विश्वासो वासुकेयः (Vishvas Vasuki)
unread,Aug 15, 2012, 1:43:17 AM8/15/12Sign in to reply to author
Sign in to forward
You do not have permission to delete messages in this group
Either email addresses are anonymous for this group or you need the view member email addresses permission to view the original message
to Samskrita Bharati Austin, samskritam2010, bhaashaap...@googlegroups.com, saMskRRita-sandesha-shreNiH
अधोस्थितम् सायिवर्यप्रस्तुतम् विस्तारपत्त्रम् संस्कृतव्याकरणपिपठिषुभ्यः यथा उपयोगाय अस्ति, तथैव शब्दज्ञानाय किमपि करणीयम् इति सङ्कल्पः मयि जातः। अतः पुरा कस्मिन् चित् सन्देशे प्राप्तम् धातुपाठविस्तारपत्त्रम् आधारीकृत्य, शोधित्वा ईषत् मया
एतत् विस्तारपत्त्रम् (spreadsheet) सृजितम् । अस्य उपयोगः एवम् दृश्यते -
१] भिन्नक्रमेषु वीक्षणम् सुलभम् - उदाहरणाय गण-धातु-क्रमशः वा अर्थक्रमशः वा प्रारम्भाक्षरक्रमशः। अन्यशब्दैः sorting तथा filtering सुलभम् तस्मिन् ।
२] शब्दज्ञानवर्धनाय (के धातवः मया सावधानतया स्मर्तव्याः?) तथा शब्दज्ञानमितिज्ञानाय (कति धातवः ज्ञाताः मया?) अपि सौलभ्यम् कल्पयति। अस्मिन् विस्तारपत्त्रे मया संयुक्ताः "अर्थसमूहः सामान्योपसर्गाः प्रसिद्धता कृदन्त-प्रासिद्ध्यम् प्रसिद्धिः" नामयुक्ताः श्रेण्यः (columns)। तदुपयोगेन भिन्नानाम् प्रसिद्धानाम् धातूनाम् अभिज्ञानम् भूयात् इति आषा ।
एतावत् बहुप्रगतिः न कृता। तथापि प्रत्ययज्ञानम् च
प्रातिपदिकज्ञानम् एवमेव वर्धनम् अमरकोश-धातुपाठादीनाम् स्मरणात् सुलभतरम् स्यात्, इति ऊहः वर्तते । प्राचीने काले नासीत् खलु सङ्गणको वा विस्तारपत्त्राणि! अयम् प्रयोगः सफलः भविष्यतीति न वक्तुम् शक्नोमि, परन्तु भवत्सु यदि केचित् अनुकर्तुम् इच्छन्ति तेषाम् स्वागतम् - सुलभतया विस्तारपत्रयोः अनुकरणम् (copying), परिवर्तनम् शक्यम्। (अहम् अपि स्वछन्दानुसारम् उपयोगाय सायीवर्यस्य विस्तारपत्त्रस्य अनुकरणम् कृतवान् ।) तथा कुर्वन्ति चेत् मे ऽपि सूचयन्तु - अहमपि युष्माकम् विस्तारपत्त्रशैल्या च तत्-स्थितैः प्रसिद्धि-अर्थादिषु सूचनाभिः विचारैः अनुगृहीतो भवेयम् ।
--
Vishvas /विश्वासः