सायं काले त्वम्बरकोणे (Sanskrit Song)

37 views
Skip to first unread message

K.N.RAMESH

unread,
Jun 21, 2016, 8:24:38 AM6/21/16
to
https://www.youtube.com/watch?v=yIC1IulhmHo

MUST WATCH video for 3 minutes.

The beauty and splendour of the sky at sunset simply bowls the poet over!...

Vocalist: Ramesh Vinayakam,
 Lyricist: Late Kalladi Krishnan Kutty


सायं काले त्वम्बरकोणे विलिखति प्रकृतिर्वर्णचयम्। रक्तं पीतं श्वेतं चित्रं नीलं शबलितदृग्विभवम् ॥ सायं काले त्वम्बरकोणे विलिखति प्रकृतिर्वर्णचयम्। रक्तं पीतं श्वेतं चित्रं नीलं शबलितदृग्विभवम् ॥ वर्णविचित्रं गगनं दृष्ट्वा बालाः सर्वे तुष्यन्ति। द्रष्टुं सर्वं तस्य समीपं विहगाः विविधाः गच्छन्ति॥ सायं काले त्वम्बरकोणे प्रतिनिमिषं स हि वर्णविशेषः नव्यं रूपं प्राप्नोति। गन्धर्वाणां मन्दिरमित्यपि सर्वे मर्त्याः कथयन्ति॥ प्रतिदिनमेवं गगने सायं रचिता वर्णाः केनैते? तुभ्यं सर्वकलाकाराणां नायक भगवन्! नमो नमः॥
Reply all
Reply to author
Forward
0 new messages