पद्यपूरणम् - संस्कृतं सांप्रतं‌ नः॥

59 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 24, 2013, 3:42:59 PM9/24/13
to padyadhaaraa पद्यधारा
अधोसूचितकार्यक्रमे कविसम्मेलनम् अपि भवति, यत्र उपर्य् उक्ता पद्यभागः पूरयिष्यते।

http://www.intlarts.com/
Live webcast

National Sanskrit Festival in commemoration of the 150th Birth Anniversary of Pt. MM Malviya

Organized by Samskriti Foundation
Date 18th to 20th October
Venue Mysore Multi vision Theater,
ISKCON,
Rajajinagar,
Bangalore

--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 24, 2013, 3:52:29 PM9/24/13
to padyadhaaraa पद्यधारा
+bcc: आळ्वारवर्यः पद्यकर्ता च अधोसूचितमेलनस्य आयोजकेष्व् अन्यतमः।

बुद्धेश् शक्तिः सर्वतो काङ्क्ष्यते हि
कार्यप्राप्तौ वित्तवृद्धौ तथैव।
दिष्ट्या प्राप्तं शाणवत्तीक्ष्णकारि
कालेस्मिन् वै संस्कृतं सांप्रतं नः॥


2013/9/24 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 24, 2013, 6:28:05 PM9/24/13
to padyadhaaraa पद्यधारा
पाश्चात्यं वै पवति पवने नश्यति ह्यार्षबोधे
भ्रष्टाचारात् पतति भुवने ऽसात्त्विके दुष्टजाले।
संस्काराणां गलनसमये भानुवत्भास्वरं हि
कष्टे काले तिमिरगगने संस्कृतं साम्प्रतं नः॥ 



विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 24, 2013, 6:40:42 PM9/24/13
to padyadhaaraa पद्यधारा
पव् इति आत्मनेपदी।


2013/9/24 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
पाश्चात्यं वै पवति पवने नश्यति ह्यार्षबोधे
पाश्चात्यं वै कपटपवने नश्यति ह्यार्षबोधे

iragavarapu narasimhacharya

unread,
Sep 24, 2013, 11:23:03 PM9/24/13
to padyad...@googlegroups.com
समस्यापूरणानि रम्याणि भावगर्भितानि च।

धन्यवादः।


2013/9/25 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>

Vijaya Venkatesh

unread,
Sep 25, 2013, 3:39:21 PM9/25/13
to padyad...@googlegroups.com
adhassUcita, uparyuktA? (mudrArAkshasasya lIlEti manyE)

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 25, 2013, 3:48:10 PM9/25/13
to padyadhaaraa पद्यधारा

2013/9/25 Vijaya Venkatesh <vij...@sundararanga.com>
उपकृतोऽस्मि।

adhassUcita,
आम्। सन्धौ दोषः कृतः।
 
uparyuktA? (mudrArAkshasasya lIlEti manyE)
अत्र मुद्रणदोषो नास्ति - अपि तु मम प्रिया लेखनशैली। सन्धौ कृते अहं बहुशः पठनसौकर्यार्थं पदयोः पृथक्त्वं रक्षितुं प्रयते। उदाहरणाय-

हरिर् अस्ति (<-- हरिरस्ति)।
लक्ष्म्य् आगता (< -- लक्ष्म्यागता)।

Vijaya Venkatesh

unread,
Sep 25, 2013, 4:00:52 PM9/25/13
to padyad...@googlegroups.com
tarhi, "uparya uktA'  na bhavati, upary uktA bhavati khalu?  ata Eva mudranAdOsha ityamanyE.

bhavatAm sarvEshAm padyadhArA atiruchirA!  EvamEva abhisramsatAm, abhivardhatAm!!




2013/9/25 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 25, 2013, 5:21:28 PM9/25/13
to padyadhaaraa पद्यधारा

2013/9/25 Vijaya Venkatesh <vij...@sundararanga.com>

tarhi, "uparya uktA'  na bhavati, upary uktA bhavati khalu?  ata Eva mudranAdOsha ityamanyE.

