ततः सुरगणाः सर्वे पितामहपुरोगमाः |
विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् || १०||
ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः |
ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक || ११||
दीर्घमायुश्च ते ब्रह्मन्ददामि समरुद्गणः |
स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् || १२||
पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् |
कृत्वा प्रणामं मुदितो व्याजहार महामुनिः || १३||
ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च |
ओङ्कारोऽथ वषट्कारो वेदाश्च वरयन्तु माम् || १४||
क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदाम् अपि |
ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः |
यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः || १५||
ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः |
सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् || १६||
ब्रह्मर्षित्वं न सन्देहः सर्वं सम्पत्स्यते तव |
इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् || १७||
विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम् |
पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम् || १८||
Even after Brahma proclaimed Viswamitra as Brahmarshi, he wanted that he should be proclaimed so by Vasishta.
Then Vasishtha proclaimed Viswamaitra as Brahmarshi.