गुणः

41 views
Skip to first unread message

vasantha syamalam

unread,
Apr 15, 2015, 5:34:38 AM4/15/15
to sams...@googlegroups.com

कृ‌ तृच्‌ → अनुबन्धलोपे → कृ तृ → सार्वधातुकार्धधातुकयोः इत्यनेन इगन्ताङ्गस्य इकः गुणः → कर्‍ तृ → वर्णमेलने → कर्तृ (प्रथमाविभक्तौ पुंसि कर्तास्त्रियां कर्त्रीनपुंसके कर्तृ)


एवमेव—

      नी तृच्‌ → नी तृ‌ → ने तृ → नेतृ (नेता)

एवमेव क्री+तृच् + क्रेता ( कथम्?)

 नो, क्री --- अत्र तु दीर्घ-ई अस्ति। कथं गुणः भवति?


vasantha syamalam

unread,
Apr 15, 2015, 5:35:49 AM4/15/15
to sams...@googlegroups.com
skshamyatham 
नी, क्री इति भवितव्यम्। 

Sivakumari Katuri

unread,
Apr 15, 2015, 5:48:46 AM4/15/15
to sams...@googlegroups.com
सार्वधातुकार्धधातुकयोः इति सूत्रेण विधीयमानः गुणः ह्रस्वदीर्घसामान्यः, अर्थात् ह्रस्वानां दीर्घानामपि भवति। अतः अत्र दीर्घस्यापि गुणः भवति। पुगन्तलघूपधस्य च इति सूत्रेण विधीयनामः गुणः लघूपधस्य भवति।

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.



--
सर्वे भद्राणि पश्यन्तु।

Hnbhat B.R.

unread,
Apr 15, 2015, 7:57:48 AM4/15/15
to sams...@googlegroups.com
2015-04-15 15:18 GMT+05:30 Sivakumari Katuri <shivakuma...@gmail.com>:
सार्वधातुकार्धधातुकयोः इति सूत्रेण विधीयमानः गुणः ह्रस्वदीर्घसामान्यः, अर्थात् ह्रस्वानां दीर्घानामपि भवति। अतः अत्र दीर्घस्यापि गुणः भवति। पुगन्तलघूपधस्य च इति सूत्रेण विधीयनामः गुणः लघूपधस्य भवति।



सत्यमुक्तम्। उदाहृतेषु ऋकारस्यैवोदाहरणं दत्तम्, न तु दीर्घस्यापि। नापि पुगन्तलघूपधगुणस्यापि।

सार्वधातुकार्धधातुकयोः इत्यनेन इगन्ताङ्गस्य इकः गुणः → कर्‍ + तृ → वर्णमेलने → 

अत्र ऋकारस्य अकाररूपे गुणे, "उरण् रपरः"  (पा॰सू॰ १.१.५१) इति अकारस्य रपरत्वेनादेशे, कृ+तृ > कर् + तृ > कर्तृ > कर्ता, इति कृ-धातोः तृन् प्रत्यये, आर्धधातुके अ इति गुणादेशः। एवमेव, कृधातोः लुट् लकारे, प्रथमपुरुषैकवचने, "स्यतासी लृलुटोः" ( ३।१।३३) इति तासिप्रत्यये, कृ+तास्+ति इति जाते, "लुटः प्रथमस्य डारौरसः" (२।४।८५) इति डा इत्यादेशे, अनुबन्धलोपे, डिति, तास् इत्यस्य टिलोपे, कृ+त्+आ > कृञः ऋकारस्य आर्धधातुकतासिपरर्त्वात् अकाररूपे गुणादेशे, अर् इत्यादेशः। कर्+त्+आ > कर्ता इति रूपं भवति। उभयत्रापि लघूपधगुणस्य प्रसक्तिरेव नास्ति, केवलमिगन्तस्याङ्गस्यैव प्रसक्तिः, ह्रस्वदीर्घभेदो नास्त्येव।

नी, क्री इति इगन्तावेव, न उपधाभूतौ इति "सार्वधातुकार्धधातुकयोः" ( ७।३।८४) इत्येव गुणः। यथा कृ > कर्ता इत्यत्र। 
चिञ् चयने, चेता, इति च तथैव। नेता, क्रेता इत्यादावपि।

एवं गुप् गोपने, गोप्ता, इत्यादावपि। कृष् - कर्षति इत्यादावेव लघूपधस्यैव गुणो भवति। "सार्वधातुकार्धधातुकयोः परयोः"  इत्येव सामान्यम्। इति विषयभेदः। पुगन्तलघूपधस्य च (७।३।८६) इत्यस्य विषयः।



Reply all
Reply to author
Forward
0 new messages