Subhashita series 2: tisraH gatayaH

63 views
Skip to first unread message

Naresh Cuntoor

unread,
Jun 10, 2017, 10:08:56 AM6/10/17
to Sanskrit

Before we go into the next subhashita, two quick points: the sentences in the explanation below will be structurally repetitive. The repetitive pattern is meant for practice. Secondly the sentences are kept relatively short. I would encourage beginners to follow that practice.


दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।

यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥

 

दानं भोगः नाशः तिस्रः गतयः भवन्ति वित्तस्य ।

यः न ददाति न भुङ्क्ते तस्य तृतीया गतिः भवति ॥

 

वित्तस्य = धनस्य

 

वित्तस्य (धनस्य) तिस्रः गतयः भवन्ति |

ताः काः (गतयः )?

(1) दानं च (2) भोगः च (3) नाशः च ।

 

वित्तस्य प्रथमा गतिः दानम् ।

वित्तस्य द्वितीया गतिः भोगः ।

वित्तस्य तृतीया गतिः नाशः ।

यः न ददाति न भुङ्क्ते वा तस्य तृतीया गतिः (नाशः) भवति ।

 

  1. दानी etc.

कश्चित् दानी भवेत्, अथवा भोगी भवेत् । नो चेत् सः नश्यति ।


एकवचनम् - बहुवचनम्


सः दानी । ते दानिनः ।

कश्चित् दानी । केचित् दानिनः ।

कश्चित् भोगी । केचित् भोगिनः ।


दानी ददाति । दानिनः ददति । (“ददन्ति” अशुद्धम्)

भोगी भुङ्क्ते । भोगिनः भुञ्जते ।

वाग्मी वदति । वाग्मिनः वदन्ति ।

प्राणी चरति । प्राणिनः चरन्ति ।

भयापहारी रक्षति । भयापहारिणः रक्षन्ति ।

गुणी गुणं जानति । गुणिनः गुणं जानन्ति ।

गुणी गुणिनम् अभिजानाति । गुणिनः गुणिनम् अभिजानन्ति ।

 

एकवचनम् - द्विवचनम् - बहुवचनम्

दानी ददाति । दानिनौ ददतः । दानिनः ददति ।

वाग्मी वदति । वाग्मिनौ वदतः । वाग्मिनः वदन्ति ।

भोगी भुङ्क्ते । भोगिनौ भुञ्जाते । भोगिनः भुञ्जते ।

भक्तः उपास्ते । भक्तौ उपासाते । भक्ताः उपासते ।

 

 

2. गतिः

त्रिषु वचनेषु --

गतिः गती गतयः ।

मतिः मती मतयः ।

गिरिः गिरी गिरयः ।

रविः रवी रवयः ।

 

एका गतिः । द्वे गती । तिस्रः गतयः । चतस्रः गतयः । पञ्च गतयः । षट् गतयः …

एका मतिः । द्वे मती । तिस्रः मतयः । चतस्रः मतयः । पञ्च मतयः । षट् मतयः …

एकः गिरिः । द्वौ गिरी । त्रयः गिरयः । चत्वारः गिरयः । पञ्च गिरयः । षट् गिरयः ….

एकः रविः । द्वौ रवी । त्रयः रवयः । चत्वारः रवयः । पञ्च रवयः । षट् रवयः ….

एकः सन्धिः । द्वौ सन्धी । त्रयः सन्धयः । चत्वारः सन्धयः । पञ्च सन्धयः । षट् सन्धयः …

 

गिरि, रवि, सन्धि, सारथि, अतिथि, हरि …। एते पुंलिङ्गशब्दाः ।

मति, गति, रति, प्रतीति, सन्तति, सिद्धि … । एते स्त्रीलिङ्गशब्दाः ।

 

प्रश्नः -  शब्दस्य लिङ्गं कथं जानीमः ?

उत्तरम् - शब्दस्य लिङ्गं अभ्यासेन जानीमः । शब्दस्य लिङ्गं कोषदर्शनेन जानीमः ।

(अमरकोषः, Apte, Monier Williams, शब्दार्थकौस्तुभः इत्यादयः कोषाः विश्वासार्हाः । Also see other recent emails regarding Sanskrit dictionaries.)



Reply all
Reply to author
Forward
0 new messages