सत्यम्। एवमेव खलु लिखितम् - "उपर्य् उक्ता" इति। मम सङ्गणके तु तथैव दृश्यते - 

Inline image 1

अधुना लिङ्गप्रमादोऽपि लक्षितः  - "उक्ता पद्यभागः" इति। किञ्च "समस्या" इति लिखितुम् आरभ्य, पश्चाद् "अत्र समस्या एव नास्ति, पद्रपूरणं सुलभम्" इति विचिन्त्य मध्ये वाक्यं परिवर्तयति संपूर्णपरिशीलनं न कृतं सम्यक्। :-)
image.png

Vijaya Venkatesh

unread,
Sep 26, 2013, 12:31:07 AM9/26/13
to padyad...@googlegroups.com
nUnamitarapramAdah naiva drShTO mayA!!  pramAdabhayEna nirlEkhanam nOchitam.  tasmAt kAraNAt adya mahyam lEkhanAbhyAsa Eva naShTam.  bhavantah sarve samyak likhanti, dayayA bhavadbhyah dhArA vahatu.




2013/9/25 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
image.png

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 26, 2013, 1:36:40 AM9/26/13
to padyadhaaraa पद्यधारा

2013/9/25 Vijaya Venkatesh <vij...@sundararanga.com>
pramAdabhayEna nirlEkhanam nOchitam.  ...  bhavantah sarve samyak likhanti, dayayA bhavadbhyah dhArA vahatu.
तत्र भवत्याः सन्देह एव मास्तु - किञ्च

सदोषभाषावचने हि धीरो
विदग्धनिन्दाबहुलं च मृष्ट्वा।
सुसूचितेभ्यस् स्वदुरुक्तिशोधं
कुर्वन् रमेऽहं कवितासु रक्तः॥ 

iragavarapu narasimhacharya

unread,
Sep 26, 2013, 6:16:29 AM9/26/13
to padyad...@googlegroups.com
पद्यं रम्यम्भोः।अभिनन्द्यते।अतीव सरळम्। सुलभमवगन्तुञ्च।
अभिवाद्य,
ऐवियन्।


2013/9/26 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>

H. K. Ramapriyan

unread,
Sep 26, 2013, 6:24:15 PM9/26/13
to padyad...@googlegroups.com
हरिर् अस्ति (<-- हरिरस्ति)।
लक्ष्म्य् आगता (< -- लक्ष्म्यागता)।
 
विश्वासमहोदय, नमस्ते । एवं लेखनमहं केवलं भवतः एव दृष्टवान् । असाधारणमिदम् ।
 
भवदीयः,
रामप्रियः ।

H. K. Ramapriyan

unread,
Sep 26, 2013, 6:35:09 PM9/26/13
to padyad...@googlegroups.com
प्रियभगिनि विजये,
 
तवापि स्रवतादत्र पद्यधारेति मे मतम् ।
मा भूद्भयं लेखनेषु नाभ्यस्तेत्यपि चिन्तनम् ॥
 
दोषा भवन्ति चेत्तत्र का हानिः किं प्रणश्यति ?
बन्धुमित्राणि खल्वत्र उत्सुक्ताः किल पाठकाः ॥
 
रामप्रियः ।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 26, 2013, 6:35:41 PM9/26/13
to padyadhaaraa पद्यधारा

2013/9/26 H. K. Ramapriyan <ramap...@verizon.net>

हरिर् अस्ति (<-- हरिरस्ति)।
लक्ष्म्य् आगता (< -- लक्ष्म्यागता)।
 
विश्वासमहोदय, नमस्ते । एवं लेखनमहं केवलं भवतः एव दृष्टवान् । असाधारणमिदम् ।

प्रथमम् अहं एतादृशशैलीं धनञ्जयवैद्यो नाम स्नेहितस्य लेखने दृष्टवान्, पश्चाद् अन्यत्र अन्तर्जाले मानसतरङ्गिण्यादौ आङ्ग्लाक्षरैर् लिखितेषु संस्कृतांशेषु। मह्यं बह्वरोचत। "पठनसौलभ्य-सन्ध्य्-अभ्यासयोर् इदम् उचितं समतोलनम्" इत्य् अभात्। तथा "पदानां मध्ये रिक्तस्थानयोजनादिकम् आङ्ग्लिकेभ्य एव अस्माभिः स्वीकृतम् - प्राचीनतालपत्त्रेषु रिक्तस्थानमेव न क्वचिद् दृश्यते। एवं तर्हि इतोऽपि ईषद् विधिपरिवर्तनेन न अधिकहानिर्, अपि तु लाभ एव स्याद्।" इति चिन्तितवान्। तस्मात् स्वीकृतेयं पद्धतिः। क्रमेण भवद्भ्योऽपि रोचिष्यत इति मम ऊहः।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 26, 2013, 6:42:42 PM9/26/13
to padyadhaaraa पद्यधारा
2013/9/26 H. K. Ramapriyan <ramap...@verizon.net>
प्रियभगिनि विजये,
 
