प्रीतिभोजनम्
प्रीतिकरभोजनस्मरणेन प्रथमतः बालकृष्णस्य मूर्तिरेव दृग्गोचरा भवति।परितः उपविष्टानां गोपालकानां मध्ये श्रीकृष्णः व्यच्यस्तपादारविन्देन उत्थास्य, वामबाहुमूले दण्डं संस्थाप्य, मित्रैः आनीतशीतलान्नं तस्मिन् च्यूतव्यञ्जनं दधिं च दक्षिणहस्तेन सम्मिश्रीकृत्य , वामहस्ते तदन्नं संस्थाप्य एकैक कबलं एकैक मित्रस्य वदने प्रेमपूर्वकतया स्मितवदनेन समर्प्यमानं तं अपारकरुणामूर्तिं किं वर्णयामि? तस्मादमृतमूर्तेः हस्तात् पतित अन्नरेणुरपि अमृतमेव खलु।
बहुप्रकारकानि मिष्टान्नानि अथवा कटुपदार्थानि वा प्रेमविहीनाः परिवेषयन्ति चेत् किमस्ति प्रयोजनम्?
ऐश्वर्यमदस्य दुर्योधनगेहं वासुदेवः न अगमत्। धनविहीनस्य दासीपुत्रस्य सात्त्विकभक्तस्य विदुरगेहमेव गत्वा तत्र ताभ्यां भक्तिपारवश्येन समर्पित कदलीफलत्वच एव अनुग्रहपूर्वकेण भुक्तःभक्तपरिपालकः।
प्रीत्या परिवेषितभोजनमेव ननु प्रीतिभोजनम्!
बाला...✍