valmiki ramayanam

37 views
Skip to first unread message

vasantha syamalam

unread,
Apr 16, 2015, 11:28:54 PM4/16/15
to sams...@googlegroups.com
संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव।
इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय।।1.21.8।।
इति जाले अस्ति(net)

परन्तु ग्रन्थे (वाल्मीकि रामायणे) एवमस्ति-
प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः।
इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय॥ - इति अस्ति।

१)यद्यपि अर्थपरिवर्तनं नास्ति तथापि एवं लिखितुं शक्यते वा जालपुटे?
२) तत्र राघवः इति अस्ति। राघव= दशरथः वा? अहं चिन्तयामि राघवः = रामः इति। द्वाभ्याम् कृते अपि योग्यः वा?
३) इष्टापूर्तवधो = कृपया एतं शब्दं पृथक् कृत्वा लिखतु। 

धन्यवादः

Hnbhat B.R.

unread,
Apr 17, 2015, 3:13:16 AM4/17/15
to sams...@googlegroups.com
2015-04-17 8:58 GMT+05:30 vasantha syamalam <vasantha...@gmail.com>:
संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव।
इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय।।1.21.8।।
इति जाले अस्ति(net)



 
परन्तु ग्रन्थे (वाल्मीकि रामायणे) एवमस्ति-
प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः।
इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय॥ - इति अस्ति।

१)यद्यपि अर्थपरिवर्तनं नास्ति तथापि एवं लिखितुं शक्यते वा जालपुटे?

शक्यत एव पाठभेदात्। 

संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव।

इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय ।। 1.21.8 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने पाठः।  श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ च पाठः। तत्रैव, --- 'प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वत:' इति भट्टसम्मत: पाठ: । करिष्येति सन्धिरार्ष इति तैरुक्तम् ।। 1.21.8॥
अत्र भट्टः - नागेशभट्टः प्रसिद्धो वैयाकरणः नागोजीभट्ट इति च ख्यातः तिलकटीकाकारः।  Tilaka by Nagoji Bhatta or Ramavarma (1730-1810)

माधवयोगिकृतायाम्, श्रीमद्रामायणामृतकतकटीकायां चायमेव पाठः।




२) तत्र राघवः इति अस्ति। राघव= दशरथः वा? अहं चिन्तयामि राघवः = रामः इति। द्वाभ्याम् कृते अपि योग्यः वा?


योग्य एव। उभयोरपि रघुवंशे संभवात्।
 
३) इष्टापूर्तवधो = कृपया एतं शब्दं पृथक् कृत्वा लिखतु। 


इष्टम् = अश्वमेधान्तयागः, आपूर्तम् = वापीकूपादिनिर्माणम्, तद्वधः = तत्फलनाशः । भूयाद्भवेत् । भविष्यतीति यावत् । करिष्ये इति प्रतिश्रुत्य प्रतिज्ञाय । सन्धिरार्षः । उक्तं वाक्यमकुर्वतो ऽननुतिष्ठतः ।। 1.21.8 ।। 

द्वितीयः पाठः  "प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः।" इति।
श्रीरामाभिरामे श्रीरामीये रामायणतिलके व्याख्याने।

उभयोरपि इष्टापूर्तवधः इति तुल्य एव।

-इष्टापूर्ते -यहाँ “पृषोदरादीनि यथोपदिष्टम्” -सूत्र से इष्टपदघटक अन्तावयव अकार को समास होने पर दीर्घ हो गया है । इष्ट-यागादि अथवा यज्ञादिजन्य फल, ...

इष्टका N. of a deity (Nārāyaṇa Up.8). इष्टापूर्तम् iṣṭāpūrtam इष्टापूर्तिः iṣṭāpūrtiḥ इष्टापूर्तम् इष्टापूर्तिः f. [इष्टं च पूर्तं च तयोः समाहारः पूर्वपददीर्घत्वम्] Performance of pious or charitable deeds; performing sacrifices, and digging wells and doing other acts of charity; इष्टापूर्तविधेः सपत्नशमनात् Mv.3.1; cf. also इष्टापूर्ते पुत्रपशूंश्च सर्वान् Kaṭh.1.8. वापीकूपतडागादिदेवतायतनानि च । अन्नप्रदानमारामाः पूर्तमर्थ्याः प्रचक्षते ॥ एकाग्निकर्महवनं त्रेतायां यच्च हूयते । अन्तर्वेद्यां च यद्दानमिष्टं तदभिधीयते ॥

vasantha syamalam

unread,
Apr 17, 2015, 5:38:00 AM4/17/15
to sams...@googlegroups.com
धन्यवादः महोदय!

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

Reply all
Reply to author
Forward
0 new messages