तवापि स्रवतादत्र पद्यधारेति मे मतम् ।
मा भूद्भयं लेखनेषु नाभ्यस्तेत्यपि चिन्तनम् ॥
 
दोषा भवन्ति चेत्तत्र का हानिः किं प्रणश्यति ?
बन्धुमित्राणि खल्वत्र उत्सुक्ताः किल पाठकाः ॥
साधूक्तम्।

प्रागलक्षितेषु सत्सु ज्ञापनम् - 
  • उत्सुक्ता -> सन्देहः व्युत्पत्तौ। तथा च पादादौ सन्धिर् अपेक्षितः।
  • अभ्यस्त -> पदस्य उत्पत्तिः/ पदसंज्ञा कथम्?

Naresh Cuntoor

unread,
Sep 26, 2013, 7:06:05 PM9/26/13
to padyad...@googlegroups.com
अतिदीर्घप्रसङ्गे एतादृशस्य लेखनस्य उपयोगः भवेत् । परं 'हरिर् अस्ति' इत्यादिषु 'हरिरस्ति' इत्येव सरलतरं भाति । अतः एतादृशी पद्धतिः वर्जनीया इत्यभिप्रैमि ।



2013/9/26 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>

H. K. Ramapriyan

unread,
Sep 26, 2013, 7:12:06 PM9/26/13
to padyad...@googlegroups.com
अभ्यस्ता इति स्त्रीलिङ्गे प्रथमैकवचनान्तरूपम् । अभ्यस् धातोः क्तप्रत्ययः ।
उत्सुत्क्ता: इति पदे दोषः भवेत् । अहं चिन्तितवान् तत् उत्सह् धातोः क्तप्रत्ययान्तरूपम् इति । नो चेत् उत्सुकाः इति सूक्तम् । सन्धिर्यदि भवितव्यं तर्हि ह्य्तुसुकाः इति भवतु !
 
Subject: Re: पद्यपूरणम् - संस्कृतं सांप्रतं‌ नः॥

H. K. Ramapriyan

unread,
Sep 26, 2013, 8:06:59 PM9/26/13
to padyad...@googlegroups.com
पृथक् लिखितानां पदानां उच्चारणमपि पृथक् कर्तुं मनः प्रवर्तते । अतः “इत्य् अभात्” इति लिखितस्य उच्चारणे क्लेशः भवति । “अहम् आगच्छामि” इत्यत्र न क्लेशः ।
 
रामप्रियः ।
 
Sent: Thursday, September 26, 2013 7:06 PM
Subject: Re: पद्यपूरणम् - संस्कृतं सांप्रतं‌ नः॥
 

iragavarapu narasimhacharya

unread,
Sep 26, 2013, 10:38:40 PM9/26/13
to padyad...@googlegroups.com
श्री रामप्रियः यदभिप्रैति तत्सत्यम्।"इत्य् अभात्" इत्यस्य अर्थ एव न स्फुरति खलु।
प्रणम्य,
ऐवियन्।


2013/9/27 H. K. Ramapriyan <ramap...@verizon.net>

Avinash L Varna

unread,
Sep 26, 2013, 10:48:30 PM9/26/13
to padyadhaaraa
असु क्षेपणे इति दिवादिगणातर्भूतो धातुः सकर्मकः । 'अभि' उपसर्गपूर्वकोऽपि सकर्मक एव इति मन्ये । 'अभ्यस्त' इति क्तान्तस्य पदस्य कर्मणि प्रयोग एव युज्यते । अत्र "पद्यरचना" नाभ्यस्ता इत्यध्याहृत्य समाधातव्यं भवेत् ।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 27, 2013, 12:40:22 AM9/27/13
to padyadhaaraa पद्यधारा
2013/9/26 H. K. Ramapriyan <ramap...@verizon.net>
पृथक् लिखितानां पदानां उच्चारणमपि पृथक् कर्तुं मनः प्रवर्तते । अतः “इत्य् अभात्” इति लिखितस्य उच्चारणे क्लेशः भवति । “अहम् आगच्छामि” इत्यत्र न क्लेशः ।

