Dear list members
As some of you may be already aware, HH Jagadguru Ramanandacharya Swami Ramabhadracharya is currently authoring a triple commentary on the Aṣṭādhyāyī: one in Sanskrit verse, one in Sanskrit prose, and one in Hindi prose. The work is currently in the seventh chapter of the Aṣṭādhyāyī.
The Sanskrit verse commentary is titled Rāghavatoṣiṇī. The total number of verses in the Rāghavatoṣiṇī are expected to be between 35,000 to 40,000: on average around nine or ten verses for every rule in the Aṣṭādhyāyī. Here is glimpse of the Rāghavatoṣiṇī with twenty-seven anuṣṭup verses on the rule nastaddhite (A 6-4-144). The verses explain not only the Aṣṭādhyāyī rule, but also all of Kātyāyana's vārttika-s on the rule (nakārantasya ṭilope sabrahmacāripīṭhasarpikalāpikuthumitaitilijājalilāṅgaliśilāliśikhaṇḍisūkarasdmasuparvaṇām upasaṅkhyānam, carmaṇaḥ kośe, āsmanaḥ vikāre, śunaḥ saṅkoce, avyayānām ca sāyampratikādyartham) as well as Patañjali's Mahābhāṣya on the rule. Hope the verses will satisfy the lovers of both grammar and poetry.
I keyed in the text last night based on the images of the work shared by one of the scribes, Eakraj Paudel, on his Facebook wall recently. If there are any typos, please let me know.
भसंज्ञकस्य नान्तस्य अङ्गस्यावयवः किल।
अचोऽन्त्यादि टि यत्प्रोक्तं तस्य लोपोऽस्तु तद्धिते॥ १ ॥
लक्ष्यानुरोधतः पुर्वसूत्रमत्रानुवर्तते।
अल्लोपोऽनः इतीतस्तु लोप इत्यनुकृष्यते॥ २ ॥
अङ्गस्य भस्य चेत्येतदधिकारद्वयं स्मृतम्।
तेन पूर्वपदे सूत्रे विज्ञेया हि तदन्तता॥ ३ ॥
नान्तस्य भस्य चाङ्गस्य अचोऽन्त्याद्यदनन्तरम्।
तस्य टेश्च भवेल्लोपः पाणिनेरनुशासने॥ ४ ॥
अग्निशर्मण एवेदमपत्यं यदुदीरितम्।
आग्निशर्मिः स एवायं टेर्लोपस्तद्धिते परे॥ ५ ॥
अत्र कात्यायनमतं वार्त्तिकच्छलतः किल।
प्रदर्श्यते यथाबुद्धि राघवस्यात्मतुष्टये॥ ६ ॥
सब्रह्मचारिशब्दस्य पीठसर्पिण एव हि।
कलापिनः कुथुमिनस्तैतिलिनस्तथैव च॥ ७ ॥
जाजलिनस्तथैवायं लाङ्गलिनः शिलालिनः।
शिखण्डिनस्तथैवासौ तथा सूकरसद्मनः॥ ८ ॥
सुपर्वणस्तथैवायं यो नान्तोऽवयवः स्मृतः।
टिलोपस्तस्य कर्त्तव्यः प्रत्यये तद्धिते परे॥ ९ ॥
समानो ब्रह्मचारी सब्रह्मचारी स एव हि।
तस्येमे साब्रह्मचाराश्छात्रा वैदिकपुङ्गवाः॥ १० ॥
पीठेन ये हि सर्पन्ते पीठसर्पिण एव ते।
तेषामिमे पैठसर्पा धर्माचार्यपदानुगाः॥ ११ ॥
कलापिना च ये प्रोक्तं छात्राः शास्त्रमधीयते।
कालापाश्चैव ते ख्याताः परेऽणि लोपिते च टौ॥ १२ ॥
आचार्येण कुथुमिना ये च प्रोक्तमधीयते।
कौथुमाः खलु ते प्रोक्ता वेदाध्ययनतत्पराः॥ १३ ॥
प्रोक्तं तैतिलिना तावद्ये शास्त्रं समधीयते।
तैतिलाः खलु ते ख्याताष्टिलोपे तद्धिते परे॥ १४ ॥
प्रोक्तं जाजलिना तावद्ये शास्त्रं समधीयते।
ते जाजलाः समाख्याता वटवो ब्रह्मचारिणः॥ १५ ॥
इमे लाङ्गलिनश्छात्रा लाङ्गलाः समुदाहृताः।
लाङ्गली बलभद्रो वा तद्भक्ता लाङ्गलाः स्मृताः॥ १६ ॥
शिलालिनस्त्विमे तावच्छैलालाः सेवकाः स्मृताः।
इमे शिखण्डिनो भक्ताः शैखण्डाः कृष्णवल्लभाः॥ १७ ॥
भगवान् सूकरतनुः तत्सद्मोपवसन्ति ये।
ते वै सौकरसद्माश्च भक्ता वैकुण्ठवासिनः॥ १८ ॥
सुपर्वा रामवाणोऽस्ति त्रैलोक्ये विश्रुतः खलु।
तस्यायं सम्प्रहारोऽपि सौपर्वः परिकीर्तितः॥ १९ ॥
विकारार्थेऽश्मनस्तावत्तद्धिते प्रत्यये कृते।
टिलोपश्च विधातव्य आश्मस्तेनैव सिद्ध्यति॥ २० ॥
कोशार्थे चर्मणस्तावत्प्रत्यये तद्धिते सति।
टिलोपश्च विधातव्यश्चार्मस्तेनैव सिद्ध्यति॥ २१ ॥
सङ्कोचे च शुनस्तावट्टिलोपः परिकीर्तितः।
द्वाराद्यैजागमे जाते शौनस्तेनैव सिद्ध्यति ॥ २२ ॥
सायम्प्रतिकमुख्यानामव्ययानां टिलोपनम्।
कात्यायननिदेशेन प्रत्यये तद्धिते परे॥ २३ ॥
सायम्प्रतिकभावेन सन्ध्यामचरति प्रभुः।
पौनःपौनिकता सूर्यनमस्कारे खरद्विषः॥ २४ ॥
कौतस्तुकोऽपि बाह्योऽपि राघवं शरणं गतः।
गृह्यते स यथा मित्रं तथा तत्र विभीषणः॥ २५ ॥
ट्युटुलोः परतस्तावट्टिलोपो नैव शस्यते।
आरातीयः शाश्वतिकः शाश्वतो न टिलोपभाक्॥ २६ ॥
आराच्छब्दे ततस्तावच्छश्वच्छब्दे तथैव च।
छे प्रत्यये ठकि तथा टिलोपो नाणि संश्रितः॥ २७ ॥
Regards, Nityananda