अजन्तधातूनां कुत्र इडागमः भवति कुत्र न भवति? इति विषये मम ज्ञानानुसारं लिखामि| दोषः अस्ति चेत् संशोधनं करोतु
अकारान्त: तथा ऊकारान्त: धातोः इडागमः भवति|| अन्य अजन्तधातवः इडागमं न इच्छन्ति| उदाहरणम्
कथय* अकारान्तधातुः अतः इडागमः भवति| कथयितुम्| कृ कारय* अकारन्तःअतः इडागमः भवति कारयितुम्|
आकारन्तः इकारान्तः ईकारान्तः, उकारान्तः इत्यादयः इडागमः न इच्छन्ति|उदा दा दातुम् इडागमः न|
जि जेतुम् इडागमः न|, नी नेतुम् इडागमः न| स्तु स्तोतुम् इडागमः न|
किन्तु ऊकारन्तः इडागमः इच्छति| भू भवितुम्|
ए ऐ ओ औ एजन्तानां आ आदेशः|
व्हे व्हा व्हातुम्, ध्यै ध्या ध्यातुम्, सो सा सातुम्, त्रै त्रा त्रातुम्|
अजन्तधातूनां तुमुन् विषये लिखितवती| संशोधनानन्तरं हलन्त धातूनां विषयेलेखिष्यामि| कृपया दोषनिवारणं करोतु|
*णिजन्तधातूनां अय विकरणेन अकारन्तःभवति| कथ कथय, कृ णिचि(
कारय)*( कथय=अङ्गम्। कारय=अङ्गम्।)
आशासे संशोधनं कृत्वा प्रेषयतु। प्रतीक्षे।
वसन्ताश्यामलम्
नागपुरम्