हरिर् अस्ति। हरिः अस्ति । हरिरस्ति। 

१।।।।।
**प्रायः** सर्वत्र वस्तुतो वाक्यानां लेखने रिक्तस्थानेषु दर्शितेषु अपि, उच्चारणे तत्कारणाद् विरामो न लक्ष्यते। उदाहरणाय, गतवाक्यम् उक्त्वा पश्यतु, साधारणरीत्या। केवलम्, '**' इति चिह्नेन च ',' चिह्नेन सूचितयोस् स्थानयोश् च विरामो ऽनुभूयते। स्वरव्यत्ययस् तु यथा साधारणं भिन्नपदेषु दृश्यते - तत्र न किमप्य् उच्यते।

कदाचित् तच्छिह्नाभावेऽपि विरामो लक्ष्येत, परन्तु "तद् रिक्तस्थानस्य कारणाद् एव" इति न वक्तुम् अर्हामः। प्रायः तत्र विरामचिह्नयोजनं श्रेयस इति वचनन्तु साधु स्यात्।

आङ्ग्लिके ऽपि तथैव। "I went to hear the conference call. But it was so noisy that I quit." इति वाक्यं सस्वरं यथासाधारणम् उक्त्वा परीक्षताम्। तत्रापि न कुत्रापि विरामो लक्ष्यते। एवं "रिक्तस्थानात् पृथक्पठनं" नाम विरामस्वीकृतिर् इति सूचिता चेत्तर्हि, "हरिर् आगतः" इत्यादौ पृथक्पठनस्य संभावना एव नास्ति।

सर्वासु भाषासु इयमेव स्थितिः। लेखने पदयोर् मध्ये रिक्तस्थानयोजनेन विनावचनं शीघ्रपठनं स्पष्टतरञ्च भवतीति कृत्वा रिक्तस्थानयोजनपद्धतिर् आश्रिता। उच्चारणनिमित्तन्तु भिन्नचिह्नाः‌ (, ; । इत्यादयः) प्रयुज्यन्ते।

२।।।।।.
एवं विरामाभावे सन्धिकार्यं तु अनिवार्यम् अस्ति - वाक्यसंस्कारः (वाक्ये संस्कृतत्वम्) अन्यथा न पूर्णा। अत्र=
 
संहितैकपदे नित्या नित्या धातूपसर्गयोः।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते॥

इति श्लोकस्य अर्थं विवर्णयन् हरिनारायणो नाम कश्चन विद्वान् एवम् अवोचत् (वाक्येषु नियतरूपेण दृश्यमाने अनुस्वारसन्धौ नियतत्वस्य विषये वादे जाते ) -

"विवक्षाधीनं सन्धिकरणमिति वैकल्पिकत्वस्याशयः। … श्लोके, श्लोकार्धे श्लोकान्ते च विरामो भवति इति तत्र वाक्ये सर्वथा सन्धिकरणमेव श्लोकरूपेण पठनसौकर्याय प्रभवति। 

एवमेव, भाषणे विरामादिसूचकान्येव वाक्यांशबोधकतया प्रयोक्तुं शक्यन्ते, यथा भाषान्तरेषु --- इति हेतोः, विरामादिचिह्नं विना सन्धिरहितः प्रयोगः भाषणे पठने चासौकर्याय भवतीति व्यवस्था लेखनेऽपि युज्यते एव। …  
"

३।।।।।
मतम् इदं मया अङ्गीकृतम्। पुरातनकाव्येषु शास्त्रेषु च तादृश एव प्रयोगो दृश्यते गद्येष्व् अपि। तदनुसरणे पठनवेगस्य स्पष्टताया वा ग्लानिर् माभूत् मादृशेषु प्रारम्भस्तरकौशलवत्स्व् इति च इच्छा। यत्र यत्र सन्धिकरणेन मादृशेषु सावगमनपठनवेगहानिर् अनिवार्या, तत्र तत्र तु मया बहुशः सन्धिर् न क्रियते - यथा "च इच्छा = चेच्छा। संभावना एव = संभावनैव"।

