सद्विचराः

28 views
Skip to first unread message

vasantha syamalam

unread,
Oct 11, 2015, 1:17:20 AM10/11/15
to sams...@googlegroups.com
घटयस्मिन् यदि अमृतमस्ति चेत् तस्मात् अमृतमेव निर्गच्छति। 
तथा मनसि नाम्नि घटे मधुर-विचारः अस्ति चेत् तस्मात् मधुरा वार्तैव निर्गच्छति।

अतः मनः सदा सद्विचारेण पूरयतु। 

Hnbhat B.R.

unread,
Oct 11, 2015, 11:06:45 AM10/11/15
to sams...@googlegroups.com
2015-10-11 10:47 GMT+05:30 vasantha syamalam <vasantha...@gmail.com>:
घटयस्मिन् यदि अमृतमस्ति चेत् तस्मात् अमृतमेव निर्गच्छति। 

घटयस्मिन् इति कथं सन्धिः?

Arvind_Kolhatkar

unread,
Oct 11, 2015, 11:44:23 AM10/11/15
to samskrita
'घटे + अस्मिन् '  The संधि will be घटेऽस्मिन् and not घट्यस्मिन्
Example - गङ्गे च यमुने चैव गोदावरि सरस्वति। नर्मदे सिन्धु कावेरि जलेऽस्मिन् संनिधिं कुरु॥

Arvind Kolhatkar


vasantha syamalam

unread,
Oct 14, 2015, 1:33:32 PM10/14/15
to sams...@googlegroups.com
घटे अस्मिन् वा?= घटेऽस्मिन्
अहं चिन्तितवती एचोऽयवायाव आगच्छति। कः भेदः एतयोः?


--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

Sivakumari Katuri

unread,
Oct 14, 2015, 8:04:05 PM10/14/15
to sams...@googlegroups.com

पदान्ते ए, ओ भवतः यदि तस्मात् ह्रस्वे अकारे परे पूर्वरूपः भवति एङः पदान्तादति इति सूत्रेण. इदं अयवायावादेशस्यापवादम्.
एचो अयवायावः इति तु एचः अचि भवति. इदं सामान्यसूत्रम्.

vasantha syamalam

unread,
Oct 15, 2015, 7:24:52 AM10/15/15
to sams...@googlegroups.com
शिवकुमारि कतूरि महोदये| धन्यवादः|
पदान्ते - अपदान्ते - एतयोः मम सङ्करः(संशयः)|
कृपया  पदान्ते - एकमुदाहरणम्
अपदान्ते एकमुदाहरणम् ददातु|
'घटे' पदमस्ति खलु? परे अकरः अस्ति| अतः अत्र अयादेशः न भवति| साधु किम्?
घटेऽस्मिन् |
अधुना अपदान्तस्य एकमुदाहरणं कृपया ददातु|
----

स्वरात् परे
 ए ऐ ओ औ यदि स्यात् तर्ह्येव अय् आय् अव् आव् भवन्ति| मम अवगमनं साधु वा?

vasantha syamalam

unread,
Oct 15, 2015, 7:46:17 AM10/15/15
to sams...@googlegroups.com
अत्र 'अवगमनं' - इति शब्दप्रयोगः  असाधु इति मन्ये|  'My understanding 0.k.?'  संस्कृते कथं लेखनीयम्?

Neelesh Bodas

unread,
Oct 15, 2015, 7:51:48 AM10/15/15
to sams...@googlegroups.com
2015-10-15 16:54 GMT+05:30 vasantha syamalam <vasantha...@gmail.com>:
शिवकुमारि कतूरि महोदये| धन्यवादः|
पदान्ते - अपदान्ते - एतयोः मम सङ्करः(संशयः)|
कृपया  पदान्ते - एकमुदाहरणम्
अपदान्ते एकमुदाहरणम् ददातु|
'घटे' पदमस्ति खलु? परे अकरः अस्ति| अतः अत्र अयादेशः न भवति| साधु किम्?
घटेऽस्मिन् |
अधुना अपदान्तस्य एकमुदाहरणं कृपया ददातु|

"मुनि" इत्यस्य प्रथमाबहुवचनं कथं सिद्ध्यति? 

