valkiki ramayanam

22 views
Skip to first unread message

vasantha syamalam

unread,
May 14, 2015, 11:06:12 PM5/14/15
to sams...@googlegroups.com
नमो नमः।
१) कृपया संशयविवारणं करोतु।
 धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः।
संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम्॥(२४-१५)
वाल्मीकि रामायणे किं न्विदं दारुणं इति अस्ति।
  किन्न्वेतदारुणं - इति नेट् अत्र अस्ति।
द्वयोः अर्थमपि न अवगतम्। कः साधु प्रयोगः? एतस्य अर्थः कः?

२) साधु साधु इति तं देवाः पाकशासनमब्रुवन्।(२३)
पाकशासनं - अर्थः कः?

)कस्यचित्त्वथ कालस्य यक्षिणी कामरूपिणी(२५)
कस्यचित्त्वथ- अर्थः कः? सन्धिविच्छेदं कृत्वा लिखतु कृपया।

४)मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः।
वृत्तबाहुर्महाशीर्षो विपुलास्यतनुर्महान्॥(२७)

विपुला= विशालः खलु? ('विशालमुखं' इति अर्थः वा? मुखस्य समानार्थः शब्दः कुत्र श्लोके?

अशासे अहं अधिकं उपद्रवं न ददामि। तथापि पण्डितजनाः अवश्यं मम संशयविवारणं  करिष्यन्ति।
धन्यवादः

vasanthasyamalam

G S S Murthy

unread,
May 15, 2015, 2:14:25 AM5/15/15
to sams...@googlegroups.com
किम्
​ नु इदम्; किम् तु एतत् ;
कस्यचित् तु अथ कालस्य =after some time;विपुल आस्य.
Hope this helps,
Regards,
Murthy​
 

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.



--

Hnbhat B.R.

unread,
May 15, 2015, 2:45:17 AM5/15/15
to sams...@googlegroups.com


On 15-May-2015 8:36 am, "vasantha syamalam" <vasantha...@gmail.com> wrote:
>
> नमो नमः।
> १) कृपया संशयविवारणं करोतु।
>  धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः।
> संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम्॥(२४-१५)
> वाल्मीकि रामायणे किं न्विदं दारुणं इति अस्ति

> द्वयोः अर्थमपि न अवगतम्। कः साधु प्रयोगः? एतस्य अर्थः कः?

उभावपि साधुप्रयोगौ!
अर्थे भेदो नास्त्येव!

किं नु = कुतो नु , इदं/एतद् दारुणं वनम्? इति श्रूयतामिति वान्वयः।। 1.24.16

यस्य एतद् दारुणं वनम्? इति श्रूयतामिति वा!

अन्वयानुसारेणार्थ उन्नेयः!

> २) साधु साधु इति तं देवाः पाकशासनमब्रुवन्।(२३)
> पाकशासनं - अर्थः कः?

इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः!

इति पर्यायाः!

अत्र सर्वेषां श्लोकानां प्रति पदार्थो द्रष्टुं शकयते इति युक्तमेव पूर्वं सव्याख्यानम्>>

http://valmiki.iitk.ac.in/content?language=dv&field_kanda_tid=1&field_sarga_value=24&field_sloka_value=16&scnb=1&etss=1

> ३)कस्यचित्त्वथ कालस्य यक्षिणी कामरूपिणी(२५)
> कस्यचित्त्वथ- अर्थः कः? सन्धिविच्छेदं कृत्वा लिखतु कृपया।

कस्यचित्+तु+अथ > इति सन्धिविच्छेदः!

अथ कस्यचित् कालस्य इत्यन्वयः!

कस्यचित्कियतः कालस्य । अपगम इति शेषः ।। 1.24.25 ।।

अथ thereafter, कस्यचित्कालस्य after a lapse of some time, 
इत्यर्थः.

> ४)मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः।
> वृत्तबाहुर्महाशीर्षो विपुलास्यतनुर्महान्॥(२७)

विपुला= विशालः खलु? ('विशालमुखं' इति अर्थः वा? मुखस्य समानार्थः शब्दः कुत्र श्लोके?
>

 वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्।(अमरकोशे द्वितीये काण्डे नृवर्गे ८९ श्लोकः मुखशब्दस्य पर्यायान् दत्ते!

> अशासे अहं अधिकं उपद्रवं न ददामि। तथापि पण्डितजनाः अवश्यं मम संशयविवारणं  करिष्यन्ति।
> धन्यवादः
>
> vasanthasyamalam
>

vasantha syamalam

unread,
May 15, 2015, 5:17:28 AM5/15/15
to sams...@googlegroups.com
तथापि मुखं एतस्य पर्यायशब्दः कुत्र श्लोके?

Hnbhat B.R.

unread,
May 15, 2015, 7:11:53 AM5/15/15
to sams...@googlegroups.com

विशालशब्दस्यान्तरमेव वर्तते! मया मुखशब्दस्य सर्वे पर्यायशब्दाः प्रदर्शिताः! मूर्तिमहोदयैः विच्छिद्य दर्शितं किं न दृष्टम्?

Hnbhat B.R.

unread,
May 15, 2015, 7:17:53 AM5/15/15
to sams...@googlegroups.com


On 15-May-2015 4:41 pm, "Hnbhat B.R." <hnbh...@gmail.com> wrote:
>
> विशालशब्दस्यान्तरमेव > विशालशब्दस्यानन्तरमेव पठ्यताम्!

दर्शितं किं न दृष्टम्? > दर्शितं किं न दृष्टं श्लोके इति च परिष्कृत्य पठ्यताम्!

Reply all
Reply to author
Forward
0 new messages