एवन् तथा स्थितस्य मे भाति - 

अभ्यासोद्भवता नूनं
रुचिर् लिपौ च भोजने।
रुचिरन्यापि जायेत
क्रमशो नूत्नसेवने॥ 

अतृप्ततायां विपरीतपक्षे
दृष्ट्वा स्थितोऽहं खलु पूर्वपक्षे।
न मन्यतां तत्र मदादिदोषं
स्यात् तत्र निष्ठानुभवे प्रकृष्टा॥

H. K. Ramapriyan

unread,
Oct 3, 2013, 12:12:48 PM10/3/13
to padyad...@googlegroups.com
But, every group of letters separated by a space in English is a separate and meaningful word on its own. On the other hand groups of letters such as हरिर्,  पदयोर्, कारणाद्, पद्धतिर्, एवन् do not form meaningful words. While there are no well defined sandhis in English,  the analogs of sandhi are things like don’t + you = donchyou; would + you = wujyou. Following the practice you have started, these would be written as donch you and wuj you! Do you have examples in other languages to support this practice?
 
Subject: Re: पद्यपूरणम् - संस्कृतं सांप्रतं‌ नः॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 3, 2013, 12:37:37 PM10/3/13
to padyadhaaraa पद्यधारा


2013/10/3 H. K. Ramapriyan <ramap...@verizon.net>

On the other hand groups of letters such as हरिर्,  पदयोर्, कारणाद्, पद्धतिर्, एवन् do not form meaningful words.

कुतो न अर्थपूर्णानि इमानि पदानि? 
 
While there are no well defined sandhis in English,  the analogs of sandhi are things like don’t + you = donchyou; would + you = wujyou. Following the practice you have started, these would be written as donch you and wuj you! Do you have examples in other languages to support this practice?
 
https://www.google.com/search?q=donchyou&oq=donchyou&aqs=chrome..69i57&sourceid=chrome&ie=UTF-8 :-)

संस्कृते तु ऽधुना अत्रापि मया दृष्टम् - http://www.sanskritassociation.org/the-e-messenger.php ।

Ajit Krishnan

unread,
Oct 3, 2013, 2:56:25 PM10/3/13
to padyad...@googlegroups.com
namaste bhoH,

[ Take this honest feedback for what it's worth ]


On the other hand groups of letters such as हरिर्,  पदयोर्, कारणाद्, पद्धतिर्, एवन् do not form meaningful words.


etat tu siddham mama dRShTyA -- iidRk lekhanam / paThanam na vA sulabham, na vA anyam vAstavikam klesham apaharati. nAham sarvANi api email patrANi paThAmi. yatra adhikaH anAvashyakaH kleshaH, tadeva Adau upekShyate loke. tatrabhavatA tAtparyam gRhiitam manye.

sasneham,

    ajit

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 3, 2013, 4:15:23 PM10/3/13
to padyadhaaraa पद्यधारा

2013/10/3 Ajit Krishnan <ajit.k...@gmail.com>

[ Take this honest feedback for what it's worth ]
नूनं बहूपकृतोऽस्मि - प्रतिस्पन्दे सर्वथा मास्तु सङ्कोचः। सर्वस्यापि प्रतिस्पन्दो ममोपकाराय एव वर्तते। 
 
 
etat tu siddham mama dRShTyA -- iidRk lekhanam / paThanam na vA sulabham, na vA anyam vAstavikam klesham apaharati. nAham sarvANi api email patrANi paThAmi. yatra adhikaH anAvashyakaH kleshaH, tadeva Adau upekShyate loke. tatrabhavatA tAtparyam gRhiitam manye.

नूनं सत्यम् अवोचत्। अहमपि बहुशः‌ एवमेव IAST/ ITRANS लेखनस्य पठने /अनिच्छाम् अनुभवामि (यद्यपि केचनान्ये तदेव इच्छन्ति), देवनागरी तु मे सर्वप्रिया। 

यद्यपि एतावत् स्वाभ्यासस्य परिवर्तनस्य निश्चयो न जातः [*], प्रतिक्रियामिमां स्मरामि, तेन भविष्ये लेखन-विधान-परिवर्तनम् उद्भवेत्।  


--
--
Vishvas /विश्वासः

[*] - अधुना तु प्रतिक्रियाप्राप्तौ तावान् क्लेशः नानुभूतः।

S. Subrahmanya

unread,
Oct 4, 2013, 12:44:20 AM10/4/13
to padyad...@googlegroups.com
१. संस्कृत-भारत्या   संभाषण-सन्देशे   "-" चिह्नस्य  प्रयोगः   क्रियते  |    "-" चिह्नं संबन्धं सूचायति |