प्रथमाबहुवचनस्य प्रत्यय: "जस्" । 
मुनि + जस्
-> मुनि + अस् [चुटू इति ज्-कारस्य इत्संज्ञा]
-> मुने + अस् ["जसि च" 7|3|109  इति इकारस्य  गुण: एकार:]
अत्र मुने इति पदं नास्ति । अत: "एङ: पदान्तादति" अस्य प्रसक्तिर्नास्ति । अत: एचोऽयवायाव: इत्यनेन अयादेश: भवति -
-> मुनय् + अस्
-> मुनय: 
 
----

स्वरात् परे
 ए ऐ ओ औ यदि स्यात् तर्ह्येव अय् आय् अव् आव् भवन्ति| मम अवगमनं साधु वा?


स्वरात् पूर्वम् | 

ए / ऐ / ओ / औ  + स्वर: -> अय् / आय् / अव् / आव् + स्वर: ।

पदान्त ए / पदान्त ओ + अ -> ए/ओ (पूर्वरूप-एकादेश:)

vasantha syamalam

unread,
Oct 15, 2015, 8:10:20 AM10/15/15
to sams...@googlegroups.com
ए/ऐ/ओ/औ + स्वरः -> अय्/आय्/अव्/आव् + स्वरः =भू =भ्+ऊ =भ्+ओ=भ्=अव्=भव।(भू पदं नास्ति। अतः)
घटे + अस्मिन्=अत्र घटे पदम्। अतः(पदान्ते ए अस्ति। अतः पूर्वरूपेकदेशः) घटेऽस्मिन्। साधु वा?

Hnbhat B.R.

unread,
Oct 15, 2015, 10:30:25 AM10/15/15
to sams...@googlegroups.com
2015-10-15 17:40 GMT+05:30 vasantha syamalam <vasantha...@gmail.com>:
ए/ऐ/ओ/औ + स्वरः -> अय्/आय्/अव्/आव् + स्वरः =भू =भ्+ऊ =भ्+ओ=भ्=अव्=भव।(भू पदं नास्ति। अतः)
घटे + अस्मिन्=अत्र घटे पदम्। अतः(पदान्ते ए अस्ति। अतः पूर्वरूपेकदेशः) घटेऽस्मिन्। साधु वा?


सत्यम्। पदमिति "सुप्तिङ्ङन्तं पदम्" (1-4-14) इति पाणिनीयपरिभाषितं पदम्। न तु word इत्यस्यानुवादः। पदस्यान्तः पदान्तः, पदस्यान्तो न भवतीति अपदान्तः।  पदान्ते न भवतीति वा। अपदान्तः। उभयथापि सुबन्तस्य वा तिङ्ङन्तस्य वान्ते एङाम् परे अति, ह्रस्वाकारे, पूर्वरूपमेकादेशः स्यादिति उक्तमेव "एङः पदान्तादति"((६।१।१०९) इति। 

एओ इत्येताभ्यां पदान्ते वर्तमानाभ्यामुत्तरे अत् ह्रस्वः अकारो भवति चेत्, पूर्वपरयोः एकारौकारयोः ह्रस्वाकारस्य च मिलित्वा, पूर्वरूप एकादेशः। हरे+अव - हरेऽव; साधो+अत्र -  साधोऽत्र। उभयोरपि पदान्तत्वात्। हरेव, साधोत्र इत्येव। ऽ इति स्पष्टप्रतिपत्त्यर्थम्।


अन्यत्र एचामवादेशः। पदान्तानाम्, अपदान्तानां च, ह्रवस्वाकारे परे च। 

ए,ओ विनी+अ - विने+अ - विनयः। भो+अ+ति - भवति।
हरे+इह - हरयिह। शम्भो+इह - शम्भविह। इति पदान्ते, अपदान्ते च। एवमन्यत्रोदाहरणानि। 






Reply all
Reply to author
Forward
0 new messages