अयमधुना संशयः गीतायाः १-३५-तमस्य श्लोकस्य विषये

31 views
Skip to first unread message

अभ्यंकरकुलोत्पन्नः श्रीपादः

unread,
Jan 13, 2015, 6:42:50 AM1/13/15
to sams...@googlegroups.com

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।

अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ।।३५।।

अन्वयः - मधुसूदन, घ्नतः अपि त्रैलोक्यराज्यस्य हेतोः अपि एतान् हन्तुं न इच्छामि, महीकृते नु किम् ?

प्रश्नाः -

  1. घ्नतः-शब्दस्य का व्युत्पत्तिः का सिद्धिः ?

    • H N भट-महोदयेन सूचितमासीत् हन्-धातुः → शतृ-प्रत्ययेन घ्नत् | तस्य पुँल्लिङ्गे द्वितीयायां विभक्त्यां बहुवचनम् वा षष्ठ्यां विभक्त्यां एकवचनम् |

    • वाक्ये तु “घ्नतः अपि अहं हन्तुं न इच्छामि” एवं घ्नतः-इति (अहं)-इति-अध्याहृतस्य कर्तृपदस्य विशेषणमिति प्रथमया विभक्त्या एकवचनेन मन्तव्यं दृश्यते, प्रायः हन्-धातोः क्त-प्रत्ययेन |

    • हन्-धातोः क्त-प्रत्ययेन तु हतः खलु ?

    • आपटेवर्याणां शब्दकोशे - घ्न a. (-घ्नी f.) (Used only at the end of comp.) Killing, destroying, removing, curing; ब्राह्मणघ्नः, बालघ्नः, वातघ्नः, पित्तघ्नः; depriving one of, taking away; पुण्यघ्न, धर्मघ्न &c. Ms.9.232;8.127;7.218; Y.1.138 &c.

    • अत्र तु घ्नवर्णः शब्दारंभे एव !

  2. त्रैलोक्यराज्यस्य हेतोः -

    • अत्र हेतोः-शब्दः हेतु-नाम्नः पञ्चमी विभक्तिः ?

    • त्रैलोक्यराज्यस्य हेतोः = त्रैलोक्यराज्यस्य हेतुना वा त्रैलोक्यराज्यस्य हेतुतः

सस्नेहम्
अभ्यंकरकुलोत्पन्नः श्रीपादः ।
"श्रीपतेः पदयुगं स्मरणीयम् ।"


Ambarish Sridharanarayanan

unread,
Jan 14, 2015, 3:21:41 PM1/14/15
to sams...@googlegroups.com
On Tuesday, 13 January 2015 03:42:50 UTC-8, SL Abhyankar wrote:

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।

अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ।।३५।।

अन्वयः - मधुसूदन, घ्नतः अपि त्रैलोक्यराज्यस्य हेतोः अपि एतान् हन्तुं न इच्छामि, महीकृते नु किम् ?

प्रश्नाः -

  1. घ्नतः-शब्दस्य का व्युत्पत्तिः का सिद्धिः ?

    • H N भट-महोदयेन सूचितमासीत् हन्-धातुः → शतृ-प्रत्ययेन घ्नत् | तस्य पुँल्लिङ्गे द्वितीयायां विभक्त्यां बहुवचनम् वा षष्ठ्यां विभक्त्यां एकवचनम् |

    • वाक्ये तु “घ्नतः अपि अहं हन्तुं न इच्छामि” एवं घ्नतः-इति (अहं)-इति-अध्याहृतस्य कर्तृपदस्य विशेषणमिति प्रथमया विभक्त्या एकवचनेन मन्तव्यं दृश्यते, प्रायः हन्-धातोः क्त-प्रत्ययेन |


न तथा । सन्दर्भेस्मिन् तु एते (धार्तराष्ट्राः) एव घ्नन्ति, नाम अस्मान् पाण्डवान् हन्तुकामा इति । अतस्त एव घ्नन्तः । तान् घ्नतः (द्वितीयाबहुवचनं) हन्तुं नेच्छामि इत्याह धनञ्जयः ।
 
  1. त्रैलोक्यराज्यस्य हेतोः -

    • अत्र हेतोः-शब्दः हेतु-नाम्नः पञ्चमी विभक्तिः ?