२.  यत्र  दीर्घम् पदम् अस्ति ,   तत्र  "-" स्थापयाम चेत्  , पठितुं  सुलभ: भवेत्  |
    उदाहरणार्थम्    "संभाषण-सन्देश:"  
     अत्र  , उचिते स्थाने  "-" चिह्नं स्थापितम्  अस्ति |
  
यदि,  "संभा-षणसन्देश:"    इति अस्माभि: क्रियते   , तर्हि क्लेश: भवति |

मम   नाणक-द्वयम्







2013/10/3 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 4, 2013, 1:32:18 AM10/4/13
to padyadhaaraa पद्यधारा

2013/10/3 S. Subrahmanya <snmp...@gmail.com>

१. संस्कृत-भारत्या   संभाषण-सन्देशे   "-" चिह्नस्य  प्रयोगः   क्रियते  |    "-" चिह्नं संबन्धं सूचायति |

२.  यत्र  दीर्घम् पदम् अस्ति ,   तत्र  "-" स्थापयाम चेत्  , पठितुं  सुलभ: भवेत्  |
    उदाहरणार्थम्    "संभाषण-सन्देश:"  
     अत्र  , उचिते स्थाने  "-" चिह्नं स्थापितम्  अस्ति |
  
यदि,  "संभा-षणसन्देश:"    इति अस्माभि: क्रियते   , तर्हि क्लेश: भवति |

सत्यम् - अहमपि दीर्घसमासे ताम् पद्धतिं प्रयुञ्जे। यथा अजित-नरेश-रामप्रिया इति पदे।

अत्र चर्चा सन्धिनां विषये।

H. K. Krishnapriyan

unread,
Oct 4, 2013, 9:30:24 AM10/4/13
to padyad...@googlegroups.com

सं-भाषण वा संभाषण?

To hyphen or not to hyphen, that is the question. Whether it is ....???

H. K. Ramapriyan

unread,
Oct 7, 2013, 8:40:44 PM10/7/13
to padyad...@googlegroups.com
लेखन-विधान-चर्चया अलम् ! अत्रस्त्येकं पद्यपूरणम् (एतदस्ति government shutdown & debt ceiling gridlock प्रति ।)
 
द्वैपक्षीये महति कलहे वर्तते सर्वकारः
उद्योगिभ्यो न भवति धनं वेतनार्थं तु किञ्चित् ।
नो जानीमो ऋणमिह कथं वृद्धिमाप्नोति चेति
ह्येवम्भूते जगति सुखदं संस्कृतं साम्प्रतं नः ॥
 
 
 
 
 
Sent: Friday, October 04, 2013 9:30 AM
Subject: Re: पद्यपूरणम् - संस्कृतं सांप्रतं‌ नः॥
 

iragavarapu narasimhacharya

unread,
Oct 7, 2013, 10:56:32 PM10/7/13
to padyad...@googlegroups.com
महोदयाः,
प्रणम्य।      इदमिदं कवयेऽस्मै
                नमोवाकं प्रशासेऽहम् ।
                वन्दे तावद्वाणीञ्चेमां
                वन्द्यां वाचामधीश्वरीम्॥
आवेशं विना कवित्वं नाविर्भवतीति कवित्वतत्त्ववेदिनः कथयन्ति। तत्सत्यमिति
निरूप्यते श्लोकेनैवं कृष्णप्रियमहोदयस्य।अद्यतनदेशीयवातावरणमत्र कारणम्।पश्यन्तु
दिने दिने रक्तचन्दनद्रुमाः अपह्रियन्ते नीयन्ते च विदेशेभ्यः।प्रजास्वाम्ये प्रजादृष्टिर्नास्ति
पालकानाम्।प्रजाः कथं कष्टमनुभवन्तीत्यपि च न ज्ञायते तैः।अत एवेयमीदृशी वाणी प्रादु
र्भवति देशेऽस्मिन्। बहुधा अभिनन्द्यते।
अभिवाद्य,
ऐवियन्।


2013/10/8 H. K. Ramapriyan <ramap...@verizon.net>

Naresh Cuntoor

unread,
Oct 7, 2013, 11:10:30 PM10/7/13
to padyad...@googlegroups.com
Good one!



