मान्याःमदीया इयं जिज्ञासा यत् सर्वादिगणे पठितत्वात् ’विश्व’ इति शब्दस्य सप्तम्यैकवचने "विश्वस्मिन्" इति रूपं भवति।
साधूक्तम्। सर्वनामसञ्ज्ञायाम् –
विश्व ङि -> ङसिङ्योः स्मात्स्मिनौ (पा॰सू॰~७.१.१५) -> विश्व स्मिन् -> विश्वस्मिन्।
परं "पूर्वपरावरदक्षिणो० (१-१-३४) इति सूत्रेण पूर्वादिशब्दानां रूपद्वयं भवति यथा "पूर्वस्मिन्", "पूर्वे" इति।
मैवम्। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् (पा॰सू॰~१.१.३४) इति सूत्रं सप्तम्यां न प्रवर्तते। यतो ह्यस्मिन् सूत्रे विभाषा जसि (पा॰सू॰~१.१.३२) इति सम्पूर्णं सूत्रमनुवृत्तम्। तेन जसि विभक्तावेव विकल्पो विधीयते।
सप्तम्यां पूर्वादीनां पूर्वादिभ्यो नवभ्यो वा (पा॰सू॰~७.१.१६) इत्यनेन वैकल्पिको स्मिन् आदेशो भवति। तस्मादेव सप्तम्यां रूपद्वयं बोध्यम्।
पूर्व ङि -> ङसिङ्योः स्मात्स्मिनौ (पा॰सू॰~७.१.१५) -> पूर्वादिभ्यो नवभ्यो वा (पा॰सू॰~७.१.१६) -> पूर्व स्मिन् -> पूर्वस्मिन्। पक्षे पूर्व ङि -> पूर्व इ -> आद्गुणः (पा॰सू॰~६.१.८७) -> पूर्वे।
तथैव "विश्व" इति शब्दस्यापि रूपद्वयं भवति वा? किं "संज्ञोपसर्जनीभूतास्तु सर्वादयः" इति वार्तिकेन अत्र विकल्पो विधीयते? यतो हि क्वचित्प्रयोगेषु "विश्वेऽस्मिन्" इति प्रयोगो दृष्टः। किमयं प्रयोगःसाधुः उत प्रामादिकः। कृपया ससूत्रं सोदाहरणं विस्तारयन्तु। यदि इह पूर्वचर्चा अस्ति तर्हि तस्याः सूत्रं (thread) प्रेषयन्तु।
सादरंजानकीशरणः
सर्वनामसञ्ज्ञायां रूपद्वयं न भवति। तत्र विश्वस्मिन् इत्येव। विश्व इत्यस्य पूर्वादिषु नवशब्देषु पाठाभावात्।
परन्तु यदा विश्व इत्यस्य सर्वनामसञ्ज्ञा न तदा विश्वे इति साधु। यतो ह्यसत्यां सर्वनामसञ्ज्ञायां ङसिङ्योः स्मात्स्मिनौ (पा॰सू॰~७.१.१५) इति सूत्रमेव न प्रवर्तते। सर्वादीनां सर्वनामसंज्ञाऽर्थाधीनेत्यत्र किं प्रमाणम्। यथासंख्यमनुदेशः समानाम् (पा॰सू॰~१.३.१०) इति सूत्रकारप्रवृत्तिरत्र प्रमाणम्। सम शब्दस्य द्वावर्थौ – सर्व तुल्य चेति। यदा समशब्दः सर्ववाचकस्तदा सर्वनामसंज्ञा भवति समेषाम् इति रूपं च भवति। यदा समशब्दस्तुल्यवाचकस्तदा सर्वनामसंज्ञा न भवति समानाम् इति रूपं च भवति। एवमेव यदा विश्व शब्दो सकलवाचकस्तदा सर्वनामसंज्ञा भवति। तस्मात् विश्वस्मिन् इति रूपं भवति –
विश्व ङि -> ङसिङ्योः स्मात्स्मिनौ (पा॰सू॰~७.१.१५) -> विश्व स्मिन् -> विश्वस्मिन्।
यदा तु स संसारवाचकस्तदा सर्वनामसंज्ञा न भवति। तस्मात् विश्वे इति रूपं भवति।
विश्व ङि -> विश्व इ -> आद्गुणः (पा॰सू॰~६.१.८७) -> विश्वे।
प्रमाणं चात्र वाचस्पत्यम् –
विश्व – न॰ विश्-व (१) जगति संसारे (२) तदभिमानिनि जीवे पु॰ व्यस्तस्थूलदेहे प्रवेशात्तस्य तथात्वं वेदान्तसारे उक्तम् (३) श्राद्धदेवविशेषे पु॰ब॰व॰ (४) सकले त्रि॰ तदर्थेऽस्य सर्वनामता। ...
एतेन “विश्वस्मिन् विश्वे” (=in the whole word, सम्पूर्ण संसार में, આખા વિશ્વ માં) इति शिष्टप्रयोगो सङ्गच्छते। यथा अध्यात्मरामयणेऽपाणिनीयप्रयोगाणां विमर्शः इति ग्रन्थे प्रस्तावनायां मम गुरुभिः कृतः –
“अस्य (वैष्णवसम्प्रदायस्य) प्रायशो विश्वस्मिन् विश्वे प्रचारः प्रसारश्च।”
Please excuse typos if any
यदा विश्वशब्दो व्यापकवाचकस्तदाऽपि सर्वनामसंज्ञा न भवति। तेन ‘विविक्ते विमले विश्वे’ (वा रा ५-१-१७८) इति सुन्दरकाण्डीयसुन्दरप्रयोगो सङ्गच्छते। अत्र श्लोकसार्धषट्कमेकान्वयि –
चरिते कैशिकाचार्यैरैरावतनिषेविते॥ ५-१-१७४ ॥
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः। विमानैः संपतद्भिश्च विमलैः समलंकृते॥ ५-१-१७५ ॥
वज्राशनिसमाघातैः पावकैरुपशोभिते। कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते॥ ५-१-१७६ ॥
वहता हव्यमत्यर्थं सेविते चित्रभानुना। ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते॥ ५-१-१७७ ॥
महर्षिगणगन्धर्वनागयक्षसमाकुले। विविक्ते विमले विश्वे विश्वावसुनिषेविते॥ ५-१-१७८ ॥
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे। विताने जीवलोकस्य वितते ब्रह्मनिर्मिते॥ ५-१-१७९ ॥
बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः। जगाम वायुमार्गे तु गरुत्मानिव मारुतिः॥ ५-१-१८० ॥
अत्र “विश्वे” इति “वायुमार्गे” इत्यस्य विशेषणम्। तस्य “सकल” इत्यर्थो न। अर्थानुपपत्तेः। यतो हि हनुमान् सकले वायुमार्गे न जगामापितु लङ्कागते वायुमार्गांश एव जगाम। अत एवात्र “विश्वे” इत्यस्य “व्यापके” इत्यर्थः।
केनापि टीकाकारेण “स्मिनभाव आर्षः” इति नोक्तम्।
गोविन्दराजाः – विश्वे विश्वगते व्यापक इत्यर्थः।
तिलककारा नागेशाः – विश्वे विश्वाश्रये।
माहेश्वरतीर्थाः – विश्वे विश्वव्यापके।
शिवसहायाः – विश्वे जगदाश्रयीभूते विशाले वा।