23, 2017, 11:56:41 PM7/23/17
to saMskRRita-sandesha-shreNiH
One of the causations:

The absence of negative counteracting conditions is called pratibandhaka abhaava. 

An entity /event is caused, among other things, because of absence of obstructions to the causation of the entity. 

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.



--
Nagaraj Paturi
 
Hyderabad, Telangana, INDIA.


BoS, MIT School of Vedic Sciences, Pune, Maharashtra

BoS, Chinmaya Vishwavidyapeeth, Veliyanad, Kerala

Former Senior Professor of Cultural Studies
 
FLAME School of Communication and FLAME School of  Liberal Education,
 
(Pune, Maharashtra, INDIA )
 
 
 

श्रीमल्ललितालालितः

unread,
Jul 24, 2017, 4:33:46 AM7/24/17
to sams...@googlegroups.com
अत्र न्यायकोशो द्रष्टुं शक्यते ।
परं तद् यद्यवगन्तुं न शक्यते तर्हि भाषान्तरेणान्यैरुक्तमुपकारि स्यादेव ।

तत्र किञ्चिदुच्यते ।
प्रतिबन्धकाभावो नाम किम् इति ज्ञातुं तत्रास्त्यंशद्वयम् इति ज्ञातव्यं - प्रतिबन्धकः अभावश्च । 
तत्र अभावस्य प्रतियोगिज्ञानाधीत्वनियमात् प्रथमम् अभावस्य प्रतियोगी ज्ञातव्यः । प्रतियोगी चात्र प्रतिबन्धकः ।
प्रतिबन्धकश्च स यो विद्यमानः सन् कार्य्यानुत्पत्तिं प्रयोजयति । अत एव कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वम् इति वदन्ति ।
यथा - वह्नेः कार्य्यं दाहः , किन्तु यदि वह्निं स्पृशता लेपविशेषस्य मन्त्रस्य मणेर्वोपयोगः क्रियते तर्हि दाहो न जायते । अत्र वह्निकार्य्यस्य दाहस्यानुत्पत्तिः लेपादिप्रयुक्ता इति लेपादयः दाहं प्रति प्रतिबन्धका इत्युच्यन्ते ।
लक्षणसमन्वयश्चेत्थं - कारणीभूतस्य = दाहस्य कारणसामग्र्यामन्तर्भूतस्य अभावस्य = लेपाद्यभावस्य प्रतियोगी यः लेपादिः , स प्रतिबन्धक इति ।

इदं प्रतिबन्धकत्वं प्रतिकार्य्यं भिन्नया रीत्या उपपाद्यते । तत्सर्व्वं न्यायकोशे द्रष्टुं शक्यते । 
--
श्रीमल्ललितया लालितः
ललितालालितः

Taff Rivers

unread,
Jul 24, 2017, 8:46:01 AM7/24/17
to samskrita

Mandar,

Re. pratibandhakābhāva

  When it comes to matters of 'evidence', one of the acceptable means is 'proof from non-existence'.

  But just what constitutes proof, will depend on one of two differing audiences.


In Vedānta - bhakti

       'since there are no mice, therefore there must be cats here'
 
       is regarded as evidence.


Gaṅgeśa's Tattvacintāmaṇi - anumāna

      'since there are no mice, therefore there must be cats here'

      is an unacceptable logical inference or nigraha-sthāna.

Regards,
  Taff


--
You received this message because you are subscribed to the Google Groups "workshop" group.
To unsubscribe from this group and stop receiving emails from it, send an email to IASTbee+u...@googlegroups.com.
To post to this group, send email to IAS...@googlegroups.com.
Visit this group at https://groups.google.com/group/IASTbee.

For more options, visit https://groups.google.com/d/optout.

Nityanand Misra

unread,
Jul 24, 2017, 10:18:59 PM7/24/17
to samskrita


On Monday, 24 July 2017 16:33:46 UTC+8, श्रीमल्ललितालालितः wrote:

अत्र न्यायकोशो द्रष्टुं शक्यते ।
परं तद् यद्यवगन्तुं न शक्यते तर्हि भाषान्तरेणान्यैरुक्तमुपकारि स्यादेव ।

तत्र किञ्चिदुच्यते ।
प्रतिबन्धकाभावो नाम किम् इति ज्ञातुं तत्रास्त्यंशद्वयम् इति ज्ञातव्यं - प्रतिबन्धकः अभावश्च । 
तत्र अभावस्य प्रतियोगिज्ञानाधीत्वनियमात् प्रथमम् अभावस्य प्रतियोगी ज्ञातव्यः । प्रतियोगी चात्र प्रतिबन्धकः ।
प्रतिबन्धकश्च स यो विद्यमानः सन् कार्य्यानुत्पत्तिं प्रयोजयति । अत एव कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वम् इति वदन्ति ।
यथा - वह्नेः कार्य्यं दाहः , किन्तु यदि वह्निं स्पृशता लेपविशेषस्य मन्त्रस्य मणेर्वोपयोगः क्रियते तर्हि दाहो न जायते । अत्र वह्निकार्य्यस्य दाहस्यानुत्पत्तिः लेपादिप्रयुक्ता इति लेपादयः दाहं प्रति प्रतिबन्धका इत्युच्यन्ते ।
लक्षणसमन्वयश्चेत्थं - कारणीभूतस्य = दाहस्य कारणसामग्र्यामन्तर्भूतस्य अभावस्य = लेपाद्यभावस्य प्रतियोगी यः लेपादिः , स प्रतिबन्धक इति ।

