--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
प्रियविद्वत्सुहृद्भ्य: अजय्गुप्तमहोदयेभ्य: साभिनन्दनं शक्तित्रयाणां विषये विलिख्यते।
इच्छा - क्रिया - ज्ञानशक्तीनां प्रचुरप्रचार: शाक्तेयतन्त्रेषु, शैवागमेषु च विस्तरेण दृश्यते।
दृश्यमानं जगदिदं षट् त्रिंशत्तत्त्वात्मकमिति शाक्तॆयं मतम्। तत्र परमशिवत: पृथिवीपर्यन्तेषु षट्त्रिंशत्तत्त्वेषु शिव:, शक्तिश्च शिवतत्त्वमितिनाम्ना व्यवह्रियेते।
शुद्धविद्या, ईश्वर:, सदाशिवश्चेति तत्त्वत्रयस्य विद्यातत्त्वमिति व्यवहार:। माया, पञ्चकञ्चुकानि (अविद्या, कला, राग: काल:, नियति:),
पुरुष: (जीव:), प्रकृति:, मन:, बुद्धि:, अहङ्कार:, पञ्चज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, रूपादिविषयपञ्चकम्, पञ्चभूतानि च आत्मतत्त्वमिति कथ्यन्ते।
तत्र सॄष्टिविकासे आद्य तत्त्वत्रयस्य (शिव - शक्ति - सदाशिवाख्यतत्त्वत्रयस्य) साधनत्रयमेव इच्छा - क्रिया - ज्ञानशक्तित्रयम्।
"य़दयमनुत्तरमूर्तिर्निजेच्छयाऽखिलमिदं जगत्स्रष्टुम्।
स्पन्दते स स्पन्द: प्रथम: शिवतत्त्वमुच्यते तज्ज्ञै:॥" - षट्त्रिंशत्तत्त्वसन्दोहे।
सृष्टेरुन्मुखावस्थायां निर्गुणस्य अनुत्तरमूर्ते: परमशिवस्य प्रथमस्पन्दनमेव शिवतत्त्वमिति आद्यं तत्त्वमुच्यते।
सृष्ट्यादौ स्वरूपाव्स्थितस्य परमशिवस्य "बहुस्यां प्रजायेय" इति सिसृक्षाविर्भावमात्रेण तस्य रूपद्वयं भवति। शिवरूपं, शक्तिरूपं च। तादृशस्य शिवस्य
विश्वसिसृक्षाशक्तिरेव शक्तितत्त्वमिति अभिधीयते।
अहं बहुभवेयमिति शिवगतभावनया एव इच्छाशक्तेरुदयो भवति। इच्छाशक्तित: ज्ञानशक्ति: तत: क्रियाशक्तिश्च जायते। एतत् शक्तित्रयस्य सहयोगेनैव अंकुरच्छाया इव युगपदर्थसृष्टि: शब्दसृष्टिश्च आरभ्येते। स्थितावस्मिऩ् शिव: प्रकाशरूपी, शक्तिर्विमर्शरूपिणी। पूर्णोऽहं कृत्रिमोऽहमित्यस्य स्पूर्तिरेव विमर्शशब्दग्राह्यो भवति। स्पूर्तिरियं सृष्टिकाले विश्वाकारा, स्थितिकाले विश्वप्रकाशा, प्रलयकाले च
विश्वसंहरणरूपाऽभवत्। विमर्शेन प्रकाशानुभवो जायते, प्रकाशस्थितौ च विमर्शस्य कल्पना सम्भवति। एवंविधौ शिव:, शक्तिश्च परस्पराश्लिष्टौ। अत एव -
"न शिवेन विना देवी न देव्या च विना शिव:।
नानयोरन्तरं किंचिच्चन्द्रचन्द्रिकयो रिव॥" इत्यागमेषूच्यते।
एवंविधात् सृष्ट्युन्मुखशक्तितत्त्वाज्जायते "सदाशिवतत्त्वम्" एतस्यैव "सादाख्यतत्वम्" इति व्यवहारोऽपि वर्तते।
"स्वेच्छाशक्त्युद्गीर्णं जगदात्मतया समासाद्य।
निवसन् निखिलानुग्रहनिरत: सदशिवोऽभिहित:॥" - षट्त्रिंशत्तत्त्वसन्दोहे ३श्लोक:।
अत्रोक्तक्रमेण परमशिवस्य इच्छाशक्तित: समुद्भूतं जगद्यॆनाहंरूपेण समाच्छाद्य व्यवस्थीयते तदेव निखिलजगत: अनुग्रहनिरतं "सदाशिव"तत्त्वम् इत्यभिहितम्। शक्तित्रितयसम्पन्नमिदं (इच्छा - ज्ञान - क्रियाशक्तित्रययुक्तम्) सदाशिवतत्त्वम्। अस्यैव पूर्णाहन्ता अथवा पराहन्ता इति व्यवहारोऽपि वर्तते। अनेन प्रकारेण इच्छा - ज्ञान - क्रियाशक्तित्रयं परमशिवस्याद्यस्पन्दन्दनात् जातमिति विश्वप्रकटनसाधनं भवतीति च अवगम्यते।
एतस्मिऩ् विषये विस्तरेण ज्ञातुं श्रीललितासहस्रनामावल्या: भास्कररायव्याख्याने, श्रीभट्टनारायणव्याख्याने, श्रीकामकळाविलासे, श्रीमृगेन्द्रतन्त्रे, षट्त्रिंशत्तत्त्वसन्दोहे तदितरशाक्तेय-शैवागमग्रन्थेषु च द्रष्टुं शक्यते इति निवेदयऩ् विरमति
बुधजनविधेय:,
राणि सदाशिवमूर्ति:।
Dr. Rani Sadasiva Murty --- On Tue, 10/8/10, Ajay Gupta <ajay...@gmail.com> wrote: |
|
From: Ajay GuptaSent: Tuesday, August 10, 2010 10:27 AMSubject: {भारतीयविद्वत्परिषत्} Jnana Iccha Kriya
Dear all,
Can someone please help me to find where in the Shastras (yoga/ vedanta/ sankhya or others) I can find the concept of Jnana- Iccha- Kriya as sub-powers of Vikshepa Shakti? or as the components of any action?
Many thanks, Ajay.
--