अस्य समूहस्य संस्कृतप्राधान्येन संस्कृताभिज्ञजनानुकूलतापि सम्पादिता । प्रायो हि संस्कृतज्ञा आङ्ग्लभाषाकौशल्याभावेन समूहेभ्यो विरता भवन्ति इति ।
भारतीयविद्वत्परिषत्संस्कृतम् इतिसमूहयोरपि संस्कृतेतरभाषयैव प्रधानतया पत्राणि दृश्यन्ते । शास्त्रज्ञानाञ्च तत्र समवायोपि तथा नास्ति यथापेक्षितम् । ममैव मित्राणि बहूनि आङ्ग्लभाषाया भीता न कुत्रापि समूहे सदस्यतां वहन्ति ।
भारतीयविद्वत्परिषदि बहुविधकौशलयुतानां प्राचीननवीनसङ्करदृष्टियुतानां कवीनां च समवायोस्ति । तत्र विचारस्यावसरसत्त्वेपि व्याकरणादिमर्य्यादामनतिक्रम्य विचारनियमस्यादर्शनात् उक्तनियमपूर्व्वकाणां विचाराणामवकाशायैवैतस्य विरचनम् ।
तथा च अत्र प्राचीनरीत्या शास्त्रार्थनिर्णये जाते तस्य नवीनैः सह परीक्षणे येषां रतिर्जायेत ते भारतीयविद्वत्परिषदादिषु तद्विषयकं विचारं स्वातन्त्र्येण कर्त्तुं शक्नुवन्त्येव ।
इतरत्र को विचारविशेषेधिकारी इत्यस्य नियामकानामनिरूपणात् , अत्र च प्राचीनां प्रमाणप्रमेयपद्धतिमनुगच्छतामेव तथात्वनिरूपणात् विशेषोपि वर्त्तत एव ।
अत्र च सर्व्वेषां दर्शनानां विचारोवसरं लभते ।
तत्र जिज्ञासापराणि पत्राणि सम्प्रदायविशेषप्रसिद्धमर्थमेव विषयीकुर्व्वन्ति तत्साम्प्रदायिकैरेव समाधातव्यानि । न हि अद्वैतपरिभाषाजिज्ञासाकाले द्वैतमतेन तन्निरासो युक्तः न वा विपरीतम् इति ।
सम्प्रदायेष्वेकस्यार्थस्य कथं निर्णय इतिपरत्वे तु तत्तत्सम्प्रदायेन तत्तद्विद्याभ्यासं कुर्व्वतां समाधानेर्हता भवति । तदा हि अद्वैतमतेनायमर्थो द्वैतेनायं विशिष्टाद्वैतेनायम् इत्यादि निरूप्य अनन्तरं परमतपरीक्षा कर्त्तव्या , स्वपक्षस्य युक्तता च प्रतिपादनीया ।
तत्र अमूलं न किमपि वाच्यं , सत्यां परीक्षायां तस्य बाधात् । सम्भावनापि क्षीणमूला नोपन्यसनीया ; स्वयमेव क्षीणत्वेन ज्ञाताया अपरैः परीक्षायां कृतायां दुर्दशाया अवश्यम्भावित्वात् ।
प्रमाणं च सर्व्वत्र वक्तव्यमेव । प्रमाणत्वस्यैवानिर्णये तु तावत्पर्य्यन्तं धावनं विधेयम् । तस्मिन्निर्णीतेप्यर्थविशेषसाधने प्रवृ्तेषु तेषु मद्ध्ये कुत्रचित् नियमादिप्रतिपादने तत्परीक्षापि कर्त्तव्यैव , अभ्युपगमपूर्व्वकं न किमपि वक्तव्यम् । शास्त्रप्रसिद्धस्यापि नियमस्य समर्थनाय कश्चन हेतुः सङ्क्षेपेण वक्तव्य एव । तथा च अयं विचारोर्थनिर्णयपर्य्यवसायी भविष्यति ।
महांश्चोपकारोनेन विद्यार्थिनां भविष्यति , यतस्तैरत्र युक्तयः अभ्युपगमाः तत्परीक्षादिकमीक्षितुं शक्यते ।
किञ्च समूहस्य संस्कृताश्रितत्वात् न भाषान्तरेण संवादोनुमन्यते ।
पत्राणि परीक्ष्यैव प्रकाशयिष्यन्ते । अपरीक्षितं निरीक्षकैर्न किमपि प्रकाशं प्राप्नोति ।
समूहस्य नानासम्प्रदायानुकूलविचारानुकूलत्वेनात्र नियामकपदव्यामपि नानासम्प्रदायविदोपेक्षन्ते - वैयाकरणाः , मीमांसाकाः , तार्किकाः , वैशेषिकाः , योगिनः , साङ्ख्याः , बौद्धाः , द्वैतिनः , अद्वैतिनः , विशिष्टाद्वैतिनः , कवयः , आलङ्कारिकाः , रसज्ञाः इत्यादयः । नान्यत्रेवात्र केचन एव नियामका भवेयुः , इतरमताज्ञानात् ।
तटस्थाश्च ते भवेयुः , मद्ध्यस्थवत् ।
इत्थम् अयं समूहः शास्त्रार्थसभासादृश्यं भजेत , विशेषश्चात्र भागिनां परोक्षत्वमेव ।
अत एवेदं रचितम् ।
अस्य समूहस्य वृद्ध्यादौ भवतां साहाय्यमपेक्षितम् । मार्ग्गदर्शनञ्च तेषां येषां समूहसञ्चालनाभ्यासो वर्त्तते ।
इति निवेदयति
ललितालालितः