Sri Chandramouleeshwara Varnamala Stotram composed by Jagadguru Sri Sri Bharati Tirtha Mahaswamiji:

25 views
Skip to first unread message

K.N.RAMESH

unread,
Jul 28, 2017, 2:07:26 PM7/28/17
to
Sri Chandramouleeshwara Varnamala Stotram composed by Jagadguru Sri Sri Bharati Tirtha Mahaswamiji:

॥ श्रीचन्द्रमौलीश्वरवर्णमालास्तोत्रम् ॥
 
श्रीशात्मभूमुख्यसुरार्चितांघ्रिं श्रीकण्ठशर्वादिपदाभिधेयम् ।
श्रीशङ्कराचार्यहृदब्जवासं श्रीचन्द्रमौलीशमहं नमामि ॥ १ ॥
 
चण्डांशुशीतांशुकृशानुनेत्रं चण्डीशमुख्यप्रमथेड्यपादम् ।
षडास्यनागास्यसुशोभिपार्श्वं श्रीचन्द्रमौलीशमहं नमामि ॥ २ ॥
 
द्रव्यादिसृष्टिस्थितिनाशहेतुं रव्यादितेजांस्यपि भासयन्तम् ।
पव्यायुधादिस्तुतवैभवं तं श्रीचन्द्रमौलीशमहं नमामि ॥ ३ ॥
 
मौलिस्पुरज्जह्नुसुतासितांशुं व्यालेशसंवेष्टितपाणिपादम् ।
शूलादिनानायुधशोभमानं श्रीचन्द्रमौलीशमहं नमामि ॥ ४ ॥
 
लीलाविनिर्धूतकृतान्तदर्पं शैलात्मजासंश्रितवामभागम् ।
शूलाग्रनिर्भिन्नसुरारिसंघं श्रीचन्द्रमौलीशमहं नमामि ॥ ५ ॥
 
शतैः श्रुतीनां परिगीयमानं यतैर्मुनीन्द्रैः परिसेव्यमानम् ।
नतैः सुरेन्द्रैरभिपूज्यमानं श्रीचन्द्रमौलीशमहं नमामि ॥ ६ ॥
 
मत्तेभकृत्या परिशोभिताङ्गं चित्ते यतीनां सततं वसन्तम् ।
वित्तेशमुख्यैः परिवेष्टितं तं श्रीचन्द्रमौलीशमहं नमामि ॥ ७ ॥
 
हंसोत्तमैः चेतसि चिन्त्यमानं संसारपाथोनिधिकर्णधारम् ।
तं सामगानप्रियमष्टमूर्तिं श्रीचन्द्रमौलीशमहं नमामि ॥ ८ ॥
 
नताघहं नित्यचिदेकरूपं सतां गतिं सत्यसुखस्वरूपम् ।
हतान्धकं हृद्यपराक्रमं तं श्रीचन्द्रमौलीशमहं नमामि ॥ ९ ॥
 
मायातिगं वीतभयं विनिद्रं मोहान्तकं मृत्युहरं महेशम् ।
फालानलं नीलगलं कृपालुं श्रीचन्द्रमौलीशमहं नमामि ॥ १० ॥
 
मित्रं हि यस्याखिलशेवधीशः पुत्रश्च विघ्नौघविभेददक्षः ।
पात्रं कृपायाश्च समस्तलोकः श्रीचन्द्रमौलीशमहं नमामि ॥ ११ ॥
 
॥ इति श्रीचन्द्रमौलीश्वरवर्णमालास्तोत्रम् ॥

Reply all
Reply to author
Forward
0 new messages