नववर्षपञ्चकम्-2018
*******************
(१)
सिद्धिब्रह्मखनेत्रवर्षरुचिरं प्रायाति विश्वं मुदा
सर्वेभ्योतिसुखं प्रशान्तिनिकरं प्रीतिं च तद् दास्यति।
एषाशा हृदि वर्तते बुधजनाः! सर्वे मिलित्वा द्रुतं
तस्य स्वागतकर्मणे प्रमुदिताः नूनं भवेमाधुना।।
(२)
न प्रातः प्रतिभाति नूतनतया सूर्यो न दिनं निशा
नो सायं न हि चन्द्रमा नवदशां गृह्णाति तारा न वा।
पृथ्वी नापि दधाति नूतनतनुं न प्राणिनो मानवाः
किंत्वाशा हृदि नृत्यति प्रतिपलं प्रायाति वर्षं नवम्।।
(३)
ख्रीस्तानां नववत्सरो भवतु वा यस्यापि कस्यापि वा
संसारे तु समस्तलोकहृदये भावो नवो जायते।
वर्षैकं परिवर्द्धतेस्य जगतः तेनापि सर्वस्य च
तत् वन्देखिलवर्द्धकं सुखमनाः वर्षं नवीनं मुदा।।
(४)
वर्षैकं च समेधतेपि जगतः सर्वस्य वै नश्यति
सेवाकार्यगृहे समस्य समयः संवर्द्धते क्षीयते।
तद्वार्त्ता परिलक्ष्यते न हि किमु प्रायात् नवो वत्सरः
तत् वन्देखिलवर्द्धकं सुखमनाः वर्षं नवीनं मुदा।।
(५)
सर्वेस्मिन् स्वविर्द्धनं प्रतिदिनं पश्यन्ति नाशं न हि
वर्षस्यागमने विरुद्धवचनं मा चिन्तयन्तु ध्रुवम्।
पृष्ठं मन्दकथां विहाय सकलाः पश्यन्तु वृद्धिं सदा।
नूनं भास्यति नः सुखं बहुविधं वन्दे नवं वत्सरम्।।
( पं.श्रीव्रजकिशोरत्रिपाठी)