इदं प्रतिबन्धकत्वं प्रतिकार्य्यं भिन्नया रीत्या उपपाद्यते । तत्सर्व्वं न्यायकोशे द्रष्टुं शक्यते । 
--


“कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वम्” इत्यनुसृत्यकारणीभूताभावप्रतियोग्यभावः प्रतिबन्धकाभावः” इति वक्तुं शक्यते वेति सविनयं जिज्ञासे।


अपि , व्याकरणशास्त्रे षष्ठीविभक्तिप्रकरणेराज्ञः पुरुषः” इत्यत्र राजा प्रतियोगी पुरुषश्चानुयोगीति श्रूयते। न्यायशास्त्रे प्रतियोग्यनुयोगिनावेताभ्यां भिन्नौ वा वेत्यपि वदन्तु स्वामिचरणाः।


सादरम्

मिश्रोपाह्वो नित्यानन्दः 

श्रीमल्ललितालालितः

unread,
Jul 25, 2017, 5:47:27 AM7/25/17
to sams...@googlegroups.com

नि

“कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वम्” इत्यनुसृत्य “कारणीभूताभावप्रतियोग्यभावः प्रतिबन्धकाभावः” इति वक्तुं शक्यते  वेति सविनयं जिज्ञासे।


उचितमेव भाति यद् निरुक्तप्रतिबन्धकत्वविशिष्टस्याभावः प्रतिबन्धकाभावपदेनोच्येत ; तथापि इदं दृश्यतां -

प्रतिबन्धकत्वघटकस्य कारणीभूताभावस्य भवदुक्तस्य कारणीभूताभावप्रतियोग्यभावस्य(कारणीभूताभावप्रतियोगिनोऽभावस्य) च भेदो नास्ति , अथापि भवत्कथने गौरवं भवति । अत एव तथा नोच्यते । बोधयितुं परं तथा क्रमेण वक्तुं शक्यते ।


नि

अपि व्याकरणशास्त्रे षष्ठीविभक्तिप्रकरणे “राज्ञः पुरुषः” इत्यत्र राजा प्रतियोगी पुरुषश्चानुयोगीति श्रूयते। न्यायशास्त्रे प्रतियोग्यनुयोगिनावेताभ्यां भिन्नौ वा वेत्यपि वदन्तु स्वामिचरणाः।



अभावनिरूपणे एव प्रतियोगित्वम् अभावविरोधित्वरूपम् अनुयोगित्वञ्च अभावाधिकरणत्वरूपं भवति ।


सम्बन्धस्थले तु यद्यपि अनुयोगिप्रतियोगिशब्दप्रयोगः क्रियते तथापि तस्यार्थो न समानः ; न हि तत्र विरोधित्वमस्ति किन्तु सम्बन्ध एव । अत एव तत्र सम्बन्धिनावेव विवक्षाविशेषेण अनुयोगीति प्रतियोगीति कथ्येते । तथा हि - राज्ञः पुरुषः इत्यत्र राजपदार्थस्य विशेषणतया अन्वयित्वं यद् वर्त्तते तदेव तन्निष्ठं प्रतियोगित्वम् ; तथैव पुरुषपदार्थस्य विशेष्यतया अन्वयित्वं यद् तदेव तस्य अनुयोगित्वम् ।

--
श्रीमल्ललितया लालितः
ललितालालितः

Nityanand Misra

unread,
Jul 25, 2017, 8:01:55 PM7/25/17
to samskrita
भवद्भ्यो भूरिशो धन्यवादान् व्याहरामि। अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः इति विदितमासीत् नैयायिका अपि लाघवं बहु मन्यन्ते इति ज्ञात्वा महान् सन्तोषो जातः


Mandar Mali

unread,
Aug 2, 2017, 2:35:20 PM8/2/17
to samskrita


On Sunday, July 23, 2017 at 10:54:23 AM UTC+5:30, Mandar Mali wrote:
प्रतिबन्धकाभाव नाम किम ? 
कृपया अर्थं वदतु |


भवन्तः सर्वेषां साष्टाङ्गनमोनमः |
आभाराः | 
अधिकं संस्कृतं न जानामि किन्तु सर्वेषां वक्तव्यं दृष्ट्वा  बहु आनन्दः जात: | 
शब्दे तद वक्तव्यम् अशक्यमेव भासते |
मम महाद्भग्यं यत् सर्वे जनाः किञ्चित् समयं मम शङ्कानिरसनार्थ  दत्तवन्तः|
पुनश्च धन्यवादाः |

मन्दारः |

Reply all
Reply to author
Forward
0 new messages