    • त्रैलोक्यराज्यस्य हेतोः = त्रैलोक्यराज्यस्य हेतुना वा त्रैलोक्यराज्यस्य हेतुतः


सत्यम् । हेतोरित्यत्र पञ्चमी । उदाहरणमिदं काशिकावृत्तौ लभ्यते यत् "अन्नस्य हेतोर्वसति" ।

अम्बरीषः

Dr. Nilesh Joshi

unread,
Jan 14, 2015, 11:51:18 PM1/14/15
to अभ्यंकरकुलोत्पन्नः श्रीपादः, sams...@googlegroups.com
घ्नतः= हन्-धातोः शतृ-प्रत्ययेन घ्नत् | तस्य पुँल्लिङ्गे द्वितीयायां विभक्त्यां बहुवचनम् एव | 

         अत्र आनन्दगिरिमहाभागेन स्वटीकायां जिघान्सन्तं जिघांसीयादिति न्यायेन घ्नतः अपि नाम घातयतः अपि एतान्मा तुलान् श्वशुरादीन्  अहं हन्तुं न इच्छामि | तस्मात् इदं घ्नतः कदापि अध्याहृतस्य कर्तृपदस्य विशेषणम् न संभवति | द्रष्टव्यम् -----


Inline image 1

अपरं च श्रीधरस्वामिनापि घ्नतोऽपि अस्मान् मारयतोऽपि  एतान् इति निर्दिश्यते | द्रष्टव्यम् -----

Inline image 2
धन्यवादः | 

Hnbhat B.R.

unread,
Jan 17, 2015, 3:42:59 AM1/17/15
to sams...@googlegroups.com
हन् हिंसागत्योः, इति धातोः, "लटः शतृशानचावप्रथमासमानाधिकरणे
2-2-124" इति शतृप्रत्ययः।
शकार-ऋकारौ इतौ, तयोर्लोपे,
हन्+अत् > शित्त्वात् सार्वधातुकत्वम्, अपित्त्वात् "सार्वधातुकमपित्
1-2-4" इति ङित्त्वात्
सार्वधातुकत्वात् "कर्तरि शप् 3-1-68" इति शपि, अदादित्वात्,
"अदिप्रभृतिभ्यः शपः 2-4-72" इति शपो लुक्।
"गमहनजनखनघसां लोपः क्ङित्यनङि 6-4-98 इति उपधाया लोपः।
ह्न्+अत् "हो हन्तेर्ञ्ञ्णिन्नेषु 7-3-54" इति हनधातोर्नकारे परे,
कुत्वेन घत्वम्।
घ्न्+अत् > शत्रन्तः घ्नत् शब्दः।
प्रथमैकवचने,
घत्+सु - उकारस्येत्संज्ञायाम्, तस्य लोपे,
घ्नत् +स्। )उगिदचां सर्वनामस्थानेऽधातोः 7-1-70 इति नुम् आगमः।
घ्नन्+त् > +स् हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् 6-1-68
इति सकारस्य लोपः।
घ्नन्-त् [स्] )संयोगान्तस्य लोपः 8-2-23 इति तकारस्य लोपः।
घ्नन् - द्विवचने, घ्नन्त्+औ - घ्नन्तौ, घ्नन्त्+अस् [जस्] घ्नन्तः।
एवमेव, घन्त्+अम् - घन्तम्, घ्नन्तौ इति द्वितीयायाम्, बहुवचने तु,
घ्नत्+शस् > घ्नत्+अस् > घ्नतः। सर्वनामस्थानत्वाभावात्, न नुमागमः। इति
द्वितीयायाबहुवचने घ्नतः इति रूपनिष्पत्तिः।

उत्तरपदे तु ---
(2969)लक्षणे जायापत्योष्टक् 3-2-52
हन्तेष्टक् स्याल्लक्षणवति कर्तरि। जायाघ्नो ना। पतिघ्नी स्त्री।।
(2970)अमनुष्यकर्तृके च 3-2-53
जायाघ्नस्तिलकालकः। पतिघ्नी पाणिरेखा। पित्तघ्नं घृतम्।
प्रलम्बघ्नः। शत्रुघ्नः। कृतघ्न इत्यादि। मूलविभुजादित्वात्सिद्धम्
इति कृदन्तरूपाणि, घ्न-शाब्दः हन्धातोरेव कृत्प्रत्यये निष्पन्नानि।
शक्तौ हस्तिकपाटयोः 3-2-54
हन्तेष्टक् स्यात् शक्तौ द्योत्यायाम्। मनुष्यकर्तृकार्थमिदम्। हस्तिघ्नो
ना। कपाटघ्नश्चोरः इत्यादौ च सोपपदपूवकत्वादेव घ्नशब्दः।
पाणिघताडघौ शिल्पिनि 3-2-55 इति घशब्दोऽपि, तस्मादेव।
राजघ उपसंख्यानम्।। राजनं हन्ति राजघः।




न तु स्वातन्त्र्येण घ्नशब्दोऽस्ति।
Reply all
Reply to author
Forward
0 new messages