samaas

19 views
Skip to first unread message

vasantha syamalam

unread,
Feb 20, 2015, 12:04:03 PM2/20/15
to sams...@googlegroups.com
स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् 
एतस्य समास्-युक्तशब्दस्य अर्थं न अवगतम्। कृपया समास-शब्दं पृथक् कर्तुं लिखतु।

Hnbhat B.R.

unread,
Feb 20, 2015, 10:40:01 PM2/20/15
to sams...@googlegroups.com
2015-02-20 22:34 GMT+05:30 vasantha syamalam <vasantha...@gmail.com>:
स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् 
एतस्य समास्-युक्तशब्दस्य अर्थं न अवगतम्। कृपया समास-शब्दं पृथक् कर्तुं लिखतु।

-

विग्रवाक्यं कृत्वा अर्थः लिखित एवात्रैव व्याख्याने ---

 

कृष्णं कृष्णवर्णं, रक्ताम्बरधरम् अरुण-वस्त्रयुक्तं, रक्ताक्षम् अरुणनेत्रं, दुन्दुभिस्वनं = दुन्दुभिसदृशगम्भीरनादविशिष्टं, स्निग्धा: दर्शनमात्रेण स्नेहोत्पादका: 

हर्यक्षस्य = सिंहस्येव, तनुजा: = लोमसमूहाश्च, श्मनि = मुखे श्रयते इति श्मश्रु, च प्रवरा: = दीर्घा:, मूर्धजा: = केशाश्च यस्य तत् ।। 1.16.12 ।।

विग्रहवाक्यसहितं विवरणमपि व्याख्यानेषु लभ्यन्ते, एव। अन्यस्मिन् व्याख्याने ---

स्निग्धाः चिक्कणा, हर्यक्षस्येव तनुजाः = लोमानि, श्मश्रुप्रवरा मूर्द्धजाः केशाश्च यस्य तत्तथा 

अत्र विग्रहवाक्यान्येव दत्तनि।

सर्वं तत्र लिङ्क्मध्ये एव वर्तते। अन्वेष्टव्यं भवत्या इत्येव। व्याख्याने यन्न दत्तम्, तस्यैव वा तस्य बोधने क्लेशे वा प्रश्नः पृष्टश्चेत् उत्तरदानं सुलभं भवेत्। स्वयं ज्ञानसंपादनमपि भवति। उपायाश्च दर्शिता, भवत्या सम्यगुपयोगः कर्तव्य इत्येव।

एकस्मिन् व्याख्याने विवरणं न पर्याप्तं चेत्, अन्येष्वपि द्रष्टुं शक्यमेव। इदमेव पठेलमहोदयेन सूचितम्। धवलमहोदयेनैव अत्र समूहे समासविवरणात्मकः सन्देशः प्रेषित एव, यत्र सामन्येन सर्वेषां समानानां सामान्यविवरणं दत्तमुदाहरणार्थम्। येनान्येषामपि उदाहरणानां स्वयं विग्रहवाक्यं कर्तुं शक्यमेव।








Reply all
Reply to author
Forward
0 new messages