।।श्रीमते रामानुजाय नमः।।
भो कृष्ण ! तव वदनाम्बुजं कदा द्रक्ष्यामि
------------------------------------------------
अश्रान्तस्मितमरुणारुणाधरोष्ठं
हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् ।
विभ्राम्यद्वपुलविलोचनार्द्धमुग्धं
वीक्षियष्ये तव वदनाम्बुजं कदा नु ।।
–श्रीकृष्णकर्णामृतम्
अन्वयः
--------
नु (भोः कृष्ण !) अश्रान्तस्मितमरुणा-
रुणाधरोष्ठम् (अश्रान्तं सततं स्मितं
प्रकाशः यस्मिन् तत्र तत्र हेतुः अरुणादपि अरुणौ अधराष्ठौ यत्र तत्)
हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् (हर्षार्द्रमतएव द्विगुणं मनोज्ञं वेणुगीतं यत्र तत्) विभ्राम्यद्विपुलवि लोचनार्द्ध मुग्धम् (विशेषतः भ्राम्यतोः चञ्चलतया उत्फुल्ल- विलोचनयोः अर्द्धेन अपांगनिरीक्षणेन मनोहरम्) तव वदनाम्बुजं कदा वीक्षिष्ये (विशेषेण द्रक्ष्यामि)?
हिन्दी अनुवाद
-----------------
हे कृष्ण ! मैं तुम्हारा कमलवदन कब देख पाऊँगा? वह वदनकमल, जो सदा मृदुहास्य से उद्भासित अरुणवर्ण अधर-ओष्ठ से समन्वित है, जो आनन्दस्निग्ध वेणुगीत से द्विगुणित मनोहर हो रहा है, और जो विभ्रमशाली अर्धविकसित सुन्दर विशाल नयनों से युक्त है।
संस्कृत भावार्थः
-------------------
भो नाथ(कृष्ण) कदा तव वदनाम्बुजं वदनकमलं वदनचन्द्रं वा “अब्जो जैवातृकः सोमः” इत्यमरः वीक्षिष्ये विशेषेण द्रक्ष्यामि। कीदृशम्- अश्रान्तस्मितम्। अश्रान्तमनवरतं स्मितं यत्र तत्। अतिशयानन्दोदयात्। पुनः कीदृशम्- अरुणारुणाधरोष्ठम्। अरुणादप्यरुणमत्यरुणमिति वीप्सायां द्विर्भावः। ओष्ठाधरमधरोष्ठं यस्य तत्। अरुणवदरुणं वा। अरुणोऽव्यक्तरागेऽर्के सन्ध्यारागेऽर्कसारथौ। इति मेदिनी (णान्तः 33)। पुनः कीदृशम्- हर्षार्द्रद्विगुणेति ! हर्षेणार्द्रं स्निग्धमतएव द्विगुणं मनोज्ञं मनोहरं वेणुगीतं वशीरवविरचित-विविधगान- विशेषो यत्र तत्। यद्वा, हर्षेणार्द्रः स्वेद- सात्विकभावात्ततश्च द्विगुणमनोज्ञो यो वेणुस्तस्य गीतं यस्मिंस्तत्। पुनः
कीदृशम्विभ्राम्यद्विपुलविलोचनार्धमुग्धम्।
विभ्रमतोर्वैदग्धीपूर्वं भ्रमतोर्विपुलयोर्विशालयोर्विशिष्ट- लोचनयोर्यदर्द्धं तेन मुग्धं मनोहरम्। विलोचनार्द्रमिति पाठे- विभ्राम्यद्भ्यां विपुलाभ्यां विलोचनाभ्यामान्द्रञ्च तन्मुग्धञ्चेति। आर्द्राद्रेति पौनरुक्त्यं न दोषः, औत्सुक्यात् ।
–रमेशप्रसाद शुक्ल
–जय श्रीमन्नारायण।