2013/10/7 H. K. Ramapriyan <ramap...@verizon.net>

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 7, 2013, 11:37:55 PM10/7/13
to padyadhaaraa पद्यधारा

2013/10/7 iragavarapu narasimhacharya <iviy...@gmail.com>

निरूप्यते श्लोकेनैवं कृष्णप्रियमहोदयस्य।अद्यतनदेशीयवातावरणमत्र कारणम्।पश्यन्तु

साधूक्तम्, परमवधेयम् - रामप्रियोऽयं कृष्णप्रियाग्रजः।

H. K. Ramapriyan

unread,
Oct 9, 2013, 4:09:17 PM10/9/13
to padyad...@googlegroups.com
पुनरत्र पूरणद्वयम् --
 

संसारेऽस्मिन्नपारे जलनिधिसदृशे सन्ततं सन्निमग्नाः

क्षुध्बाधा व्याधिपीडाश्शमयितुमधिकाः मार्गमालोकयन्तः ।

सेवावृत्तयै तु कञ्चिद्धनमदविवशं प्रार्थयन्तो नमन्तः

एवम्भूता वयं च प्रमुदितमनसस्संस्कॄतं साम्प्रतं नः ॥

 

मुनिजनकथितानां श्राव्यवाक्यानि यस्मिन्

कविगणलिखितानां पठ्यवाक्यानि यस्मिन् ।

गुरुजनगदितानां शास्त्रवाक्यानि यस्मिन्

भवभयहरणं तत् संस्कृतं साम्प्रतं नः ॥

 

Subject: Re: पद्यपूरणम् - संस्कृतं सांप्रतं‌ नः॥

H. K. Ramapriyan

unread,
Oct 9, 2013, 8:04:39 PM10/9/13
to padyad...@googlegroups.com
Typo – सेवावृत्तयै ---> सेवावृत्त्यै

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 11, 2013, 8:54:14 PM10/11/13
to padyadhaaraa पद्यधारा

2013/10/9 H. K. Ramapriyan <ramap...@verizon.net>

 

मुनिजनकथितानां श्राव्यवाक्यानि यस्मिन्

कविगणलिखितानां पठ्यवाक्यानि यस्मिन् ।

गुरुजनगदितानां शास्त्रवाक्यानि यस्मिन्

भवभयहरणं तत् संस्कृतं साम्प्रतं नः ॥

 


अतिमधुरम्। श्राव्यवाक्याणि, शास्त्रवाक्याणि इति स्यान् नु?

H. K. Ramapriyan

unread,
Oct 12, 2013, 9:06:50 PM10/12/13
to padyad...@googlegroups.com
विश्वासमहोदय,
 
यदा नः णायते इति नियमम् अहं न स्मरामि । रकारः एतयोः पदयोः नकारतः अतिदूरे अस्ति इत्यतः “...वाक्यानि” इत्येव साधु इति मन्ये ।
 
धन्यवादः ।
रामप्रियः ।
 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 13, 2013, 1:18:33 AM10/13/13
to padyadhaaraa पद्यधारा

2013/10/12 H. K. Ramapriyan <ramap...@verizon.net>

यदा नः णायते इति नियमम् अहं न स्मरामि । रकारः एतयोः पदयोः नकारतः अतिदूरे अस्ति इत्यतः “...वाक्यानि” इत्येव साधु इति मन्ये ।

8.4.1 इत्यादीन् सूत्रान् ईषद्दृष्ट्वान्। समस्तपदे साधारणतः पूर्वपदाद् उत्तरपदे न णत्वम्। भवदुक्तवाक्यानि शुद्धानि इव भाति।

णायते = ण-वदाचर्यते इति भवद्विवक्षायाः (=णः क्रियते) भिन्नम् स्यात्।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 13, 2013, 1:20:15 AM10/13/13
to padyadhaaraa पद्यधारा

2013/10/12 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>

8.4.1 इत्यादीन् सूत्रान् ईषद्दृष्ट्वान्। समस्तपदे साधारणतः पूर्वपदाद् उत्तरपदे न णत्वम्। भवदुक्तवाक्यानि शुद्धानि इव भाति।

सूत्राणि
Reply all
Reply to author
Forward
0 new messages