Danger -Sanskrit essay

25 views
Skip to first unread message

K.N.RAMESH

unread,
Jan 16, 2018, 11:12:00 AM1/16/18
to
* courtesy : Smt bala chiraavoori 

आपत्* 

 *विपदः सन्तु नः शश्वत्त्त्र तत्र जगद्गुरो।* 
 *भवतो दर्शनं यत्स्यादपुनर्भव दर्शनम्।।*
            - इति पृथास्तुतिः।

हे भगवन्! नः भूरि विपदः सन्तु। तेन किं भवष्यति? यदा यदा वयं आपदि स्थास्यामः तदा तदा भवतः सुरैरपि सुदुर्लभं दर्शनं भविष्यति। भवद्दर्शनं जन्मसंसारविच्छेदकारणं भवति। 

वयं सर्वेऽपि आपत्काले चिन्तयामः भगवान्  अस्मान् दुःखसागरे क्षिपति प्रातरुत्थानात्प्रभृति भगवन्तमेव अर्चयामः तथापि सः अस्द्भ्यं क्लेशानुत्पादयतीति। किन्तु आपदः सम्पदश्च अस्माकं पुराकृतप्रारब्धविशेषादेव सम्भवन्ति। पुण्यकर्मणा सम्पदःआनन्दश्च, पापकर्मणा आपदः दुःखश्च फलरूपेण अनुभवामः। वयमेव सर्वं कृत्वा पुनः भगवन्तं निन्दयामःतेनैव दुर्गतिःउत्पत्स्यते इति। 

किन्तु आपत्काले दुःखे सम्यक् परिशीलयामश्चेत् तस्मिन् काले एव भगवन्तं निन्दारूपेणापि भृशं स्मरामः। यत्र तस्य स्मरणं अत्यधिकं भवति तत्रैव सोऽपि तिष्ठति ननु। तद् ज्ञात्वा "अन्यधा शरणं नास्ति त्वमेव शरणं मम" भवान् यत्र कुत्रापि मां क्षिपयतु तं बाधां सोढुं शक्तिर्दास्यतु। तस्मिन् कालेऽपि भवत्स्मरणं मा विस्मरणं भवेत् । इति प्रार्थयामश्चेत् आगधसदृश आपत्तिरपि स्वल्पगर्तो भविष्यति। तथा निश्चयज्ञानमावश्यकं भवति। 

अस्माकं मनः तथा  बालभावेन स्थास्यति चेत् भगवान् अस्माकं पृष्ठत एव स्थित्वा मार्गं निर्दाशति।

सर्वदाऽपि मया एका कथा स्मार्यते। 

एकस्मिन् ग्रामे कृष्णभक्तियुक्ता एका स्त्री आसीत्। तस्याः पुत्री प्रतिदिनमपि पाठशालां प्रति गच्छति स्म। मध्येमार्गे एक अरण्यमस्ति। तथा भीता सा बालिका मातरमपच्छत् कथं पाठशालां गन्तव्यमिति। 

सा स्त्री भक्तितत्परा खलु अतः सा " वत्से! मा भैषि। प्रतिदिनमि पाठाशाला गमनसमये मार्गे वनं प्राप्ते सति कृष्ण! आगच्छ, मां अरण्यादुद्धर इति प्रार्थय सैव त्वां नेष्यति " इति अकथयत्। 

बालिका" मातः ! कृष्णं कथं ज्ञास्यामि? सः केन रूपेण भवति? अति अपृच्छत्। 

 "कृष्णः कृष्णवर्णयुक्तः, शखिपिञ्छमौलिः, करे वेणुधरः  भवति । अनेन रूपेण कृष्णं प्रार्थय स अवश्यं त्वां उद्धरिष्यति"इति मात्रा कथितम्।

सा बालिका मात्रानुसारेण वनमागते सति कृष्णरेपं मनसि निधाय तं सम्बोधयति। कृष्णः स्वयमेवागत्य तां प्रति भीतहरणार्थं कथाः श्रावयित्वा पाठशालां प्रति नयति। तथैव प्रतिदिनपि कृष्णसहाय्येन सा अटवीं उद्धरति स्म। 

भवाटव्याः उद्धरणसमये नैकाः अपदः सिद्ध्यन्त्येव ।तस्मिन् काले मनःक्लेशेन भृशं निष्पीडयति।  किन्तु वयं तस्मिन् कालेऽपि तस्य पादयुगलावेव दृढं बन्धयामश्चेत् सैव आपद्रक्षको भवेत्।

*आपत्सु मग्नः स्मरणं त्वदीयं* 
  *करोमि दुर्गे करुणार्णवे शिवे।* 
 *नैतच्छठत्वं मम* *दापयेथाः* 
  *क्षुधातृषार्ता जननीं स्मरन्ति।।*
          - देव्यपराधक्षमास्तोत्रम।
         
              🙏🌷बाला...✍

Ramakrishnan D

unread,
Jan 16, 2018, 12:03:19 PM1/16/18
to sams...@googlegroups.com
उत्तमकथा सुष्ठु लिखिता | धन्या वयम् |

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

Reply all
Reply to author
Forward
0 new messages