Courtesy:Smt.Baala Chiraavuri
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा।।
मानवायुरेवाल्पः। तत्रापि अर्धांशः निद्रायां, तस्मिन्नर्धांशोऽपि कार्यवैविध्येषु यापयामः। ततः एकांश एव अवशिष्टः एव। तदल्पोऽपि अस्माकं स्वाधीनः न भवति। किन्तु वयं चिन्तयामः कालःअस्मदधीन इति। तदेव माया इति कथ्यते बुधैः।
काव्याध्ययनेन शास्त्राध्ययनेन च विषयलोलुपाः न भवेम। तेषां निरन्तरचिन्तनेन दुर्विषयपरित्यक्ताः भविष्यामः। तस्मात् जीवनमानन्दमयं भवति। गेहसदस्येष्वपि पारस्परिकानुबन्धः दृढतरो संभविष्यति। तदेव मनुष्यस्य आयुर्वृद्धिकारकं भवतीति आयुर्वेदभिषजा अपि कथयन्ति।
आहारनिद्राभयमैथुनानि सर्वेष्वपि जन्तुषु समाना एव। एतदतिरिच्य मनुष्यस्य ज्ञानसमुपार्जनाशक्तिरस्ति। किन्तु मानवः इतस्ततः परिभ्रमणं कृत्वा कालयापनं करोति।
प्रायशः बह्व्यः स्त्रियः दूरदर्शनधारवाहिकेषु अथवा विविधासु निरर्थककृत्येषु समयंदुर्विनियोगं कुर्वन्ति। पुरुषाः केवलं उदरपोषणार्थमेव व्यवसायं कृत्वा तदेवालमिति चिन्तयन्ति। ततः बालबालिकानां विषये किं वक्तुं शक्नुमः। केवलं यन्त्राण्यिव प्रातःप्रभृति रात्रिपर्यन्तमपि हूणविद्यानिरता एव (इव नटयन्ति। किमर्थं चेत् तदध्ययनमपि केवलं रटनरूपेणैव भवति)। सा विद्यापि केवलं भविष्यत्काले धनसंपादनार्थमेव।
तर्हि कालस्य सद्विनियोगः कथं भवति? कदाचित् अनेनैव प्रकारेण विचार्यते चेत् शिरोवेदना एव।
कालः परमात्मा स्वरूपः। तस्य सद्विनियोगेन भगवान् तुष्टो भवति। तदेव अस्मासु परिपूर्णानुग्रहः।
बाला...✍